शेष उवाच
विश्वास-प्रस्तुतिः
इत्युक्तवन्तं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम्
प्रत्युवाच हसन्तीव किञ्चिद्गद्गदभाषिणी ॥ १ ॥
मूलम्
इत्युक्तवन्तं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम्
प्रत्युवाच हसन्तीव किञ्चिद्गद्गदभाषिणी ॥ १ ॥
विश्वास-प्रस्तुतिः
नाथ ते विजयोभूयात्सर्वत्र रणमण्डले
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् ॥ २ ॥
मूलम्
नाथ ते विजयोभूयात्सर्वत्र रणमण्डले
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत् ॥ २ ॥
विश्वास-प्रस्तुतिः
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ॥ ३ ॥
मूलम्
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति ॥ ३ ॥
विश्वास-प्रस्तुतिः
परमायोधने कान्त स्मर्तव्याहं न जातुचित्
सत्यां मयि तव स्वान्ते युद्धे 3विजयसंशयः ॥ ४ ॥
मूलम्
परमायोधने कान्त स्मर्तव्याहं न जातुचित्
सत्यां मयि तव स्वान्ते युद्धे 3विजयसंशयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम
हास्यं नैव प्रकुर्वन्ति मां वीक्ष्य करताडनैः ॥ ५ ॥
मूलम्
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम
हास्यं नैव प्रकुर्वन्ति मां वीक्ष्य करताडनैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
इयं पत्नी महाभीरोः सङ्ग्रामे प्रपलायितुः
कातरा यर्हि युद्ध्यन्ति शूराणां समयः कुतः ॥ ६ ॥
मूलम्
इयं पत्नी महाभीरोः सङ्ग्रामे प्रपलायितुः
कातरा यर्हि युद्ध्यन्ति शूराणां समयः कुतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
इत्येवं न हसन्त्युच्चैर्यथा मे देवराङ्गनाः
तथा कार्यं महाबाहो रामस्य हयरक्षणे ॥ ७ ॥
मूलम्
इत्येवं न हसन्त्युच्चैर्यथा मे देवराङ्गनाः
तथा कार्यं महाबाहो रामस्य हयरक्षणे ॥ ७ ॥
विश्वास-प्रस्तुतिः
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः
धनुष्टङ्कारबधिराः क्रियन्तां बलिनः परे ॥ ८ ॥
मूलम्
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः
धनुष्टङ्कारबधिराः क्रियन्तां बलिनः परे ॥ ८ ॥
विश्वास-प्रस्तुतिः
तवप्रोद्यत्कराम्भोज करवालभिया बलम्
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ॥ ९ ॥
मूलम्
तवप्रोद्यत्कराम्भोज करवालभिया बलम्
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
कुलं महदलं कार्यं परान्विजयता त्वया
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह ॥ १० ॥
मूलम्
कुलं महदलं कार्यं परान्विजयता त्वया
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह ॥ १० ॥
विश्वास-प्रस्तुतिः
इदं धनुर्गृहाणाशु महद्गुणविभूषितम्
यस्य गर्जितमाकर्ण्य वैरिवृन्दं भयातुरम् ॥ ११ ॥
मूलम्
इदं धनुर्गृहाणाशु महद्गुणविभूषितम्
यस्य गर्जितमाकर्ण्य वैरिवृन्दं भयातुरम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत्
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ ॥ १२ ॥
मूलम्
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत्
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ ॥ १२ ॥
विश्वास-प्रस्तुतिः
कवचं त्विदमाधेहि शरीरे कामसुन्दरे
वज्रप्रभा महादीप्ति हतसन्तमसन्दृढम् ॥ १३ ॥
मूलम्
कवचं त्विदमाधेहि शरीरे कामसुन्दरे
वज्रप्रभा महादीप्ति हतसन्तमसन्दृढम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
शिरस्त्राणं निजोत्तंसे कुरु कान्त मनोरमम्
इमेव तंसे विशदे मणिरत्नविभूषिते ॥ १४ ॥
मूलम्
शिरस्त्राणं निजोत्तंसे कुरु कान्त मनोरमम्
इमेव तंसे विशदे मणिरत्नविभूषिते ॥ १४ ॥
विश्वास-प्रस्तुतिः
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन्
नयनकमलदृष्ट्या वीक्षमाणस्तन्दङ्गम्
अधिगतपरिमोदो भारतिः शत्रुजेता
रणकरणसमर्थस्तां जगादातिधीरः ॥ १५ ॥
मूलम्
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन्
नयनकमलदृष्ट्या वीक्षमाणस्तन्दङ्गम्
अधिगतपरिमोदो भारतिः शत्रुजेता
रणकरणसमर्थस्तां जगादातिधीरः ॥ १५ ॥
विश्वास-प्रस्तुतिः
पुष्कल उवाच
कान्ते यत्त्वं वदसि मां तथा सर्वं चराम्यहम्
वीरपत्नी भवेत्कीर्तिस्तव कान्तिमतीप्सिता ॥ १६ ॥
मूलम्
पुष्कल उवाच
कान्ते यत्त्वं वदसि मां तथा सर्वं चराम्यहम्
वीरपत्नी भवेत्कीर्तिस्तव कान्तिमतीप्सिता ॥ १६ ॥
विश्वास-प्रस्तुतिः
इति कान्तिमतीदत्तं कवचं मुकुटं वरम्
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् ॥ १७ ॥
मूलम्
इति कान्तिमतीदत्तं कवचं मुकुटं वरम्
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान् ॥ १७ ॥
विश्वास-प्रस्तुतिः
परिधाय च तत्सर्वं बहुशो भासमन्वितः
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः ॥ १८ ॥
मूलम्
परिधाय च तत्सर्वं बहुशो भासमन्वितः
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम्
कुङ्कुमागुरुकस्तूरी चन्दनादिकचर्चितम् ॥ १९ ॥
मूलम्
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम्
कुङ्कुमागुरुकस्तूरी चन्दनादिकचर्चितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
नानाकुसुममालाभिराजानुपरिशोभितम्
नीराजयामास मुहुस्तत्र कान्तिमती सती ॥ २० ॥
मूलम्
नानाकुसुममालाभिराजानुपरिशोभितम्
नीराजयामास मुहुस्तत्र कान्तिमती सती ॥ २० ॥
विश्वास-प्रस्तुतिः
नीराजयित्वा बहुशः किरन्ती मौक्तिकैर्मुहुः
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् ॥ २१ ॥
मूलम्
नीराजयित्वा बहुशः किरन्ती मौक्तिकैर्मुहुः
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा
वीरपत्नि कान्तिमति विरहं मा कृथा मम ॥ २२ ॥
मूलम्
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा
वीरपत्नि कान्तिमति विरहं मा कृथा मम ॥ २२ ॥
विश्वास-प्रस्तुतिः
एष गच्छामि सविधे तव भामे पतिव्रते
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् ॥ २३ ॥
मूलम्
एष गच्छामि सविधे तव भामे पतिव्रते
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
तं प्रयान्तं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः
विलोकयामास तदा पतिव्रतपरायणा ॥ २४ ॥
मूलम्
तं प्रयान्तं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः
विलोकयामास तदा पतिव्रतपरायणा ॥ २४ ॥
विश्वास-प्रस्तुतिः
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम्
गत्वा पितरमम्बां च ववन्दे शिरसा मुदा ॥ २५ ॥
मूलम्
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम्
गत्वा पितरमम्बां च ववन्दे शिरसा मुदा ॥ २५ ॥
विश्वास-प्रस्तुतिः
माता पुत्रं परिष्वज्य स्वाङ्कमारोपयत्तदा
मुञ्चन्ती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा ॥ २६ ॥
मूलम्
माता पुत्रं परिष्वज्य स्वाङ्कमारोपयत्तदा
मुञ्चन्ती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा ॥ २६ ॥
विश्वास-प्रस्तुतिः
पितरं प्राह भरतं रामो यज्ञकरः परः
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः ॥ २७ ॥
मूलम्
पितरं प्राह भरतं रामो यज्ञकरः परः
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः ॥ २७ ॥
विश्वास-प्रस्तुतिः
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा
ययौ शत्रुघ्नकटकं महावीरविभूषितम् ॥ २८ ॥
मूलम्
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा
ययौ शत्रुघ्नकटकं महावीरविभूषितम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः ॥ २९ ॥
मूलम्
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः ॥ २९ ॥
विश्वास-प्रस्तुतिः
गच्छन्पाञ्चालदेशांश्च कुरूंश्चैवोत्तरान्कुरून्
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ॥ ३० ॥
मूलम्
गच्छन्पाञ्चालदेशांश्च कुरूंश्चैवोत्तरान्कुरून्
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम्
रावणासुरघातेन भक्तरक्षाविधायकम् ॥ ३१ ॥
मूलम्
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम्
रावणासुरघातेन भक्तरक्षाविधायकम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पुनश्च हयमेधादि कार्यमारभ्य पावनम्
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ॥ ३२ ॥
मूलम्
पुनश्च हयमेधादि कार्यमारभ्य पावनम्
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ॥ ३३ ॥
मूलम्
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ॥ ३४ ॥
मूलम्
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून्
रघुनाथप्रतापेन न कोपि हृतवान्हयम् ॥ ३५ ॥
मूलम्
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून्
रघुनाथप्रतापेन न कोपि हृतवान्हयम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
देशाधिपाये बहवो महाबलपराक्रमाः
हस्त्यश्वरथपादात चतुरङ्गसमन्विताः ॥ ३६ ॥
मूलम्
देशाधिपाये बहवो महाबलपराक्रमाः
हस्त्यश्वरथपादात चतुरङ्गसमन्विताः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सम्पदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ॥ ३७ ॥
मूलम्
सम्पदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इदं राज्यं धनं सर्वं सपुत्रपशुबान्धवम्
रामचन्द्रस्य सर्वं हि न मदीयं रघूद्वह ॥ ३८ ॥
मूलम्
इदं राज्यं धनं सर्वं सपुत्रपशुबान्धवम्
रामचन्द्रस्य सर्वं हि न मदीयं रघूद्वह ॥ ३८ ॥
विश्वास-प्रस्तुतिः
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा
आज्ञां स्वां तत्र सञ्ज्ञाप्य ययौ तैः सहितः पथि ॥ ३९ ॥
मूलम्
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा
आज्ञां स्वां तत्र सञ्ज्ञाप्य ययौ तैः सहितः पथि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवं क्रमेण सम्प्राप्तः शत्रुघ्नो हयसंयुतः
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ॥ ४० ॥
मूलम्
एवं क्रमेण सम्प्राप्तः शत्रुघ्नो हयसंयुतः
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम्
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलङ्कृताम् ॥ ४१ ॥
मूलम्
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम्
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलङ्कृताम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यत्र रम्भा तिरस्कारकारिण्यः कमलाननाः
दृश्यन्ते सर्वहर्म्येषु ललना लीलयान्विताः ॥ ४२ ॥
मूलम्
यत्र रम्भा तिरस्कारकारिण्यः कमलाननाः
दृश्यन्ते सर्वहर्म्येषु ललना लीलयान्विताः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः
धनदानुचरायद्वत्तथा लीलासमन्विताः ॥ ४३ ॥
मूलम्
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः
धनदानुचरायद्वत्तथा लीलासमन्विताः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
यत्र वीरा धनुर्हस्ताःशरसन्धानकोविदाः
कुर्वन्ति तत्र राजानं सुहृष्टं सुमदाभिधम् ॥ ४४ ॥
मूलम्
यत्र वीरा धनुर्हस्ताःशरसन्धानकोविदाः
कुर्वन्ति तत्र राजानं सुहृष्टं सुमदाभिधम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ॥ ४५ ॥
मूलम्
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुन्नागैर्नागचम्पैश्च तिलकैर्देवदारुभिः
अशोकैः पाटलैश्चूतैर्मन्दारैःकोविदारकैः ॥ ४६ ॥
मूलम्
पुन्नागैर्नागचम्पैश्च तिलकैर्देवदारुभिः
अशोकैः पाटलैश्चूतैर्मन्दारैःकोविदारकैः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
आम्रजम्बुकदम्बैश्च प्रियालपनसैस्तथा
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ॥ ४७ ॥
मूलम्
आम्रजम्बुकदम्बैश्च प्रियालपनसैस्तथा
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
नीपैः कदम्बैर्बकुलैश्चम्पकैर्मदनादिभिः
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ॥ ४८ ॥
मूलम्
नीपैः कदम्बैर्बकुलैश्चम्पकैर्मदनादिभिः
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा ॥ ४८ ॥
विश्वास-प्रस्तुतिः
हयोगतस्तद्वनमध्यदेशे
तमालतालादि सुशोभिते वै
ययौ ततः पृष्ठत एव वीरो
धनुर्धरैः सेवितपादपद्मः ॥ ४९ ॥
मूलम्
हयोगतस्तद्वनमध्यदेशे
तमालतालादि सुशोभिते वै
ययौ ततः पृष्ठत एव वीरो
धनुर्धरैः सेवितपादपद्मः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
ददर्श त रचितं देवायतनमद्भुतम्
इन्द्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ॥ ५० ॥
मूलम्
ददर्श त रचितं देवायतनमद्भुतम्
इन्द्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि ॥ ५० ॥
विश्वास-प्रस्तुतिः
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम्
जातरूपमयैः स्तम्भैःशोभितं सद्मनां वरम् ॥ ५१ ॥
मूलम्
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम्
जातरूपमयैः स्तम्भैःशोभितं सद्मनां वरम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम्
पप्रच्छ सुमतिं स्वीयं मन्त्रिणं वदतांवरम् ॥ ५२ ॥
मूलम्
दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम्
पप्रच्छ सुमतिं स्वीयं मन्त्रिणं वदतांवरम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
वदामात्य वरेदं किं कस्यदेवस्य केतनम्
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ॥ ५३ ॥
मूलम्
शत्रुघ्न उवाच
वदामात्य वरेदं किं कस्यदेवस्य केतनम्
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ ॥ ५३ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य यथावदिहसर्वशः ॥ ५४ ॥
मूलम्
एवमाकर्ण्य यथावदिहसर्वशः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम्
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ॥ ५५ ॥
मूलम्
कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम्
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते ॥ ५५ ॥
विश्वास-प्रस्तुतिः
देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम्
धर्मार्थकाममोक्षाणां दात्री भक्तानुकम्पिनी ॥ ५६ ॥
मूलम्
देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम्
धर्मार्थकाममोक्षाणां दात्री भक्तानुकम्पिनी ॥ ५६ ॥
विश्वास-प्रस्तुतिः
याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा
स्थिता करोति सकलं भक्तानां दुःखहारिणी ॥ ५७ ॥
मूलम्
याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा
स्थिता करोति सकलं भक्तानां दुःखहारिणी ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ॥ ५८ ॥
मूलम्
तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ॥ ५९ ॥
मूलम्
इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः ॥ ५९ ॥
विश्वास-प्रस्तुतिः
शत्रुघ्न उवाच
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम्
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ॥ ६० ॥
मूलम्
शत्रुघ्न उवाच
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम्
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता ॥ ६० ॥
विश्वास-प्रस्तुतिः
वद सर्वं महामात्य नानार्थपरिबृंहितम्
यथावत्त्वं हि जानासि तस्माद्वद महामते ॥ ६१ ॥
मूलम्
वद सर्वं महामात्य नानार्थपरिबृंहितम्
यथावत्त्वं हि जानासि तस्माद्वद महामते ॥ ६१ ॥
विश्वास-प्रस्तुतिः
सुमतिरुवाच
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः
तत्रास्ति तीर्थं विमलमृषिवृन्दसुसेवितम् ॥ ६२ ॥
मूलम्
सुमतिरुवाच
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः
तत्रास्ति तीर्थं विमलमृषिवृन्दसुसेवितम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सुमदो हि तपस्तेपे हतमातृपितृप्रजः
अरिभिः सर्वसामन्तैर्जगाम तपसे हि तम् ॥ ६३ ॥
मूलम्
सुमदो हि तपस्तेपे हतमातृपितृप्रजः
अरिभिः सर्वसामन्तैर्जगाम तपसे हि तम् ॥ ६३ ॥
विश्वास-प्रस्तुतिः
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन्
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ॥ ६४ ॥
मूलम्
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन्
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन्
चकार परमुग्रं स तपः परमदुश्चरम् ॥ ६५ ॥
मूलम्
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन्
चकार परमुग्रं स तपः परमदुश्चरम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः
ग्रीष्मे चचार पञ्चाग्नीन्प्रावृट्सु जलदोन्मुखः ॥ ६६ ॥
मूलम्
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः
ग्रीष्मे चचार पञ्चाग्नीन्प्रावृट्सु जलदोन्मुखः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
त्रीणि वर्षाणि पवनं संरुध्य स्वान्तगोचरम्
भवानीं संस्मरन्धीरो न च किञ्चन पश्यति ॥ ६७ ॥
मूलम्
त्रीणि वर्षाणि पवनं संरुध्य स्वान्तगोचरम्
भवानीं संस्मरन्धीरो न च किञ्चन पश्यति ॥ ६७ ॥
विश्वास-प्रस्तुतिः
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ॥ ६८ ॥
मूलम्
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
आदिदेश सकामं तु परिवारपरीवृतम्
अप्सरोभिः सुसंयुक्तं ब्रह्मेन्द्रादिजयोद्यतम् ॥ ६९ ॥
मूलम्
आदिदेश सकामं तु परिवारपरीवृतम्
अप्सरोभिः सुसंयुक्तं ब्रह्मेन्द्रादिजयोद्यतम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
गच्छ कामसखे मह्यं प्रियमाचर मोहन
सुमदस्य तपोविघ्नं समाचर यथा भवेत् ॥ ७० ॥
मूलम्
गच्छ कामसखे मह्यं प्रियमाचर मोहन
सुमदस्य तपोविघ्नं समाचर यथा भवेत् ॥ ७० ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयम्प्रभुः
उवाच विश्वविजये प्रौढगर्वो रघूद्वह ॥ ७१ ॥
मूलम्
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयम्प्रभुः
उवाच विश्वविजये प्रौढगर्वो रघूद्वह ॥ ७१ ॥
विश्वास-प्रस्तुतिः
काम उवाच
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः
ब्रह्मादीनां तपोभङ्गं करोम्यस्य तु का कथा ॥ ७२ ॥
मूलम्
काम उवाच
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः
ब्रह्मादीनां तपोभङ्गं करोम्यस्य तु का कथा ॥ ७२ ॥
विश्वास-प्रस्तुतिः
मद्बाणबलनिर्भिन्नश्चन्द्रस्तारां गतः पुरा
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ॥ ७३ ॥
मूलम्
मद्बाणबलनिर्भिन्नश्चन्द्रस्तारां गतः पुरा
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
चिन्तां मा कुरु देवेन्द्र सेवके मयि संस्थिते
एष गच्छामि सुमदं देवान्पालय मारिष ॥ ७४ ॥
मूलम्
चिन्तां मा कुरु देवेन्द्र सेवके मयि संस्थिते
एष गच्छामि सुमदं देवान्पालय मारिष ॥ ७४ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ
वसन्तेन युतः सख्या तथैवाप्सरसाङ्गणैः ॥ ७५ ॥
मूलम्
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ
वसन्तेन युतः सख्या तथैवाप्सरसाङ्गणैः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
वसन्तस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान्
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ॥ ७६ ॥
मूलम्
वसन्तस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान्
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह ॥ ७६ ॥
विश्वास-प्रस्तुतिः
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः
कृतमालासरित्तीर लवङ्गकुसुमान्वितः ॥ ७७ ॥
मूलम्
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः
कृतमालासरित्तीर लवङ्गकुसुमान्वितः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
एवंविधे वने वृत्ते रम्भानामाप्सरोवरा
सखीभिः संवृता तत्र जगाम सुमदान्तिकम् ॥ ७८ ॥
मूलम्
एवंविधे वने वृत्ते रम्भानामाप्सरोवरा
सखीभिः संवृता तत्र जगाम सुमदान्तिकम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
तत्रारभत गानं सा किन्नरस्वरशोभना
मृदङ्गपणवानेकवाद्यभेदविशारदा ॥ ७९ ॥
मूलम्
तत्रारभत गानं सा किन्नरस्वरशोभना
मृदङ्गपणवानेकवाद्यभेदविशारदा ॥ ७९ ॥
विश्वास-प्रस्तुतिः
तद्गानमाकर्ण्य नराधिपोऽसौ
वसन्तमालोक्य मनोहरं च
तथान्यपुष्टारटितं मनोरमं
चकार चक्षुः परिवर्तनं बुधः ॥ ८० ॥
मूलम्
तद्गानमाकर्ण्य नराधिपोऽसौ
वसन्तमालोक्य मनोहरं च
तथान्यपुष्टारटितं मनोरमं
चकार चक्षुः परिवर्तनं बुधः ॥ ८० ॥
विश्वास-प्रस्तुतिः
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन्
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ॥ ८१ ॥
मूलम्
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन्
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ ॥ ८१ ॥
विश्वास-प्रस्तुतिः
एकाप्सरास्तत्र नृपस्य पादयोः
संवाहनं नर्तितनेत्रपल्लवा
चकार चान्या तु कटाक्षमोक्षणं
चकार काचिद्भृशमङ्गचेष्टितम् ॥ ८२ ॥
मूलम्
एकाप्सरास्तत्र नृपस्य पादयोः
संवाहनं नर्तितनेत्रपल्लवा
चकार चान्या तु कटाक्षमोक्षणं
चकार काचिद्भृशमङ्गचेष्टितम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः
चिन्तयामास मतिमाञ्जितेन्द्रियशिरोमणिः ॥ ८३ ॥
मूलम्
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः
चिन्तयामास मतिमाञ्जितेन्द्रियशिरोमणिः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः
शक्रेण प्रेषिताः सर्वाः करिष्यन्ति यथातथम् ॥ ८४ ॥
मूलम्
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः
शक्रेण प्रेषिताः सर्वाः करिष्यन्ति यथातथम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
इति सञ्चिन्त्य सुतपास्ता उवाच वराङ्गनाः
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ॥ ८५ ॥
मूलम्
इति सञ्चिन्त्य सुतपास्ता उवाच वराङ्गनाः
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ॥ ८६ ॥
मूलम्
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः ॥ ८६ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षो-
पाख्यानं नाम द्वादशोऽध्यायः १२