०११

शेष उवाच

विश्वास-प्रस्तुतिः

एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः
वीरानालोकयन्भूयो जगाद शुभया गिरा ॥ १ ॥

मूलम्

एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः
वीरानालोकयन्भूयो जगाद शुभया गिरा ॥ १ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै
को गन्ता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः ॥ २ ॥

यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसङ्घैः
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम् ॥ ३ ॥

इत्युक्तवति रामे तु पुष्कलो भरतात्मजः
जग्राह वीटकं तस्माद्रघुराजकराम्बुजात् ॥ ४ ॥

स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम्
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो ॥ ५ ॥

सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते
एते निमित्तभूता वै रामचन्द्र महामते ॥ ६ ॥

भवत्कृपातः सकलं ससुरासुरमानुषम्
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम् ॥ ७ ॥

सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात्
एष गन्तास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः ॥ ८ ॥

एवं ब्रुवन्तं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः
शशंस सर्वान्कपिवीरमुख्यान्प्रभञ्जनोद्भूतमुखान्हरिः प्रभुः ॥ ९ ॥

भो हनूमन्महावीर शृणु मद्वाक्यमादृतः
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकण्टकम् ॥ १० ॥

सीतया मम संयोगे यो भवाञ्जलधिं तरेः
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर ॥ ११ ॥

त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा ॥ १२ ॥

यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते ॥ १३ ॥

इति श्रुत्वा महद्वाक्यं रामचन्द्रस्य धीमतः
शिरसा तत्समाधाय प्रणाममकरोत्तदा ॥ १४ ॥

अथादिशन्महाराजो जाम्बवन्तं कपीश्वरम्
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् ॥ १५ ॥

मूलम्

अथादिशन्महाराजो जाम्बवन्तं कपीश्वरम्
रघुनाथस्य सेवायै कपिषूत्तमतेजसम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

अङ्गदो गवयो मैन्दस्तथा दधिमुखः कपिः
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी ॥ १६ ॥

नीलो नलो मनोवेगोऽधिगन्ता वानराङ्गजः
इत्येवमादयो यूयं सज्जीभूता भवन्तु भोः ॥ १७ ॥

सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः ॥ १८ ॥

सुमन्त्रमाहूय सुमन्त्रिणं तदा जगाद रामो बलवीर्यशोभनः
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः ॥ १९ ॥

तदुक्तमेवमाकर्ण्य जगाद परवीरहा
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान् ॥ २० ॥

रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान्
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान् ॥ २१ ॥

प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम्
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम् ॥ २२ ॥

राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः ॥ २३ ॥

अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः ॥ २४ ॥

प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत्
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः ॥ २५ ॥

एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने
सन्नद्धो रिपुनाशाय युवाको दण्डदण्डभृत् ॥ २६ ॥

तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत् ॥ २७ ॥

ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसञ्ज्ञितम्
मायूरं नाकुलं रौद्रं वैष्णवं मेघसञ्ज्ञितम् ॥ २८ ॥

वज्रं पार्वतसञ्ज्ञं च तथा वायव्यसञ्ज्ञितम्
इत्यादिकानामस्त्राणां सम्प्रयोगविसर्गवित् ॥ २९ ॥

स एष निजसैन्यानामक्षौहिण्यैकया युतः
प्रयातु शूरमुकुटः सर्ववैरिप्रभञ्जनः ॥ ३० ॥

रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम्
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः ॥ ३१ ॥

गच्छतात्सेनया बह्व्या चतुरङ्गसमेतया
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः ॥ ३२ ॥

उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च
सर्वे यान्तु सुसन्नद्धास्तव वाहस्य पालकाः ॥ ३३ ॥

इति भाषितमाकर्ण्य मन्त्रिणः प्रजहर्ष च
आज्ञापयामास च तान्सुमन्त्रकथितान्भटान् ॥ ३४ ॥

तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे
चिरकालं साम्परायं वाञ्च्छन्तो युद्धदुर्मदाः ॥ ३५ ॥

सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः ॥ ३६ ॥

अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात्
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः ॥ ३७ ॥

आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्
हयमेकं मनोवेगं रत्नमालाविभूषितम् ॥ ३८ ॥

मूलम्

आचार्याय ददौ रामो हस्तिनं षष्टिहायनम्
हयमेकं मनोवेगं रत्नमालाविभूषितम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

पौरटं रथमेकं च मणिरत्नविभूषितम्
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम् ॥ ३९ ॥

मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम्
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम् ॥ ४० ॥

ग्राममेकं सुसम्पन्नं नानाजनसमाकुलम्
विचित्रसस्यनिष्पन्नं विविधैर्मन्दिरैर्वृतम् ॥ ४१ ॥

ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः ॥ ४२ ॥

सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः
चिरञ्जीव महाराज रामचन्द्र रघूद्वह ॥ ४३ ॥

कन्यादानं भूमिदानं गजदानं तथैव च
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम् ॥ ४४ ॥

अन्नदानं पयोदानमभयं दानमुत्तमम्
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान् ॥ ४५ ॥

देहि देहि धनं देहि मानेति ब्रूहि कस्यचित्
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम् ॥ ४६ ॥

इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः ॥ ४७ ॥

अथ रामानुजो गत्वा मातरं प्रणनाम ह
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने ॥ ४८ ॥

त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः
आयास्यामि महाराजैर्हयवर्यसमन्वितः ॥ ४९ ॥

मातोवाच
पुत्र गच्छ महावीर शिवाः पन्थान एव ते
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते ॥ ५० ॥

पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम्
महाबलिनमद्यापि बालकं लीलयायुतम् ॥ ५१ ॥

मूलम्

पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम्
महाबलिनमद्यापि बालकं लीलयायुतम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः
तदा मम प्रमोदः स्यादन्यथा शोकभागहम् ॥ ५२ ॥

इति सम्भाष्यमाणां स्वां मातरं प्रत्युवाच सः
त्वदीयचरणद्वन्द्वं स्मरन्प्राप्स्यामि शोभनम् ॥ ५३ ॥

पुष्कलं पालयित्वाहं निजाङ्गमिव शोभने
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान् ॥ ५४ ॥

इत्युक्त्वा प्रययौ वीरो रामं स मखमण्डपे
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम् ॥ ५५ ॥

उवाच मतिमान्वीरः सर्वशोभासमन्वितः
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव ॥ ५६ ॥

रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत्
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम् ॥ ५७ ॥

तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः
प्रहस्य किञ्चिन्नयने नर्तयन्राममब्रवीत् ॥ ५८ ॥

लक्ष्मीनिधिरुवाच
रामचन्द्र महाबाहो सर्वधर्मपरायण
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत् ॥ ५९ ॥

कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा
गच्छेत्स परमं धाम तेजोबलसमन्वितम् ॥ ६० ॥

त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत्
पित्रा तव हतो विप्रः पितृभक्तिपरायणः ॥ ६१ ॥

त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम्
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः ॥ ६२ ॥

अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम्
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम् ॥ ६३ ॥

एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत् ॥ ६४ ॥

इत्युक्तवन्तं तं रामः प्रत्युवाच हसन्निव
मेघगम्भीरया वाचा सर्ववाक्यविशारदः ॥ ६५ ॥

शृण्वन्तु योगिनः शान्ताः समदुःखसुखाः पुनः
जानन्त्यपारसंसारनिस्तारतरणादिकम् ॥ ६६ ॥

ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः
ते च जानन्ति युद्धस्य वार्त्तां न तु भवादृशाः ॥ ६७ ॥

परोपतापिनो ये वै ये चोत्पथविसारिणः
ते हन्तव्या नृपैः सर्वैः सर्वलोकहितैषिभिः ॥ ६८ ॥

इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिन्दमस्य
कुम्भोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि ॥ ६९ ॥

इमं मन्त्रं समुच्चार्य वसिष्ठः कलशोद्भवः
कराग्रेण स्पृशन्नश्वं मुमोच जयकाङ्क्षया ॥ ७० ॥

वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले
यागार्थे मोचितो येन पुनरागच्छ सत्वरः ॥ ७१ ॥

अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः ॥ ७२ ॥

प्रचचार बलं सर्वं कम्पयद्धरणीतलम्
शेषोऽपि किञ्चिन्न तया फणया धृतवान्भुवम् ॥ ७३ ॥

दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम्
वायवस्तं तु शत्रुघ्नं पृष्ठतो मन्दगामिनः ॥ ७४ ॥

शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत्
दक्षिणः शुभमाशंसी जयाय च बभूव ह ॥ ७५ ॥

पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत्
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम् ॥ ७६ ॥

तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम्
किञ्चित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम् ॥ ७७ ॥

मुखारविन्देन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकङ्कणे ॥ ७८ ॥

कुचौ तु मालूरफलोपमौ वरौ नितम्बबिम्बं वरनीवि शोभितम्
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम् ॥ ७९ ॥

परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम्
तदुरोजपरीरम्भनिर्भरीकृतदेहकाम् ॥ ८० ॥

मूलम्

परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम्
तदुरोजपरीरम्भनिर्भरीकृतदेहकाम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः ॥ ८१ ॥

त्वया मे मातरः पूज्याः पादसंवाहनादिमिः
तदुच्छिष्टं हि भुञ्जाना तत्कर्मकरणादरा ॥ ८२ ॥

सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः ॥ ८३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-
पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः ११