०१०

शेष उवाच

विश्वास-प्रस्तुतिः

इत्थं संशृण्वतो धर्मान्वसन्तः समुपस्थितः
यत्र यज्ञ क्रियादीनां प्रारम्भः सुमहात्मनाम् ॥ १ ॥

मूलम्

दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः
रामचन्द्रं महाराजं प्रत्युवाच यथोचितम् ॥ २ ॥

वसिष्ठ उवाच
रामचन्द्र महाबाहो समयः पर्यभूत्तव
हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः ॥ ३ ॥

सामग्री क्रियतां तत्र आहूयन्तां द्विजोत्तमाः
करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम् ॥ ४ ॥

दीनान्धकृपणानां च दानं स्वान्ते समुत्थितम्
ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च ॥ ५ ॥

भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर
भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः ॥ ६ ॥

मृगशृङ्गधरः कट्यां मेखलाजिनदण्डभृत्
करोतु यज्ञसम्भारं सर्वद्रव्यसमन्वितम् ॥ ७ ॥

इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम्
उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम् ॥ ८ ॥

श्रीराम उवाच
शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम्
हयमानय यत्नेन वाजिमेधक्रियोचितम् ॥ ९ ॥

श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा
सेनापतिमुवाचेदं वचो विविधवर्णनम् ॥ १० ॥

लक्ष्मण उवाच
वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः
कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टाङ्घ्रि रामाज्ञया
सेनां कालबलप्रभञ्जनबलप्रोद्यत्समर्थाङ्गिनीं
सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम् ॥ ११ ॥

सज्जीयतां वायुजवास्तुरङ्गास्तरङ्गमाला ललिताङ्घ्रिपाताः
सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः ॥ १२ ॥

संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुन्ताग्रहस्तैः
शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः ॥ १३ ॥

विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः
विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृन्दैः ॥ १४ ॥

पत्तयः शतशो मह्यमायान्त्वस्त्राग्न्यपाणयः
हयमेधार्हवाहस्य रक्षणे विततोद्यमाः ॥ १५ ॥

इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः
सेनानी कालजिन्नामा कारयामास सज्जताम् ॥ १६ ॥

दशध्रुवकमण्डितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकण्ठको शेमणिः मुखे विशदकान्तिधृत्त्वसितकान्तिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः ॥ १७ ॥

कलासंशोभितमुखः स्फुरद्रत्नविशोभितः
मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः ॥ १८ ॥

श्वेतातपत्ररचितः सितचामरशोभितः
बहुशोभापरीताङ्गो निर्ययौ हयराट्ततः ॥ १९ ॥

अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा
देवा हरिं यथापूर्वं सेवन्ते सेवनोचितम् ॥ २० ॥

अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा
हस्त्यश्वरथपादातवृन्दैः सुबहुसङ्कुलम् ॥ २१ ॥

ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः
ततो दुन्दुभिनादोऽभूत्तस्मिन्पुरवरे तदा ॥ २२ ॥

तन्निनादेन शूराणां प्रियेण महता तदा
कम्पन्ति गिरिशृङ्गाणि प्रासादा विचलन्ति च ॥ २३ ॥

हेषारवो महानासीद्वाजिनां मुह्यतां नृप
रथाङ्गघातसङ्घुष्टा धरा सञ्चलतीव सा ॥ २४ ॥

चलितैर्गजयूथैश्च पृथ्वी रुद्धा समन्ततः
रजस्तु प्रचलत्तत्र जनान्तर्द्धानमादधात् ॥ २५ ॥

निर्जगाम महासैन्यं छत्रैः सञ्छाद्य भास्करम्
सेनान्याकालजिन्नाम्ना प्रेरितं जनसङ्कुलम् ॥ २६ ॥

गर्जन्तस्तलवीराग्र्याः कुर्वन्तो रणसम्भ्रमम्
रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा ॥ २७ ॥

मृगमदमयमङ्गेष्वङ्गरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमाङ्गाः
मुकुटकटकभूषाभूषिताङ्गाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे ॥ २८ ॥

इत्येवं ते महाराजं ययुः सेनाचरा वराः
धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः ॥ २९ ॥

एवं शनैःशनैः प्राप्तो मण्डपं यागचिह्नितम्
हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन् ॥ ३० ॥

रामो दृष्ट्वा हरिं प्राप्तं बहुसन्तुष्टमानसः
वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति ॥ ३१ ॥

वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम्
प्रयोगं कारयामास ब्रह्महत्यापनोदनम् ॥ ३२ ॥

ब्रह्मचर्यव्रतधरो मृगशृङ्गपरिग्रहः
तत्कर्म कारयामास रामः परपुरञ्जयः ॥ ३३ ॥

मूलम्

ब्रह्मचर्यव्रतधरो मृगशृङ्गपरिग्रहः
तत्कर्म कारयामास रामः परपुरञ्जयः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रारेभे यागकर्मार्थं कुण्डं मण्डपसम्मितम्
तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित् ॥ ३४ ॥

वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः
ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः ॥ ३५ ॥

वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः
अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै ॥ ३६ ॥

द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमन्त्रवित्
पूर्वद्वारि मुनिश्रेष्ठौ देवलासित सञ्ज्ञितौ ॥ ३७ ॥

दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी
पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः ॥ ३८ ॥

उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ
एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः ॥ ३९ ॥

हयवर्यस्य सत्पूजां कर्तुमारभत द्विज
सुवासिन्यः स्त्रियस्तत्र वासोलङ्कारभूषिताः ॥ ४० ॥

हरिद्राक्षतगन्धाद्यैः पूजयामासुरर्चितम्
नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः ॥ ४१ ॥

वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया
एवं सम्पूज्य विमले भाले चन्दनचर्चिते ॥ ४२ ॥

कुङ्कुमादिकगन्धाढ्ये सर्वशोभासमन्विते
बबन्ध भास्वरं पत्रं तप्तहाटकनिर्मितम् ॥ ४३ ॥

तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम्
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः ॥ ४४ ॥

यं देवाः सासुराः सर्वे नमन्ति मणिमौलिभिः
तस्यात्मजो वीरबलदर्पहारी रघूद्वहः ॥ ४५ ॥

रामचन्द्रो महाभागः सर्वशूरशिरोमणिः
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा ॥ ४६ ॥

मूलम्

रामचन्द्रो महाभागः सर्वशूरशिरोमणिः
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयङ्करः
करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः ॥ ४७ ॥

रावणाभिधविप्रेन्द्र वधपापापनुत्तये
मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः ॥ ४८ ॥

महाबलपरीवार परिखाभिः सुरक्षितः
तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणान्तकः ॥ ४९ ॥

हस्त्यश्वरथपादात सेनासङ्घसमन्वितः
यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात् ॥ ५० ॥

वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः
ते गृह्णन्तु बलाद्वाहं रत्नमालाविभूषितम् ॥ ५१ ॥

मनोवेगं कामजवं सर्वगत्यधिभास्वरम्
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम् ॥ ५२ ॥

शरासनविनिर्मुक्त वत्सदन्तैः शिखाशितैः ॥ ५३ ॥

इत्येवमादि विलिलेख महामुनीन्द्रः
श्रीरामचन्द्र भुजवीर्यलसत्प्रतापम्
शोभानिधानमतिचञ्चलवायुवेगं
पातालभूतलविशेषगतिं मुमोच ॥ ५४ ॥

मूलम्

इत्येवमादि विलिलेख महामुनीन्द्रः
श्रीरामचन्द्र भुजवीर्यलसत्प्रतापम्
शोभानिधानमतिचञ्चलवायुवेगं
पातालभूतलविशेषगतिं मुमोच ॥ ५४ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः
याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः ॥ ५५ ॥

शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव
भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ ॥ ५६ ॥

ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया-
वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम्
सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां-
स्तान्मा हन्याः सुकृतकृतिनो येन शंसन्ति कर्म ॥ ५७ ॥

विरथा भयसन्त्रस्ता ये वदन्ति वयं तव
ते त्वया न हि हन्तव्याः शत्रुघ्न सुकृतैषिणा ॥ ५८ ॥

यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम्
तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम् ॥ ५९ ॥

परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके
नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः ॥ ६० ॥

वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय
पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः ॥ ६१ ॥

गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम्
अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः ॥ ६२ ॥

विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत्
ये तदीया महाबाहो तद्रूपा विचरन्ति हि ॥ ६३ ॥

ये स्मरन्ति महाविष्णुं सर्वभूतहृदि स्थितम्
ते मन्तव्या महाविष्णु समरूपा रघूद्वह ॥ ६४ ॥

यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः
ते वैष्णवाः क्षणादेव पापिनं पावयन्ति हि ॥ ६५ ॥

येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः
वैकुण्ठात्प्रेषितास्तेऽत्र लोकपावनहेतवे ॥ ६६ ॥

येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः
उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः ॥ ६७ ॥

येषां वेदाः प्रियतमा न च संसारजं सुखम्
स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान् ॥ ६८ ॥

शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः
तेषां पादरजः पूतं वहाम्यघविनाशनम् ॥ ६९ ॥

गौरी गङ्गा महालक्ष्मीर्यस्य नास्ति पृथक्तया
ते मन्तव्या नराः सर्वे स्वर्गलोकादिहागताः ॥ ७० ॥

शरणागतरक्षी च मानदानपरायणः
यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः ॥ ७१ ॥

यस्य नाम महापापराशिं दहति सत्वरम्
तदीय चरणद्वन्द्वे भक्तिर्यस्य स वैष्णवः ॥ ७२ ॥

इन्द्रियाणि वशे येषां मनोऽपि हरिचिन्तकम्
तान्नमस्कृत्य पूयात्सह्या जन्ममरणान्तिकात् ॥ ७३ ॥

परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः
एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम् ॥ ७४ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
शत्रुघ्नशिक्षाकथनन्नाम दशमोऽध्यायः १०