श्रीराम उवाच
विश्वास-प्रस्तुतिः
कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने
कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः ॥ १ ॥
मूलम्

अगस्त्य उवाच
गङ्गाजलसमानेन वर्णेन वपुषा शुभः
कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः ॥ २ ॥

मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः
वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः ॥ ३ ॥

वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि
पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम् ॥ ४ ॥

मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः
यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः ॥ ५ ॥

यस्तम्बलान्निबध्नाति स्ववीर्यबलदर्पितः
तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः ॥ ६ ॥

कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह
मृगशृङ्गधरो भूत्वा ब्रह्मचर्यसमन्वितः ॥ ७ ॥

व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत्
तावद्दीनान्धकृपणाः परितोष्या धनादिभिः ॥ ८ ॥

अन्नं तु बहुशो देयं धनं वा भूरि मारिष
यद्यत्प्रार्थयते धीमांस्तत्तदेव ददाति हि ॥ ९ ॥

एवं प्रकुर्वतः कर्म यज्ञः सम्पूर्णतां गतः
करोति सर्वपापानां नाशनं रिपुनाशन ॥ १० ॥

तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने
कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप ॥ ११ ॥

विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना
तादृशाः सन्ति नो वाश्वाः शुभलक्षणलक्षिताः ॥ १२ ॥

इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः
उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान् ॥ १३ ॥

गत्वाथ तत्र शालायां रामचन्द्रसमन्वितः
ददर्शाश्वान्विचित्राङ्गान्मनोवेगान्महाबलान् ॥ १४ ॥

अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिण्डाः
किमिदममृतराशिर्वाहरूपेण सिन्धोर्मुनिरिति मनसोन्तर्विस्मयं प्राप पश्यन् ॥ १५ ॥

एकतः शोणदेहानां वाजिनां पङ्क्तिरुत्तमा
एकतः श्यामकर्णाश्च कस्तूरीकान्तिसप्रभाः ॥ १६ ॥

एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः
एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः ॥ १७ ॥

एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः
ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः ॥ १८ ॥

ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान्
दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षिताङ्गकः ॥ १९ ॥

एकतः श्यामकर्णांश्च सर्वाङ्गैः क्षीरसन्निभान्
पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान् ॥ २० ॥

निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुञ्जप्रभान्
पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः ॥ २१ ॥

हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान्
पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम ॥ २२ ॥

रामचन्द्र महाभाग सुरासुरनमस्कृत
यज्ञं कुरु महाराज हयमेधं सुविस्तरम् ॥ २३ ॥

सुरपतिरिव सर्वान्यज्ञसङ्घान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन्
हतरिपुगणमुख्यं साम्परायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग ॥ २४ ॥

इत्येवं वाक्यवादेन परितुष्टाखिलेन्द्रियः
सर्वान्वै यज्ञसम्भारानाजहार मनोहरान् ॥ २५ ॥

मुन्यन्वितो महाराजः सरयूतीरमागतः
सुवर्णलाङ्गलैर्भूमिं विचकर्ष महीयसीम् ॥ २६ ॥

विलिख्य भूमिं बहुशश्चतुर्योजनसम्मिताम्
मण्डपान्रचयामास यज्ञार्थं स नरोत्तमः ॥ २७ ॥

कुण्डं तु विधिवत्कृत्वा योनिमेखलयान्वितम्
अनेकरत्नरचितं सर्वशोभासमन्वितम् ॥ २८ ॥

मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः
सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम् ॥ २९ ॥

प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान्
कथयामासुरुद्युक्तं हयमेधे रघूत्तमम् ॥ ३० ॥

आकारितास्तदा सर्वे ऋषयस्तपतां वराः
आजग्मुः परमेशस्य दर्शने त्वतिलालसाः ॥ ३१ ॥

नारदोसितनामा च पर्वतः कपिलो मुनिः
जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः ॥ ३२ ॥

हारीतो याज्ञवल्क्यश्च संवर्तः शुकसञ्ज्ञितः
इत्येवमादयो राम हयमेधवरं ययुः ॥ ३३ ॥

तान्सर्वान्पूजयामास रघुराजो महामनाः
प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः ॥ ३४ ॥

गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः
महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः ॥ ३५ ॥

शेष उवाच
एवं समाकुले ब्रह्मन्नृषिवर्य समागमे
धर्मवार्ता बभूवाहो वर्णाश्रमसुसम्मता ॥ ३६ ॥

वात्स्यायन उवाच
का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम्
साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन् ॥ ३७ ॥

तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान्
पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान् ॥ ३८ ॥

ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान्
तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान् ॥ ३९ ॥

ऋषय ऊचुः
ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम्
वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत् ॥ ४० ॥

ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम्
आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन ॥ ४१ ॥

ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः
स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत् ॥ ४२ ॥

दिवाभिगमनं पुंसामनायुष्यकरं मतम्
श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता ॥ ४३ ॥

तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात्
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥ ४४ ॥

सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः ॥ ४५ ॥

पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः
त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च ॥ ४६ ॥

शुचिः सन्निर्विशेत्पत्नीं पुन्नामर्क्षे विशेषतः
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम् ॥ ४७ ॥

आर्षे विवाहे गोद्वन्द्वं यदुक्तं तत्प्रशस्यते
शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत् ॥ ४८ ॥

वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा
कुविवाहः क्रियालोपः कुलपातनहेतवः ॥ ४९ ॥
मूलम्
वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा
कुविवाहः क्रियालोपः कुलपातनहेतवः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी
गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम् ॥ ५० ॥

अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति
आजन्मसञ्चितात्पुण्यात्क्षणात्स हि बहिर्भवेत् ॥ ५१ ॥

पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही
स्वार्थं पचत्यघं भुङ्क्ते केवलं स्वोदरम्भरिः ॥ ५२ ॥

षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि
चतुर्दश्यां तथामायां त्यजेत क्षुरमङ्गनाम् ॥ ५३ ॥

रजस्वलां न सेवेत नाश्नीयात्सह भार्यया
एकवासा न भुञ्जीत न भुञ्जीतोत्कटासने ॥ ५४ ॥

नाश्नन्तीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ॥ ५५ ॥

नाङ्घ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्
प्राणिहिंसां न कुर्वीत नाश्नीयात्सन्ध्ययोर्द्वयोः ॥ ५६ ॥

नाचक्षीत धयन्तीं गां नेन्द्रचापं प्रदर्शयेत्
न दिवोद्गतसारं च भक्षयेद्दधिनो निशि ॥ ५७ ॥

स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ॥ ५८ ॥

न धारयेदन्यभुक्तं वासश्चोपानहावपि
न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम् ॥ ५९ ॥

संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत्
शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः ॥ ६० ॥

न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत्
अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत् ॥ ६१ ॥

एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत्
सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम् ॥ ६२ ॥

इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा
श्रुता रामेण महता सर्वलोकहितैषिणा ॥ ६३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः ९