शेष उवाच
विश्वास-प्रस्तुतिः
वात्स्यायन मुनिश्रेष्ठ
कथा पापप्रणाशिनी
ब्रह्मण्य-देवदेवस्य
सर्वधर्मैक-रक्षितुः ॥ १ ॥
मूलम्
वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी
ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः ॥ १ ॥
विश्वास-प्रस्तुतिः
राजानं मूर्च्छितं दृष्ट्वा
कुम्भजन्मा तपोनिधिः
शनैःशनैः करेणाशु
पस्पर्शाश्रु जगाद च ॥ २ ॥
मूलम्
राजानं मूर्च्छितं दृष्ट्वा कुम्भजन्मा तपोनिधिः
शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च ॥ २ ॥
विश्वास-प्रस्तुतिः
भो रामाश्वसिहि क्षिप्रं
किम्-अर्थम् अवसीदसि
भवान् दैत्यकुलच्छेत्ता
महाविष्णुः सनातनः ॥ ३ ॥
मूलम्
भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि
भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः ॥ ३ ॥
विश्वास-प्रस्तुतिः
भूतं भव्यं भवच्चैव
जगत्-स्थास्नु चरिष्णु च
त्वदृते नास्ति सञ्चारी
किमर्थम् इह मूर्च्छितः ॥ ४ ॥
मूलम्
भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च
त्वदृते नास्ति सञ्चारी किमर्थमिह मूर्च्छितः ॥ ४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा वाक्यं महाराजः
कुम्भजन्म-समीरितम्
उत्तस्थौ विगलन्-नेत्र
बाष्प-पूरित-सन्मुखः ॥ ५ ॥
मूलम्
श्रुत्वा वाक्यं महाराजः कुम्भजन्मसमीरितम्
उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः ॥ ५ ॥
विश्वास-प्रस्तुतिः
उवाच दीनदीनं च
विस्पष्टाक्षर-विस्तरम्
त्रपाभर नमन्-मूर्तिर्
ब्रह्म-द्रोह-पराङ्मुखः ॥ ६ ॥
मूलम्
उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम्
त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः ॥ ६ ॥
विश्वास-प्रस्तुतिः
श्रीराम उवाच
अहो मे पश्यता ज्ञानं
विमूढस्य दुरात्मनः
यद् ब्राह्मणकुले रूढं
हतवान् काम-लोलुपः ॥ ७ ॥
मूलम्
श्रीराम उवाच
अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः
यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः ॥ ७ ॥
विश्वास-प्रस्तुतिः
महिलार्थे त्व् अहं विप्रं
वेद-शास्त्र-विवेकवान्
हतवान् वाडव-कुलं
बुद्धि-हीनो ऽतिदुर्मतिः ॥ ८ ॥
मूलम्
महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान्
हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः ॥ ८ ॥
विश्वास-प्रस्तुतिः
इक्ष्वाकूणां कुले जातु
ब्राह्मणो न दुरुक्ति-भाक्
ईदृशं कुर्वता कर्म
मयैतत् सुकलङ्कितम् ॥ ९ ॥
मूलम्
इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक्
ईदृशं कुर्वता कर्म मयैतत्सुकलङ्कितम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ये ब्राह्मणास्तु पूजार्हा
दान-सम्मान-भोजनैः
ते मया निहता विप्राः
शर-सङ्घात-संहितैः ॥ १० ॥
मूलम्
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः
ते मया निहता विप्राः शरसङ्घातसंहितैः ॥ १० ॥
विश्वास-प्रस्तुतिः
काल्ँ लोकान् नु गमिष्यामि
कुम्भीपाकोऽपि दुःसहः
न तादृशं तीर्थम् अस्ति
यन्मां पावयितुं क्षमम् ॥ ११ ॥
मूलम्
काल्ँलोकान्नु गमिष्यामि कुम्भीपाकोऽपि दुःसहः
न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
न यज्ञो न तपो दानं
न वा चैव व्रतादिकम्
यत्तु वै ब्राह्मणद्रोग्धुर्
मम पावन-तारकम् ॥ १२ ॥
मूलम्
न यज्ञो न तपो दानं न वा चैव व्रतादिकम्
यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
यैः कोपितं ब्रह्म-कुलं
नरैर् निरय-गामिभिः
ते नरा बहुशो दुःखं
भोक्ष्यन्ति निरयं गताः ॥ १३ ॥
मूलम्
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः
ते नरा बहुशो दुःखं भोक्ष्यन्ति निरयं गताः ॥ १३ ॥
विश्वास-प्रस्तुतिः
वेदा मूलं तु धर्माणां
वर्णाश्रम-विवेकिनाम्
तन्-मूलं ब्राह्मण-कुलं
सर्ववेदैकशाखिनः ॥ १४ ॥
मूलम्
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम्
तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मूलच्-छेत्तुर् ममौद्धत्यात्
को लोकोनु भविष्यति
किम् अद्य करणीयं वै
येन मे हि शिवं भवेत् ॥ १५ ॥
मूलम्
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति
किमद्यकरणीयं वै येन मे हि शिवं भवेत् ॥ १५ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
विलपन्तं भृशं रामं
राजेन्द्रं रघुपुङ्गवम्
मायामनुष्यवपुषं
कुम्भजन्माब्रवीद्वचः ॥ १६ ॥
मूलम्
शेष उवाच
विलपन्तं भृशं रामं राजेन्द्रं रघुपुङ्गवम्
मायामनुष्यवपुषं कुम्भजन्माब्रवीद्वचः ॥ १६ ॥
विश्वास-प्रस्तुतिः
अगस्त्य उवाच
मा विषादं महाधीर
कुरु राजन् महामते
न ते ब्राह्मण-हत्या स्याद्
दुष्टानां नाशम् इच्छतः ॥ १७ ॥
मूलम्
अगस्त्य उवाच
मा विषादं महाधीर कुरु राजन्महामते
न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः ॥ १७ ॥
विश्वास-प्रस्तुतिः
त्वं पुराणः पुमान् साक्षाद्
ईश्वरः प्रकृतेः परः
कर्ता हर्ताऽविता साक्षी
निर्गुणः स्वेच्छया गुणी ॥ १८ ॥
मूलम्
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः
कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी ॥ १८ ॥
विश्वास-प्रस्तुतिः
सुरापो ब्रह्महत्याकृत्
स्वर्णस्तेयी महाघकृत्
सर्वे त्वन्-नाम-वादेन
पूताः शीघ्रं भवन्ति हि ॥ १९ ॥
मूलम्
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत्
सर्वे त्वन्नामवादेन पूताः शीघ्रं भवन्ति हि ॥ १९ ॥
विश्वास-प्रस्तुतिः
इयं देवी जनक-जा
महाविद्या महामते
यस्याः स्मरण-मात्रेण
मुक्ता यास्यन्ति सद्गतिम् ॥ २० ॥
मूलम्
इयं देवी जनकजा महाविद्या महामते
यस्याः स्मरणमात्रेण मुक्ता यास्यन्ति सद्गतिम् ॥ २० ॥
विश्वास-प्रस्तुतिः
रावणोऽपि न वै दैत्यो
वैकुण्ठे तव सेवकः
ऋषीणां शापतोऽवाप्तो
दैत्यत्वं दनुजान्तक ॥ २१ ॥
मूलम्
रावणोऽपि न वै दैत्यो वैकुण्ठे तव सेवकः
ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजान्तक ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्यानुग्रहकर्ता त्वं
न तु हन्ता द्विजन्मनः
एवं सञ्चिन्त्य मा भूयो
निजं शोचितुम् अर्हसि ॥ २२ ॥
मूलम्
तस्यानुग्रहकर्ता त्वं न तु हन्ता द्विजन्मनः
एवं सञ्चिन्त्य मा भूयो निजं शोचितुमर्हसि ॥ २२ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा ततो वाक्यं
रामः परपुरञ्जयः
उवाच मधुरं वाक्यं
गद्गद-स्वर-भाषितम् ॥ २३ ॥
मूलम्
इति श्रुत्वा ततो वाक्यं रामः परपुरञ्जयः
उवाच मधुरं वाक्यं गद्गदस्वरभाषितम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
श्रीराम उवाच
पातकं द्विविधं प्रोक्तं
ज्ञाताज्ञात-विभेदतः
ज्ञातं यद् बुद्धिपूर्वं हि
अज्ञातं तद्विवर्जितम् ॥ २४ ॥
मूलम्
श्रीराम उवाच
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
बुद्धिपूर्वं कृतं कर्म
भोगेनैव विनश्यति
नश्येद् अनुशयाद् अन्यद्
इदं शास्त्रविनिश्चितम् ॥ २५ ॥
मूलम्
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
कुर्वतो बुद्धिपूर्वं मे
ब्रह्महत्यां सुनिन्दिताम्
न मे दुःखापनोदाय
साधुवादः सुसम्मतः ॥ २६ ॥
मूलम्
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिन्दिताम्
न मे दुःखापनोदाय साधुवादः सुसम्मतः ॥ २६ ॥
विश्वास-प्रस्तुतिः
प्रब्रूहि तादृशं मह्यं
यादृशं पाप-दाहकम्
व्रतं दानं मखं किञ्चित्
तीर्थम् आराधनं महत् ॥ २७ ॥
मूलम्
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम्
व्रतं दानं मखं किञ्चित्तीर्थमाराधनं महत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
येन मे विमला कीर्तिर्
लोकान् वै पावयिष्यति
पापाचाराप्तकालुष्यान्
ब्रह्म-हत्याहत-प्रभान् ॥ २८ ॥
मूलम्
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति
पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान् ॥ २८ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इत्युक्तवन्तं तं रामं
जगाद स तपोनिधिः
सुरासुर-नमन्-मौलि
मणि-नीराजिताङ्घ्रिकम् ॥ २९ ॥
मूलम्
शेष उवाच
इत्युक्तवन्तं तं रामं जगाद स तपोनिधिः
सुरासुरनमन्मौलि मणिनीराजिताङ्घ्रिकम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
शृणु राम महावीर
लोकानुग्रहकारक
विप्रहत्यापनोदाय
तव यद् वचनं ब्रुवे ॥ ३० ॥
मूलम्
शृणु राम महावीर लोकानुग्रहकारक
विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे ॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वं स पापं तरति
योऽश्वमेधं यजेत वै
तस्मात् त्वं यज विश्वात्मन्
वाजिमेधेन शोभिना ॥ ३१ ॥
मूलम्
सर्वं स पापं तरति योऽश्वमेधं यजेत वै
तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सप्ततन्तुर्महीभर्त्रा त्वया साध्यो मनीषिणा
महासमृद्धियुक्तेन महाबलसुशालिना ॥ ३२ ॥
मूलम्
सप्ततन्तुर्महीभर्त्रा त्वया साध्यो मनीषिणा
महासमृद्धियुक्तेन महाबलसुशालिना ॥ ३२ ॥
विश्वास-प्रस्तुतिः
स वाजिमेधो विप्राणां
हत्यायाः पापनोदनः
कृतवान्यं महाराजो
दिलीपस् तव पूर्वजः ॥ ३३ ॥
मूलम्
स वाजिमेधो विप्राणां हत्यायाः पापनोदनः
कृतवान्यं महाराजो दिलीपस्तव पूर्वजः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
शतक्रतुः शतं कृत्वा
क्रतूनां पुरुषर्षभः
पदम् आपामरावत्यां
देवदैत्यसुसेवितम् ॥ ३४ ॥
मूलम्
शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः
पदमापामरावत्यां देवदैत्यसुसेवितम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
मनुश्च सगरो राजा
मरुत्तो नहुषात्मजः
एते ते पूर्वजाः सर्वे
यज्ञं कृत्वा पदं गताः ॥ ३५ ॥
मूलम्
मनुश्च सगरो राजा मरुत्तो नहुषात्मजः
एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तस्मात्त्वं कुरु राजेन्द्र
समर्थोऽसि समन्ततः
भ्रातरो लोकपालाभा
वर्तन्ते तव भावुकाः ॥ ३६ ॥
मूलम्
तस्मात्त्वं कुरु राजेन्द्र समर्थोऽसि समन्ततः
भ्रातरो लोकपालाभा वर्तन्ते तव भावुकाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
इत्युक्तम् आकर्ण्य मुनेः स भाग्यवान्
रघूत्तमो ब्राह्मण-घात-भीतः
पप्रच्छ यागे सुमतिं चिकीर्षन्
विधिं पुरावित् परिगीयमानः ॥ ३७ ॥
मूलम्
इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः
पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः ॥ ३७ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघनाथस्यागस्त्योपदेशोनामाष्टमोऽध्यायः ८