अगस्त्य उवाच
विश्वास-प्रस्तुतिः
अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम्
चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः ॥ १ ॥
मूलम्

कुम्भकर्णोऽपि कृतवांस्तपः परमदुश्चरम्
विभीषणस्तु धर्मात्मा चचार परमं तपः ॥ २ ॥

तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः
देवदानवयक्षादि मुकुटैः परिसेवितः ॥ ३ ॥
मूलम्
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः
देवदानवयक्षादि मुकुटैः परिसेवितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम्
वपुश्च कृतवान्रम्यं देवदानवसेवितम् ॥ ४ ॥

तदा सन्तापितो भ्राता धनदो धर्मबुद्धिमान्
विमानं तु ततो नीतं लङ्का च नगरी हठात् ॥ ५ ॥

भुवनं तापितं सर्वं देवाश्चैव दिवो गताः
हतवान्ब्राह्मणकुलं मुनीनां मूलकृन्तनः ॥ ६ ॥

तदातिदुःखिता देवाः सेन्द्रा ब्रह्माणमाययुः
स्तुतिं चक्रुर्महात्मानो दण्डवत्प्रणतिं गताः ॥ ७ ॥

ते तुष्टुवुः सुराः सर्वे वाग्भिरर्थ्याभिरादृताः
ततः प्रसन्नो भगवान्किङ्करोमीति चाब्रवीत् ॥ ८ ॥

ततो निवेदयाञ्चक्रुर्ब्रह्मणे विबुधाः पुरः
दशग्रीवाच्च सङ्कष्टं तथा निजपराभवम् ॥ ९ ॥

क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह
तस्य शैलस्य पार्श्वे तु वैचित्र्येण समाकुलाः ॥ १० ॥

स्थिताः सन्तुष्टुवुर्देवाः शम्भुं शक्रपुरोगमाः
नमो भवाय शर्वाय नीलग्रीवाय ते नमः ॥ ११ ॥

नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः
इति सर्वमुखेनोक्तां वाणीमाकर्ण्य शङ्करः ॥ १२ ॥

प्रोवाच नन्दिनं देवा नानयेति ममान्तिकम्
एतस्मिन्नन्तरे देवा आहूता नन्दिना च ते ॥ १३ ॥

प्रविश्यान्तःपुरे देवा ददृशुर्विस्मितेक्षणाः
ब्रह्मागत्य ददर्शाथ शङ्करं लोकशङ्करम् ॥ १४ ॥

गणकोटिसहस्रैस्तु सेवितं मोदशालिभिः
नग्नैर्विरूपैः कुटिलैर्धूसरैर्विकटैस्तथा ॥ १५ ॥

प्रणिपत्याग्रतः स्थित्वा सह देवैः पितामहः
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् ॥ १६ ॥

कृपां कुरु महादेव शरणागतवत्सल
दुष्टदैत्यवधार्थं त्वं समुद्योगं विधेहि भोः ॥ १७ ॥

सोऽपि तद्वचनं श्रुत्वा दैन्यशोकसमन्वितम्
त्रिदशैः सहितैः सर्वैराजगाम हरेः पदम् ॥ १८ ॥

तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः
जय माधव देवेश जय भक्तजनार्तिहन् ॥ १९ ॥
मूलम्
तुष्टुवुर्मुनयः सर्वे ससुरोरगकिन्नराः
जय माधव देवेश जय भक्तजनार्तिहन् ॥ १९ ॥
विश्वास-प्रस्तुतिः
विलोकय महादेव लोकयस्व स्वसेवकान्
इत्युच्चैर्जगदुः सर्वे देवाः शर्वपुरोगमाः ॥ २० ॥

इत्युक्तमाकर्ण्य सुराधिनाथो दृष्ट्वा सुरार्तिं परिचिन्त्य विष्णुः
जगाद देवाञ्जलदोच्चया गिरा दुःखं तु तेषां प्रशमं नयन्निव ॥ २१ ॥

भो ब्रह्मशर्वेन्द्र पुरोगमामराः शृण्वन्तु वाचं भवतां हितेरताम्
जाने दशग्रीवकृतं भयं वस्तन्नाशयाम्यद्य कृतावतारः ॥ २२ ॥

पुरी त्वयोध्या रविवंशजातैर्नृपैर्महादानमखादिसत्क्रियैः
प्रपालिता भूतलमण्डनीया विराजते राजतभूमिभागैः ॥ २३ ॥

तस्यां दशरथो राजा निरपत्यः श्रियान्वितः
पालयत्यधुना राज्यं दिक्चक्रजयवान्विभुः ॥ २४ ॥

स तु वन्द्यादृष्यशृङ्गात्प्रार्थितात्पुत्रकाम्यया
पुत्रेष्ट्यां विधिना यज्वा महाबलसमन्वितः ॥ २५ ॥

ततोऽहं प्रार्थितः पूर्वं तपसा तेन भोः सुराः
पत्नीषु तिसृषु प्रीत्या चतुर्धापि भवत्कृते ॥ २६ ॥

राम लक्ष्मण शत्रुघ्न भरताख्या समन्वितः
कर्तास्मि रावणोद्धारं समूल बलवाहनम् ॥ २७ ॥

भवन्तोऽपि स्वकैरंशैरवतीर्य चरन्त्विह
ऋक्षवानररूपेण सर्वत्र पृथिवीतले ॥ २८ ॥
मूलम्
भवन्तोऽपि स्वकैरंशैरवतीर्य चरन्त्विह
ऋक्षवानररूपेण सर्वत्र पृथिवीतले ॥ २८ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा विररामाशु नभसीरितवाङ्मुने
देवाः श्रुत्वा महद्वाक्यं सर्वे संहृष्टमानसाः ॥ २९ ॥

ते चक्रुर्गदितं यादृग्देवदेवेन धीमता
स्वैःस्वैरंशैर्मही पूर्णा ऋक्षवानररूपिभिः ॥ ३० ॥

योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः
सत्वमेव महाराज भगवान्कृतविग्रहः ॥ ३१ ॥
मूलम्
योऽसौ विष्णुर्महादेवो देवानां दुःखनाशकः
सत्वमेव महाराज भगवान्कृतविग्रहः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भरतोऽयं लक्ष्मणश्च शत्रुघ्नश्च महामते
तावकांशाद्दशग्रीवो जनितश्च सुरार्द्दनः ॥ ३२ ॥

पूर्ववैरानुबन्धेन जानकीं हृतवान्पुनः
स त्वया निहतो दैत्यो ब्रह्मराक्षसजातिमान् ॥ ३३ ॥

पुलस्त्यपुत्रो दैत्येन्द्र सर्वलोकैककण्टकः
पातितः पृथिवी सर्वा सुखमापमहेश्वर ॥ ३४ ॥

ब्राह्मणानां सुखं त्वद्य मुनीनां तापसं बलम्
शिवानि सर्वतीर्थानि सर्वे यज्ञाः सुसंहिताः ॥ ३५ ॥

त्वयि राज्ञि जगत्सर्वं सदेवासुरमानुषम्
सुखं प्रपेदे विश्वात्मञ्जगद्योने नरोत्तम ॥ ३६ ॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ
उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः ॥ ३७ ॥

इत्थं निशम्य दितिजेन्द्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च
संरुद्धबाष्पगलदश्रुमुखारविन्दो भूमौ पपात सदसि प्रथितप्रभावः ३८