शेष उवाच
विश्वास-प्रस्तुतिः
इत्थं स्वागतसन्तुष्टं ब्रह्मचर्यतपोनिधिम्
उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम् ॥ १ ॥
मूलम्

स्वागतं ते महाभाग कुम्भयोने तपोनिधे
त्वद्दर्शनेन सर्वे वै पाविताः सकुटुम्बकाः ॥ २ ॥

कच्चिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते
त्वत्तपोविघ्नकर्ता वै नास्ति भूमण्डले क्वचित् ॥ ३ ॥

लोपामुद्रा महाभाग या च ते धर्मचारिणी
यस्याः पतिव्रता धर्मात्सर्वं भवति शोभनम् ॥ ४ ॥

अपि शंस महाभाग धर्ममूर्ते कृपानिधे
अलोलुपस्य किं कार्यं करवाणि मुनीश्वर ॥ ५ ॥

त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु
तथापि मयि कृत्वैव कृपां शंश मुनीश्वरः ॥ ६ ॥

इत्युक्तो लोकगुरुणा राजराजेन धीमता
उवाच रामं लोकेशं विनीततरभाषया ॥ ७ ॥
मूलम्
शेष उवाच
इत्युक्तो लोकगुरुणा राजराजेन धीमता
उवाच रामं लोकेशं विनीततरभाषया ॥ ७ ॥
विश्वास-प्रस्तुतिः
अगस्त्य उवाच
स्वामिंस्तव सुदुर्दर्शं दर्शनं दैवतैरपि
मत्वा समागतं विद्धि राजराज कृपानिधे ॥ ८ ॥

हतस्त्वया रावणाख्यस्त्वसुरो लोककण्टकः
दिष्ट्याद्य देवाः सुखिनो दिष्ट्या राजा बिभीषणः ॥ ९ ॥

राम त्वद्दर्शनान्मेऽद्य गतं वै दुष्कृतं किल
सम्पूर्णो मे मनःकोश आनन्देन सुरोत्तम ॥ १० ॥

इत्युक्त्वा स बभूवाशु तूष्णीं कुम्भसमुद्भवः
रामसन्दर्शनाह्लादविह्वलीकृतमानसः ॥ ११ ॥

रामः पप्रच्छ तं भूयो मुनिं ज्ञानविशारदम्
लोकातीतं भवद्भावि सर्वं जानासि सर्वतः ॥ १२ ॥

मुने कथय मे सर्वं पृच्छतो हि सुविस्तरम्
कोऽसौ मया हतो यो हि रावणो विबुधार्दनः ॥ १३ ॥

कुम्भकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः
देवो दैत्यः पिशाचो वा राक्षसो वा महामुने ॥ १४ ॥

सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तरात्
अतः कथय मे सर्वं कृपां कृत्वा ममोपरि ॥ १५ ॥

इति श्रुत्वा ततो वाक्यं कुम्भजन्मा तपोनिधिः
यत्पृष्टं रघुराजेन प्रवक्तुं तत्प्रचक्रमे ॥ १६ ॥

राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत्
ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः ॥ १७ ॥

तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत्
एका मन्दाकिनी नाम्नी द्वितीया कैकसी स्मृता ॥ १८ ॥

पूर्वस्यां धनदो जज्ञे लोकपालविलासभृत्
योऽसौ शिवप्रसादेन लङ्कावासमचीकरत् ॥ १९ ॥

विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत्
रावणः कुम्भकर्णश्च तथा पुण्यो बिभीषणः ॥ २० ॥

राक्षस्युदरजन्मत्वात्सन्ध्यासमयसम्भवात्
द्वयोरधर्मनिपुणा मतिरासीन्महामते ॥ २१ ॥
मूलम्
राक्षस्युदरजन्मत्वात्सन्ध्यासमयसम्भवात्
द्वयोरधर्मनिपुणा मतिरासीन्महामते ॥ २१ ॥
विश्वास-प्रस्तुतिः
एकदा तु विमानेन पुष्पकेण सुशोभिना
काञ्चनीयोपकल्पेन किङ्किणीजालमालिना ॥ २२ ॥

आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः
स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः ॥ २३ ॥

आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः
हर्षविह्वलितात्मा च रोमाञ्चिततनूरुहः ॥ २४ ॥

उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः
यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ ॥ २५ ॥

इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मन्दिरं स्वकम्
पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः ॥ २६ ॥

तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम्
कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः ॥ २७ ॥

योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः
महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः ॥ २८ ॥

केनेदं तपसा लब्धं विमानं वायुवेगधृक्
उद्यानारामलीलादि विलासस्थानमुत्तमम् ॥ २९ ॥

इति वाक्यं समाकर्ण्य जननी रोषविक्लवा
उवाच पुत्रं विमनाः किञ्चिन्नेत्रविकारिणी ॥ ३० ॥

रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम्
एतस्य जन्मकर्मादि विचारचतुराधिकम् ॥ ३१ ॥

सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितम्
येन स्वमातुर्विमलं कुलमुज्ज्वलितं महत् ॥ ३२ ॥

त्वं तु मत्कुक्षिजः कीटः पापः स्वोदरपूरकः
यथा खरः स्वकं भारं जानाति न च तद्गुणम् ॥ ३३ ॥

तथा त्वं लक्ष्यसेऽज्ञानी शयनासनभोगवान्
सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव सम्भवः ॥ ३४ ॥

अनेन तपसा लब्धं शिवसन्तोषकारिणा
लङ्कावासो मनोवेगं विमानं राज्यसम्पदः ॥ ३५ ॥

सुधन्या जननी त्वस्य सुभाग्या सुमहोदया
यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम् ॥ ३६ ॥

इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽकर्ण्य दुरात्मसत्तमः
रोषं विधायात्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति ॥ ३७ ॥

रावण उवाच
जनन्याकर्णय वचो मम गर्वसमन्वितम्
रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम् ॥ ३८ ॥

कोऽसौ कीटः स धनदः क्व तपः स्वल्पकं पुनः
कालं का किन्तु तद्राज्यं स्वल्पसेवकसंयुतम् ॥ ३९ ॥

मातः शृणु ममोत्साहात्प्रतिज्ञां करुणान्विते
न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि ॥ ४० ॥

यद्यहं भुवनं सर्वं वशेन स्थापयामि वै
तपोभिर्दुष्कृतैः कृत्वा ब्रह्मसन्तोषकारकैः ॥ ४१ ॥

अन्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः
चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम ॥ ४२ ॥

कुम्भकर्णोऽपि कृतवान्विभीषणसमन्वितः
रावणेन सहभ्रात्रेत्युक्त्वागाद्गिरिकाननम् ॥ ४३ ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रावणोत्पत्तिर्नाम षष्ठोऽध्यायः ६