००५

शेष उवाच

विश्वास-प्रस्तुतिः

अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः
रावणाभिधदैत्येन्द्र वधहर्षितमानसाः ॥ १ ॥

मूलम्

अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः
रावणाभिधदैत्येन्द्र वधहर्षितमानसाः ॥ १ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक
जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक ॥ २ ॥

मूलम्

देवा ऊचुः
जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक
जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक ॥ २ ॥

विश्वास-प्रस्तुतिः

तवयद्दनुजेन्द्र नाशनं कवयो वर्णयितुं समुत्सुकाः
प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥ ३ ॥

मूलम्

तवयद्दनुजेन्द्र नाशनं कवयो वर्णयितुं समुत्सुकाः
प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥ ३ ॥

विश्वास-प्रस्तुतिः

जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर
जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत ॥ ४ ॥

मूलम्

जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर
जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत ॥ ४ ॥

विश्वास-प्रस्तुतिः

तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥ ५ ॥

मूलम्

तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः
किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥ ५ ॥

विश्वास-प्रस्तुतिः

हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥ ६ ॥

मूलम्

हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम्
हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥ ६ ॥

विश्वास-प्रस्तुतिः

यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत्
सुरगणा हि कथं सुखिनः पुनर्ननुभवन्ति घृणामय पावन ॥ ७ ॥

मूलम्

यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत्
सुरगणा हि कथं सुखिनः पुनर्ननुभवन्ति घृणामय पावन ॥ ७ ॥

विश्वास-प्रस्तुतिः

यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥ ८ ॥

मूलम्

यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः
अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥ ९ ॥

मूलम्

मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम्
अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥ १० ॥

मूलम्

अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः
जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥ १० ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥ ११ ॥

मूलम्

इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः
प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान् ॥ १२ ॥

मूलम्

इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः
प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान् ॥ १२ ॥

विश्वास-प्रस्तुतिः

श्रीराम उवाच
सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्ल्लभम्
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥ १३ ॥

मूलम्

श्रीराम उवाच
सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्ल्लभम्
यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सुरा ऊचुः
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्
यदयं निहतः शत्रुरस्माकं तु दशाननः ॥ १४ ॥

मूलम्

सुरा ऊचुः
स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम्
यदयं निहतः शत्रुरस्माकं तु दशाननः ॥ १४ ॥

विश्वास-प्रस्तुतिः

यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥ १५ ॥

मूलम्

यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः
तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः
श्रीराम उवाच
सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥ १६ ॥

मूलम्

तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः
श्रीराम उवाच
सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥ १६ ॥

विश्वास-प्रस्तुतिः

भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥ १७ ॥

मूलम्

भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम्
स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्य वैरि पराभूतिर्न भविष्यति दारुणा
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥ १८ ॥

मूलम्

तस्य वैरि पराभूतिर्न भविष्यति दारुणा
न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥ १८ ॥

विश्वास-प्रस्तुतिः

मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी
भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः ॥ १९ ॥

मूलम्

मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी
भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः ॥ १९ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥ २० ॥

मूलम्

इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः
सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥ २० ॥

विश्वास-प्रस्तुतिः

रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान्
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः ॥ २१ ॥

मूलम्

रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान्
प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः ॥ २१ ॥

विश्वास-प्रस्तुतिः

यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्
न रोगादि पराभूतिर्गृहेषु च महीयसी ॥ २२ ॥

मूलम्

यस्मिञ्छासति लोकानां नाकालमरणं नृणाम्
न रोगादि पराभूतिर्गृहेषु च महीयसी ॥ २२ ॥

विश्वास-प्रस्तुतिः

नेतिः कदापि द्दश्येत वैरिजं भयमेव च
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥ २३ ॥

मूलम्

नेतिः कदापि द्दश्येत वैरिजं भयमेव च
वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका ॥ २३ ॥

विश्वास-प्रस्तुतिः

पुत्रपौत्रपरीवार सनाथी कृतजीवनाः
कान्ता संयोगजसुखैर्निरस्तविरहक्लमाः ॥ २४ ॥

मूलम्

पुत्रपौत्रपरीवार सनाथी कृतजीवनाः
कान्ता संयोगजसुखैर्निरस्तविरहक्लमाः ॥ २४ ॥

विश्वास-प्रस्तुतिः

नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः
कदापि परनिन्दासु वाचस्तेषां भवन्ति न ॥ २५ ॥

मूलम्

नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः
कदापि परनिन्दासु वाचस्तेषां भवन्ति न ॥ २५ ॥

विश्वास-प्रस्तुतिः

कारवोऽपि कदा पापं नाचरन्ति मनस्यहो
रघुनाथकराघातदुःखशङ्काभिशंसिनः ॥ २६ ॥

मूलम्

कारवोऽपि कदा पापं नाचरन्ति मनस्यहो
रघुनाथकराघातदुःखशङ्काभिशंसिनः ॥ २६ ॥

विश्वास-प्रस्तुतिः

सीतापतिमुखालोक निश्चलीभूतलोचनाः
लोका बभूवुः सततं कारुण्यपरिपूरिताः ॥ २७ ॥

मूलम्

सीतापतिमुखालोक निश्चलीभूतलोचनाः
लोका बभूवुः सततं कारुण्यपरिपूरिताः ॥ २७ ॥

विश्वास-प्रस्तुतिः

राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम्
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः ॥ २८ ॥

मूलम्

राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम्
ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सम्पुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
सदा सम्पन्नसस्यं च सुवसुक्षेत्रसंयुतम् ॥ २९ ॥

मूलम्

सम्पुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
सदा सम्पन्नसस्यं च सुवसुक्षेत्रसंयुतम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम्
देवतायतनानां च राजिभिः परिराजितम् ॥ ३० ॥

मूलम्

सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम्
देवतायतनानां च राजिभिः परिराजितम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ॥ ३१ ॥

मूलम्

सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः
सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

सपद्मिनीककासारा यत्र राजन्ति भूमयः
सदम्भा निम्नगा यत्र न यत्र जनता क्वचित् ॥ ३२ ॥

मूलम्

सपद्मिनीककासारा यत्र राजन्ति भूमयः
सदम्भा निम्नगा यत्र न यत्र जनता क्वचित् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

कुलान्येव कुलीनानां वर्णानां नाधनानि च
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ॥ ३३ ॥

मूलम्

कुलान्येव कुलीनानां वर्णानां नाधनानि च
विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥ ३४ ॥

मूलम्

नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः
धनैरनन्धो यत्रास्ति जनो नैव च भोजने ॥ ३५ ॥

मूलम्

रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः
धनैरनन्धो यत्रास्ति जनो नैव च भोजने ॥ ३५ ॥

विश्वास-प्रस्तुतिः

अनयः स्यन्दनो यत्र न च वैराजपूरुषः
दण्डः परशुकुद्दालवालव्यजनराजिषु ॥ ३६ ॥

मूलम्

अनयः स्यन्दनो यत्र न च वैराजपूरुषः
दण्डः परशुकुद्दालवालव्यजनराजिषु ॥ ३६ ॥

विश्वास-प्रस्तुतिः

आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः
अन्यत्राक्षिकवृन्देभ्यः क्वचिन्न परिदेवनम् ॥ ३७ ॥

मूलम्

आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः
अन्यत्राक्षिकवृन्देभ्यः क्वचिन्न परिदेवनम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥ ३८ ॥

मूलम्

आक्षिका एव दृश्यन्ते यत्र पाशकपाणयः
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

कठोरहृदया यत्र सीमन्तिन्यो न मानवाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥ ३९ ॥

मूलम्

कठोरहृदया यत्र सीमन्तिन्यो न मानवाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥ ३९ ॥

विश्वास-प्रस्तुतिः

वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै
कम्पः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥ ४० ॥

मूलम्

वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै
कम्पः सात्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥ ४० ॥

विश्वास-प्रस्तुतिः

सञ्ज्वरः कामजो यत्र दारिद्र्यकलुषस्य च
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ॥ ४१ ॥

मूलम्

सञ्ज्वरः कामजो यत्र दारिद्र्यकलुषस्य च
दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कण्टकाः ॥ ४२ ॥

मूलम्

इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये
दानहानिर्गजेष्वेव तीक्ष्णा एव हि कण्टकाः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥ ४३ ॥

मूलम्

बाणेषु गुणविश्लेषो बन्धोक्तिः पुस्तके दृढा
स्नेहत्यागः खलेष्वेव न च वै स्वजने जने ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तं देशं पालयामास लालयँल्लालिताः प्रजाः
धर्मं संस्थापयन्देशे दुष्टे दण्डधरोपमः ॥ ४४ ॥

मूलम्

तं देशं पालयामास लालयँल्लालिताः प्रजाः
धर्मं संस्थापयन्देशे दुष्टे दण्डधरोपमः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एवं पालयतो देशं धर्मेण धरणीतलम्
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ॥ ४५ ॥

मूलम्

एवं पालयतो देशं धर्मेण धरणीतलम्
सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम्
स्वां च निन्दां रजकतस्तां तत्याज रघूद्वहः ॥ ४६ ॥

मूलम्

तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम्
स्वां च निन्दां रजकतस्तां तत्याज रघूद्वहः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ॥ ४७ ॥

मूलम्

पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा
सीतां विरहितामेकां निदेशेन सुरक्षिताम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः
आजगाम मुनिश्रेष्ठः कुम्भोत्पत्तिर्मुनिर्महान् ॥ ४८ ॥

मूलम्

कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः
आजगाम मुनिश्रेष्ठः कुम्भोत्पत्तिर्मुनिर्महान् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः
जनताभिर्महाराजो वार्धिशोषकमागतम् ॥ ४९ ॥

मूलम्

गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः
जनताभिर्महाराजो वार्धिशोषकमागतम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्वागतेन सुसम्भाव्य पप्रच्छ तमनामयम्
सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ॥ ५० ॥

मूलम्

स्वागतेन सुसम्भाव्य पप्रच्छ तमनामयम्
सुखोपविष्टं विश्रान्तं बभाषे रघुनन्दनः ॥ ५० ॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
अगस्त्यसमागमोनाम पञ्चमोऽध्यायः ५