वात्स्यायन उवाच
विश्वास-प्रस्तुतिः
भुजगाधीश्वरेशान धराभारधरक्षम
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम् ॥ १ ॥
मूलम्
भुजगाधीश्वरेशान धराभारधरक्षम
शृण्वेकं संशयं मह्यं कृपया कथयस्व तम् ॥ १ ॥
विश्वास-प्रस्तुतिः
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत्
तदा प्रभृति देहेन स्थिता शून्येन चेतसा ॥ २ ॥
मूलम्
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत्
तदा प्रभृति देहेन स्थिता शून्येन चेतसा ॥ २ ॥
विश्वास-प्रस्तुतिः
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता
सुमुखान्मन्त्रिणः श्रुत्वा रघुनाथं समागतम् ॥ ३ ॥
मूलम्
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता
सुमुखान्मन्त्रिणः श्रुत्वा रघुनाथं समागतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम्
रामचन्द्रस्य सन्देशहर्तारं किमुवाच सा ॥ ४ ॥
मूलम्
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम्
रामचन्द्रस्य सन्देशहर्तारं किमुवाच सा ॥ ४ ॥
विश्वास-प्रस्तुतिः
एतन्मे संशयं छिन्धि रघुनाथगुणोदयम्
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः ॥ ५ ॥
मूलम्
एतन्मे संशयं छिन्धि रघुनाथगुणोदयम्
यथावच्छृण्वते मह्यं कथयस्व प्रसादतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल ॥ ६ ॥
मूलम्
शेष उवाच
साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत
तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल ॥ ६ ॥
विश्वास-प्रस्तुतिः
सा वै तद्वदनाम्भोज च्युतं रामागमामृतम्
पीत्वा पीत्वा बभूवाहो स्थगिताङ्गेन विह्वला ॥ ७ ॥
मूलम्
सा वै तद्वदनाम्भोज च्युतं रामागमामृतम्
पीत्वा पीत्वा बभूवाहो स्थगिताङ्गेन विह्वला ॥ ७ ॥
विश्वास-प्रस्तुतिः
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः
ममवै मन्दभाग्यायाः कथं रामेक्षणं पुनः ॥ ८ ॥
मूलम्
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः
ममवै मन्दभाग्यायाः कथं रामेक्षणं पुनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः
केनचिन्मम पापेन विप्रयोगं गतः पुनः ॥ ९ ॥
मूलम्
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः
केनचिन्मम पापेन विप्रयोगं गतः पुनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
सुमन्त्रिन्कुशली रामः सीतालक्ष्मणसंयुतः
कथं मां स्मरते वीरो वनचारी सुदुःखिताम् ॥ १० ॥
मूलम्
सुमन्त्रिन्कुशली रामः सीतालक्ष्मणसंयुतः
कथं मां स्मरते वीरो वनचारी सुदुःखिताम् ॥ १० ॥
विश्वास-प्रस्तुतिः
इति सा विललापोच्चै रघुनाथस्मृतिं गता
न निवेद निजं किञ्चित्परकीयं विमोहिता
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम् ॥ ११ ॥
मूलम्
इति सा विललापोच्चै रघुनाथस्मृतिं गता
न निवेद निजं किञ्चित्परकीयं विमोहिता
सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
वीजयामास वासोग्रैः सञ्ज्ञामाप च सा पुनः
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः ॥ १२ ॥
मूलम्
वीजयामास वासोग्रैः सञ्ज्ञामाप च सा पुनः
उवाच जननीं सौम्यं वचोहर्षकरं मुहुः ॥ १२ ॥
विश्वास-प्रस्तुतिः
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् ॥ १३ ॥
मूलम्
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः
मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सीतया सहितं पश्य चाशीर्भिरभियुङ्क्ष्व च
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम् ॥ १४ ॥
मूलम्
सीतया सहितं पश्य चाशीर्भिरभियुङ्क्ष्व च
इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि
उत्थाय चाजिरे प्राप्ता रोमाञ्चिततनूरुहा ॥ १५ ॥
मूलम्
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि
उत्थाय चाजिरे प्राप्ता रोमाञ्चिततनूरुहा ॥ १५ ॥
विश्वास-प्रस्तुतिः
हर्षविह्वलिताङ्ग्यश्रु मुञ्चन्ती राममैक्षत
तावत्स रामो राजेन्द्रो नरयानमधिश्रितः ॥ १६ ॥
मूलम्
हर्षविह्वलिताङ्ग्यश्रु मुञ्चन्ती राममैक्षत
तावत्स रामो राजेन्द्रो नरयानमधिश्रितः ॥ १६ ॥
विश्वास-प्रस्तुतिः
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम् ॥ १७ ॥
मूलम्
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः
कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
नोवाच किञ्चिन्महतीं चिन्तां प्राप्तवती मुहुः
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् ॥ १८ ॥
मूलम्
नोवाच किञ्चिन्महतीं चिन्तां प्राप्तवती मुहुः
सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
उवाच सान्त्वयंस्तां च वाक्यैर्विनयमिश्रितैः
श्रीराम उवाच
मातर्मया वनं गत्वा सर्वमाचरितं तथा ॥ १९ ॥
मूलम्
उवाच सान्त्वयंस्तां च वाक्यैर्विनयमिश्रितैः
श्रीराम उवाच
मातर्मया वनं गत्वा सर्वमाचरितं तथा ॥ १९ ॥
विश्वास-प्रस्तुतिः
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः ॥ २० ॥
मूलम्
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो
मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः ॥ २० ॥
विश्वास-प्रस्तुतिः
आशीर्भिरभिनन्द्यैनं भरतं मां च वीक्षय
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ ॥ २१ ॥
मूलम्
आशीर्भिरभिनन्द्यैनं भरतं मां च वीक्षय
इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ ॥ २१ ॥
विश्वास-प्रस्तुतिः
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम्
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः ॥ २२ ॥
मूलम्
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम्
रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः ॥ २२ ॥
विश्वास-प्रस्तुतिः
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः ॥ २३ ॥
मूलम्
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः
सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
चिरञ्जीव चिरञ्जीव ह्याशीर्भिरिति चाभ्यधात्
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च ॥ २४ ॥
मूलम्
चिरञ्जीव चिरञ्जीव ह्याशीर्भिरिति चाभ्यधात्
मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च ॥ २४ ॥
विश्वास-प्रस्तुतिः
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा ॥ २५ ॥
मूलम्
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः
रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा ॥ २५ ॥
विश्वास-प्रस्तुतिः
यथायमकरोद्धीमान्ममदुःखापनोदनम् ॥ २६ ॥
मूलम्
यथायमकरोद्धीमान्ममदुःखापनोदनम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
रावणेन हृता सीता मया यत्प्राप्यते पुनः
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् ॥ २७ ॥
मूलम्
रावणेन हृता सीता मया यत्प्राप्यते पुनः
मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
दत्तामाशिषमागृह्य शिरसायं सुमित्रया
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः ॥ २८ ॥
मूलम्
दत्तामाशिषमागृह्य शिरसायं सुमित्रया
निजमातुश्च भवनं प्रययौ विबुधैर्वृतः ॥ २८ ॥
विश्वास-प्रस्तुतिः
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम्
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः ॥ २९ ॥
मूलम्
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम्
स्वयानादवरुह्याशु चरणावग्रहीद्धरिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
माता तद्दर्शनोत्कण्ठा विह्वलीकृतमानसा
परिष्वज्य परिष्वज्य रामं मुदमवाप सा ॥ ३० ॥
मूलम्
माता तद्दर्शनोत्कण्ठा विह्वलीकृतमानसा
परिष्वज्य परिष्वज्य रामं मुदमवाप सा ॥ ३० ॥
विश्वास-प्रस्तुतिः
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात् ॥ ३१ ॥
मूलम्
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा
हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
जननीं वीक्ष्य विनयी ताटङ्कद्वयवर्जिताम्
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम् ॥ ३२ ॥
मूलम्
जननीं वीक्ष्य विनयी ताटङ्कद्वयवर्जिताम्
कराकल्प पदाकल्परहितां बिभ्रतीं तनुम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
किञ्चित्स्वदर्शनाद्धृष्टां कृशाङ्गीं तां स शोकभाक्
दुःखस्य समयो नायमिति मत्वा जगाद ताम् ॥ ३३ ॥
मूलम्
किञ्चित्स्वदर्शनाद्धृष्टां कृशाङ्गीं तां स शोकभाक्
दुःखस्य समयो नायमिति मत्वा जगाद ताम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
श्रीराम उवाच
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ॥ ३४ ॥
मूलम्
श्रीराम उवाच
मातर्मया त्वच्चरणौ चिरकालं न सेवितौ
ततः क्षमस्वापराधं भाग्यहीनस्य वै मम ॥ ३४ ॥
विश्वास-प्रस्तुतिः
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः
ते मन्तव्याः परा मातः कीटका रेतसो भवाः ॥ ३५ ॥
मूलम्
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः
ते मन्तव्याः परा मातः कीटका रेतसो भवाः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
किं कुर्वे जनकाज्ञातो गतो वै दण्डकं वनम्
तत्रापि त्वत्कृपापाङ्गात्तीर्णोऽस्मि दुःखसागरम् ॥ ३६ ॥
मूलम्
किं कुर्वे जनकाज्ञातो गतो वै दण्डकं वनम्
तत्रापि त्वत्कृपापाङ्गात्तीर्णोऽस्मि दुःखसागरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
रावणेन हृता सीता लङ्कायां गमिता पुनः
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ॥ ३७ ॥
मूलम्
रावणेन हृता सीता लङ्कायां गमिता पुनः
त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता
सम्भावयाशु चकितां त्वत्पादार्पितमानसाम् ॥ ३८ ॥
मूलम्
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता
सम्भावयाशु चकितां त्वत्पादार्पितमानसाम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम्
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम् ॥ ३९ ॥
मूलम्
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम्
आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ॥ ४० ॥
मूलम्
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि
पुत्रौ प्रसूय च कुलं स्वकं पावय पावने ॥ ४० ॥
विश्वास-प्रस्तुतिः
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः
भवन्ति दुःखभागिन्यो न हि सत्यं जगत्त्रये ॥ ४१ ॥
मूलम्
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः
भवन्ति दुःखभागिन्यो न हि सत्यं जगत्त्रये ॥ ४१ ॥
विश्वास-प्रस्तुतिः
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना
रामपादाब्जयुगलमनुयान्त्या महावनम् ॥ ४२ ॥
मूलम्
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना
रामपादाब्जयुगलमनुयान्त्या महावनम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभञ्जनाः
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ॥ ४३ ॥
मूलम्
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभञ्जनाः
येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका ॥ ४३ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा रघुनाथस्य भार्यामञ्चितलोचनाम्
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा ॥ ४४ ॥
मूलम्
इत्युक्त्वा रघुनाथस्य भार्यामञ्चितलोचनाम्
तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत्
राज्यं निवेदयामास रामचन्द्राय धीमते ॥ ४५ ॥
मूलम्
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत्
राज्यं निवेदयामास रामचन्द्राय धीमते ॥ ४५ ॥
विश्वास-प्रस्तुतिः
मन्त्रिणस्ते प्रहृष्टाङ्गा दैवज्ञान्मन्त्रकोविदान्
आहूय सुमुहूर्तन्ते पप्रच्छुः परमादरात् ॥ ४६ ॥
मूलम्
मन्त्रिणस्ते प्रहृष्टाङ्गा दैवज्ञान्मन्त्रकोविदान्
आहूय सुमुहूर्तन्ते पप्रच्छुः परमादरात् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते
अभिषेकं महाराज्ये कारयामासुरुद्यताः ॥ ४७ ॥
मूलम्
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते
अभिषेकं महाराज्ये कारयामासुरुद्यताः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुन्दरे
लिखित्वोपरि राजेन्द्रो महाराजोधितस्थिवान् ॥ ४८ ॥
मूलम्
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुन्दरे
लिखित्वोपरि राजेन्द्रो महाराजोधितस्थिवान् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम् ॥ ४९ ॥
मूलम्
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः
दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः
मनसापि कदा पापं नाचरन्ति जना मुने ॥ ५० ॥
मूलम्
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः
मनसापि कदा पापं नाचरन्ति जना मुने ॥ ५० ॥
विश्वास-प्रस्तुतिः
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः ॥ ५१ ॥
मूलम्
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः
सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः ॥ ५२ ॥
मूलम्
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः
विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान्
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि ॥ ५३ ॥
मूलम्
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान्
वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि ॥ ५३ ॥
विश्वास-प्रस्तुतिः
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् ॥ ५४ ॥
मूलम्
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः
भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात् ॥ ५४ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुवरस्य राज्याभिषेकोनाम चतुर्थोऽध्यायः ४