शेष उवाच
विश्वास-प्रस्तुतिः
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम्
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः ॥ १ ॥
मूलम्
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम्
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः ॥ १ ॥
विश्वास-प्रस्तुतिः
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति
प्रेषयामास सचिवं नगरोत्सवसिद्धये ॥ २ ॥
मूलम्
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति
प्रेषयामास सचिवं नगरोत्सवसिद्धये ॥ २ ॥
विश्वास-प्रस्तुतिः
भरत उवाच
कुर्वन्तु लोकास्त्वरितं रघुनाथागमोत्सवम्
मन्दिरे मन्दिरे रम्यं कृतकौतुकचित्रकम् ॥ ३ ॥
मूलम्
भरत उवाच
कुर्वन्तु लोकास्त्वरितं रघुनाथागमोत्सवम्
मन्दिरे मन्दिरे रम्यं कृतकौतुकचित्रकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
विपांसुका राजमार्गाश्चन्दनद्रवसिञ्चिताः
प्रसूनभरसङ्कॢप्ता हृष्टपुष्टजनावृताः ॥ ४ ॥
मूलम्
विपांसुका राजमार्गाश्चन्दनद्रवसिञ्चिताः
प्रसूनभरसङ्कॢप्ता हृष्टपुष्टजनावृताः ॥ ४ ॥
विश्वास-प्रस्तुतिः
विचित्रवर्णध्वजभा चित्रिताखिलस्वाङ्गणाः
मेघागमे धनुरिव पश्यन्त्वेव वलीमुखाः ॥ ५ ॥
मूलम्
विचित्रवर्णध्वजभा चित्रिताखिलस्वाङ्गणाः
मेघागमे धनुरिव पश्यन्त्वेव वलीमुखाः ॥ ५ ॥
विश्वास-प्रस्तुतिः
प्रतिगेहं तु लोकानां कारयन्त्वगरूक्षणम्
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वन्तु लीलया ॥ ६ ॥
मूलम्
प्रतिगेहं तु लोकानां कारयन्त्वगरूक्षणम्
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वन्तु लीलया ॥ ६ ॥
विश्वास-प्रस्तुतिः
हस्तिनो मम शैलाभानाधोरणसुयन्त्रितान्
विचित्रयन्तु बहुशो गैरिकाद्युपधातुभिः ॥ ७ ॥
मूलम्
हस्तिनो मम शैलाभानाधोरणसुयन्त्रितान्
विचित्रयन्तु बहुशो गैरिकाद्युपधातुभिः ॥ ७ ॥
विश्वास-प्रस्तुतिः
वाजिनश्चित्रिता भूयः सुशोभन्तु मनोजवाः
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ॥ ८ ॥
मूलम्
वाजिनश्चित्रिता भूयः सुशोभन्तु मनोजवाः
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरि समारूढा मुक्ताभिर्विकिरन्तु च ॥ ९ ॥
मूलम्
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरि समारूढा मुक्ताभिर्विकिरन्तु च ॥ ९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः
सुवासिन्यो महाराजं रामं नीराजयन्तु ताः ॥ १० ॥
मूलम्
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः
सुवासिन्यो महाराजं रामं नीराजयन्तु ताः ॥ १० ॥
विश्वास-प्रस्तुतिः
कौसल्यापुत्रसंयोगसन्देश विधुरा सती
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ॥ ११ ॥
मूलम्
कौसल्यापुत्रसंयोगसन्देश विधुरा सती
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ॥ ११ ॥
विश्वास-प्रस्तुतिः
इत्येवमादिरचनाः पुरशोभाविधायिकाः
करोतु जनता हृष्टा रामस्यागमनं प्रति ॥ १२ ॥
मूलम्
इत्येवमादिरचनाः पुरशोभाविधायिकाः
करोतु जनता हृष्टा रामस्यागमनं प्रति ॥ १२ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
इति श्रुत्वा ततो वाक्यं सुमुखो मन्त्रवित्तमः
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् ॥ १३ ॥
मूलम्
शेष उवाच
इति श्रुत्वा ततो वाक्यं सुमुखो मन्त्रवित्तमः
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
गत्वाथ नगरीं तां वै मन्त्री तु सुमुखाभिधः
ख्यापयामास लोकानां रामागममहोत्सवम् ॥ १४ ॥
मूलम्
गत्वाथ नगरीं तां वै मन्त्री तु सुमुखाभिधः
ख्यापयामास लोकानां रामागममहोत्सवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः
पूर्वं तदीय विरहत्यक्तभोगसुखादयः ॥ १५ ॥
मूलम्
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः
पूर्वं तदीय विरहत्यक्तभोगसुखादयः ॥ १५ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणा वेदसम्पन्नाः पवित्रा दर्भपाणयः
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् ॥ १६ ॥
मूलम्
ब्राह्मणा वेदसम्पन्नाः पवित्रा दर्भपाणयः
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः
सङ्ग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् ॥ १७ ॥
मूलम्
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः
सङ्ग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् ॥ १८ ॥
मूलम्
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् ॥ १९ ॥
मूलम्
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् ॥ २० ॥
मूलम्
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् ॥ २० ॥
विश्वास-प्रस्तुतिः
इत्थं भूपतिसन्देशात्प्रमोदाप्लवसंयुताः
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् ॥ २१ ॥
मूलम्
इत्थं भूपतिसन्देशात्प्रमोदाप्लवसंयुताः
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् ॥ २२ ॥
मूलम्
शेष उवाच
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्लवङ्गाः प्लवनैर्युक्ता आकाशपथचारिणः
स्वस्वशोभापरीताङ्गाश्चानुजग्मुः पुरोत्तमम् ॥ २३ ॥
मूलम्
प्लवङ्गाः प्लवनैर्युक्ता आकाशपथचारिणः
स्वस्वशोभापरीताङ्गाश्चानुजग्मुः पुरोत्तमम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
पुष्पकादवरुह्याशु नरयानमथारुहत्
सीतया सहितो रामः परिवारसमावृतः ॥ २४ ॥
मूलम्
पुष्पकादवरुह्याशु नरयानमथारुहत्
सीतया सहितो रामः परिवारसमावृतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम्
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् ॥ २५ ॥
मूलम्
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम्
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम्
शोभमानः स्तूयमानः सूतमागधबन्दिभिः ॥ २६ ॥
मूलम्
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम्
शोभमानः स्तूयमानः सूतमागधबन्दिभिः ॥ २६ ॥
विश्वास-प्रस्तुतिः
जय राघवरामेति जय सूर्यकुलाङ्गद
जय दाशरथे देव जयताल्लोकनायकः ॥ २७ ॥
मूलम्
जय राघवरामेति जय सूर्यकुलाङ्गद
जय दाशरथे देव जयताल्लोकनायकः ॥ २७ ॥
विश्वास-प्रस्तुतिः
इति शृण्वञ्छुभां वाचं पौराणां हर्षिताङ्गिनाम्
रामदर्शनसञ्जात पुलकोद्भेद शोभिनाम् ॥ २८ ॥
मूलम्
इति शृण्वञ्छुभां वाचं पौराणां हर्षिताङ्गिनाम्
रामदर्शनसञ्जात पुलकोद्भेद शोभिनाम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम्
चन्दनोदकसंसिक्तं पुष्पपल्लवसंयुतम् ॥ २९ ॥
मूलम्
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम्
चन्दनोदकसंसिक्तं पुष्पपल्लवसंयुतम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
तदा पौराङ्गनाः काश्चिद्गवाक्षबिलमाश्रिताः
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ॥ ३० ॥
मूलम्
तदा पौराङ्गनाः काश्चिद्गवाक्षबिलमाश्रिताः
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ॥ ३० ॥
विश्वास-प्रस्तुतिः
पौराङ्गना ऊचुः
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविन्दम्
स्वलोचनेन्दीवरकैरथापिबन्स्वभाग्यसञ्जातमहोदया इमाः ॥ ३१ ॥
मूलम्
पौराङ्गना ऊचुः
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविन्दम्
स्वलोचनेन्दीवरकैरथापिबन्स्वभाग्यसञ्जातमहोदया इमाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम्
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयन्त्वहो ॥ ३२ ॥
मूलम्
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम्
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयन्त्वहो ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमाङ्गम्
बन्धूकधिक्कारलसच्छविप्रदं दन्तच्छदं बिभ्रतमुच्चनासम् ॥ ३३ ॥
मूलम्
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमाङ्गम्
बन्धूकधिक्कारलसच्छविप्रदं दन्तच्छदं बिभ्रतमुच्चनासम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषिताङ्गेन हृष्टः ॥ ३४ ॥
मूलम्
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषिताङ्गेन हृष्टः ॥ ३४ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ३