००२

शेष उवाच

विश्वास-प्रस्तुतिः

अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥ १ ॥

मूलम्

अथ तद्दर्शनोत्कण्ठा विह्वलीकृतचेतसा
पुनः पुनः स्मृतो भ्राता भरतो धार्मिकाग्रणीः ॥ १ ॥

विश्वास-प्रस्तुतिः

उवाच च हनूमन्तं बलवन्तं समीरजम्
प्रस्फुरद्दशनव्याज चन्द्रकान्तिहतान्धकः ॥ २ ॥

मूलम्

उवाच च हनूमन्तं बलवन्तं समीरजम्
प्रस्फुरद्दशनव्याज चन्द्रकान्तिहतान्धकः ॥ २ ॥

विश्वास-प्रस्तुतिः

शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम्
चिरन्तनवियोगेन गद्गदीकृतविह्वलाम् ॥ ३ ॥

मूलम्

शृणु वीर हनूमंस्त्वं मद्गिरं भ्रातृनोदिताम्
चिरन्तनवियोगेन गद्गदीकृतविह्वलाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

गच्छ तं भ्रातरं वीर समीरणतनूद्भव
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ॥ ४ ॥

मूलम्

गच्छ तं भ्रातरं वीर समीरणतनूद्भव
मद्वियोगकृशां यष्टिं वपुषो बिभ्रतं हठात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे
फलानां भक्षणमपि न कुर्याद्विरहातुरः ॥ ५ ॥

मूलम्

यो वल्कलं परीधत्ते जटां धत्ते शिरोरुहे
फलानां भक्षणमपि न कुर्याद्विरहातुरः ॥ ५ ॥

विश्वास-प्रस्तुतिः

परस्त्री यस्य मातेव लोष्टवत्काञ्चनं पुनः
प्रजाः पुत्रानिवोद्रक्षेद्बान्धवो मम धर्मवित् ॥ ६ ॥

मूलम्

परस्त्री यस्य मातेव लोष्टवत्काञ्चनं पुनः
प्रजाः पुत्रानिवोद्रक्षेद्बान्धवो मम धर्मवित् ॥ ६ ॥

विश्वास-प्रस्तुतिः

मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम्
मदागमनसन्देश पयोवृष्ट्याशु सिञ्चतम् ॥ ७ ॥

मूलम्

मद्वियोगजदुःखाग्निज्वालादग्धकलेवरम्
मदागमनसन्देश पयोवृष्ट्याशु सिञ्चतम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

सीतया सहितं रामं लक्ष्मणेन समन्वितम्
सुग्रीवादिकपीन्द्रैश्च रक्षोभिः सबिभीषणैः ॥ ८ ॥

मूलम्

सीतया सहितं रामं लक्ष्मणेन समन्वितम्
सुग्रीवादिकपीन्द्रैश्च रक्षोभिः सबिभीषणैः ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम्
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥ ९ ॥

मूलम्

प्राप्तं निवेदय सुखात्पुष्पकासनसंस्थितम्
येन मे सोऽनुजः शीघ्रं सुखमेति मदागमात् ॥ ९ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः
जगाम भरतावासं नन्दिग्रामं निदेशकृत् ॥ १० ॥

मूलम्

इति श्रुत्वा ततो वाक्यं रघुवीरस्य धीमतः
जगाम भरतावासं नन्दिग्रामं निदेशकृत् ॥ १० ॥

विश्वास-प्रस्तुतिः

गत्वा स नन्दिग्रामं तु मन्त्रिवृद्धैः सुसंयतम्
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ॥ ११ ॥

मूलम्

गत्वा स नन्दिग्रामं तु मन्त्रिवृद्धैः सुसंयतम्
भरतं भ्रातृविरहक्लिन्नं धीमान्ददर्श ह ॥ ११ ॥

विश्वास-प्रस्तुतिः

कथयन्तं मन्त्रिवृद्धान्रामचन्द्रकथानकम्
तदीय पदापाथोज मकरन्दसुनिर्भरः ॥ १२ ॥

मूलम्

कथयन्तं मन्त्रिवृद्धान्रामचन्द्रकथानकम्
तदीय पदापाथोज मकरन्दसुनिर्भरः ॥ १२ ॥

विश्वास-प्रस्तुतिः

नमश्चकार भरतं धर्मं मूर्तियुतं किल
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् ॥ १३ ॥

मूलम्

नमश्चकार भरतं धर्मं मूर्तियुतं किल
विधात्रा सकलांशेन सत्त्वेनैव विनिर्मितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृताञ्जलि
स्वागतं चेति होवाच रामस्य कुशलं वद ॥ १४ ॥

मूलम्

तं दृष्ट्वा भरतः शीघ्रं प्रत्युत्थाय कृताञ्जलि
स्वागतं चेति होवाच रामस्य कुशलं वद ॥ १४ ॥

विश्वास-प्रस्तुतिः

इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः ॥ १५ ॥

मूलम्

इत्येवं वदतस्तस्य भुजो दक्षिणतोऽस्फुरत्
हृदयाच्च गतः शोको हर्षास्रैः पूरिताननः ॥ १५ ॥

विश्वास-प्रस्तुतिः

विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ॥ १६ ॥

मूलम्

विलोक्य तादृशं भूपं प्रत्युवाच कपीश्वरः
निकटे हि पुरः प्राप्तं विद्धि रामं सलक्ष्मणम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

रामागमनसन्देशामृतसिक्तकलेवरः
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् ॥ १७ ॥

मूलम्

रामागमनसन्देशामृतसिक्तकलेवरः
प्रापयद्धर्षपूरं हि सहस्रास्यो न वेद्म्यहम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया
दासोऽस्मि जन्मपर्यन्तं रामसन्देशहारकः ॥ १८ ॥

मूलम्

जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया
दासोऽस्मि जन्मपर्यन्तं रामसन्देशहारकः ॥ १८ ॥

विश्वास-प्रस्तुतिः

वसिष्ठोऽपि गृहीत्वार्घ्यं मन्त्रिवृद्धाः सुहर्षिताः
जग्मुस्ते रामचन्द्रं च हनुमद्दर्शिताध्वना ॥ १९ ॥

मूलम्

वसिष्ठोऽपि गृहीत्वार्घ्यं मन्त्रिवृद्धाः सुहर्षिताः
जग्मुस्ते रामचन्द्रं च हनुमद्दर्शिताध्वना ॥ १९ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमम्
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥ २० ॥

मूलम्

दृष्ट्वा दूरात्समायान्तं रामचन्द्रं मनोरमम्
पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम् ॥ २० ॥

विश्वास-प्रस्तुतिः

रामोऽपि दृष्ट्वा भरतं पादचारेण सङ्गतम्
जटावल्कलकौपीन परिधानसमन्वितम् ॥ २१ ॥

मूलम्

रामोऽपि दृष्ट्वा भरतं पादचारेण सङ्गतम्
जटावल्कलकौपीन परिधानसमन्वितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान्
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह ॥ २२ ॥

मूलम्

अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान्
नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह ॥ २२ ॥

विश्वास-प्रस्तुतिः

रामोऽपि चिन्तयामास दृष्ट्वा वै तादृशं नृपम्
अहो दशरथस्यायं राजराजस्य धीमतः ॥ २३ ॥

मूलम्

रामोऽपि चिन्तयामास दृष्ट्वा वै तादृशं नृपम्
अहो दशरथस्यायं राजराजस्य धीमतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

पुत्रः पदातिरायाति जटावल्कलवेषभृत्
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि ॥ २४ ॥

मूलम्

पुत्रः पदातिरायाति जटावल्कलवेषभृत्
न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि ॥ २४ ॥

विश्वास-प्रस्तुतिः

यादृशं मद्वियोगेन चैतस्य परिवर्त्तते
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा ॥ २५ ॥

मूलम्

यादृशं मद्वियोगेन चैतस्य परिवर्त्तते
अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा ॥ २५ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा मां निकटे प्राप्तं मन्त्रिवृद्धैः सुहर्षितैः
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥ २६ ॥

मूलम्

श्रुत्वा मां निकटे प्राप्तं मन्त्रिवृद्धैः सुहर्षितैः
द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात्
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥ २७ ॥

मूलम्

इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात्
बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः ॥ २७ ॥

विश्वास-प्रस्तुतिः

यानादवतताराशु विरहात्क्लिन्नमानसः
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः ॥ २८ ॥

मूलम्

यानादवतताराशु विरहात्क्लिन्नमानसः
भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः ॥ २८ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं सुरैर्युतम्
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
हर्षाश्रूणि प्रमुञ्चंश्च दण्डवत्प्रणनाम ह ॥ २९ ॥

मूलम्

दृष्ट्वा समुत्तीर्णमिमं रामचन्द्रं सुरैर्युतम्
भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह
हर्षाश्रूणि प्रमुञ्चंश्च दण्डवत्प्रणनाम ह ॥ २९ ॥

विश्वास-प्रस्तुतिः

रघुनाथोऽपि तं दृष्ट्वा दण्डवत्पतितं भुवि
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ॥ ३० ॥

मूलम्

रघुनाथोऽपि तं दृष्ट्वा दण्डवत्पतितं भुवि
उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः ॥ ३० ॥

विश्वास-प्रस्तुतिः

उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः
रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृत् ॥ ३१ ॥

मूलम्

उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः
रामचन्द्रपदाम्भोजग्रहणासक्तबाहुभृत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

भरत उवाच
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु
रामचन्द्र महाबाहो कारुण्यात्करुणानिधे ॥ ३२ ॥

मूलम्

भरत उवाच
दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु
रामचन्द्र महाबाहो कारुण्यात्करुणानिधे ॥ ३२ ॥

विश्वास-प्रस्तुतिः

यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत
स एव चरणो राम वने बभ्राम मत्कृते ॥ ३३ ॥

मूलम्

यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत
स एव चरणो राम वने बभ्राम मत्कृते ॥ ३३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः
प्राञ्जलिः पुरतस्तस्थौ हर्षविह्वलिताननः ॥ ३४ ॥

मूलम्

इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः
प्राञ्जलिः पुरतस्तस्थौ हर्षविह्वलिताननः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः
प्रणम्य च महामन्त्रिमुख्यानापृच्छ्य सादरम् ॥ ३५ ॥

मूलम्

रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः
प्रणम्य च महामन्त्रिमुख्यानापृच्छ्य सादरम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

भरतेन समं भ्रात्रा पुष्पकासनमास्थितः
सीतां ददर्श भरतो भ्रातृपत्नीमनिन्दिताम् ॥ ३६ ॥

मूलम्

भरतेन समं भ्रात्रा पुष्पकासनमास्थितः
सीतां ददर्श भरतो भ्रातृपत्नीमनिन्दिताम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः
पतिव्रतां जनकजाममन्यतननाम च ॥ ३७ ॥

मूलम्

अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः
पतिव्रतां जनकजाममन्यतननाम च ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मातः क्षमस्व यदघं मया कृतमबुद्धिना
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥ ३८ ॥

मूलम्

मातः क्षमस्व यदघं मया कृतमबुद्धिना
त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

जानक्यापि महाभागा देवरं वीक्ष्य सादरम्
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ॥ ३९ ॥

मूलम्

जानक्यापि महाभागा देवरं वीक्ष्य सादरम्
आशीर्भिरभियुज्याथ समपृच्छदनामयम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

विमानवरमारूढास्ते सर्वे नभसोंऽगणे
क्षणादालोकयाञ्चक्रे निकटे स्वपितुः पुरीम् ॥ ४० ॥

मूलम्

विमानवरमारूढास्ते सर्वे नभसोंऽगणे
क्षणादालोकयाञ्चक्रे निकटे स्वपितुः पुरीम् ॥ ४० ॥

इति श्रीपद्मपुराणे पातालखण्डे रामाश्वमेधे शेषवात्स्यायनसंवादे
रामराजधानीदर्शनोनाम द्वितीयोऽध्यायः २