श्रीगणेशाय नमः
विश्वास-प्रस्तुतिः
श्रीकुलदेवतायै नमः
श्रीगुरुचरणारविन्दाभ्यां नमः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
मूलम्
श्रीकुलदेवतायै नमः
श्रीगुरुचरणारविन्दाभ्यां नमः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १ ॥
विश्वास-प्रस्तुतिः
ऋषय ऊचुः
श्रुतं सर्वं महाभाग स्वर्गखण्डं मनोहरम्
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः ॥ २ ॥
मूलम्
ऋषय ऊचुः
श्रुतं सर्वं महाभाग स्वर्गखण्डं मनोहरम्
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः ॥ २ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम्
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ॥ ३ ॥
मूलम्
सूत उवाच
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम्
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
श्रीवात्स्यायन उवाच
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ॥ ४ ॥
मूलम्
श्रीवात्स्यायन उवाच
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः
नानाराजचरित्राणि कथितानि त्वयानघ ॥ ५ ॥
मूलम्
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः
नानाराजचरित्राणि कथितानि त्वयानघ ॥ ५ ॥
विश्वास-प्रस्तुतिः
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम्
तत्रानेकमहापापहरा रामकृता कथा ॥ ६ ॥
मूलम्
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम्
तत्रानेकमहापापहरा रामकृता कथा ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्य वीरस्य रामस्य हयमेधकथा श्रुता
सङ्क्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ॥ ७ ॥
मूलम्
तस्य वीरस्य रामस्य हयमेधकथा श्रुता
सङ्क्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
या श्रुता संस्मृता चोक्ता महापातकहारिणी
चिन्तितार्थप्रदात्री च भक्तचित्तप्रतोषदा ॥ ८ ॥
मूलम्
या श्रुता संस्मृता चोक्ता महापातकहारिणी
चिन्तितार्थप्रदात्री च भक्तचित्तप्रतोषदा ॥ ८ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी
रघुवीरपदद्वन्द्व मकरन्द स्पृहावती ॥ ९ ॥
मूलम्
शेष उवाच
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी
रघुवीरपदद्वन्द्व मकरन्द स्पृहावती ॥ ९ ॥
विश्वास-प्रस्तुतिः
वदन्ति मुनयः सर्वे साधूनां सङ्गमं वरम्
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् ॥ १० ॥
मूलम्
वदन्ति मुनयः सर्वे साधूनां सङ्गमं वरम्
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् ॥ १० ॥
विश्वास-प्रस्तुतिः
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः
सुरासुरकिरीटौघ मणिनीराजिताङ्घ्रिकः ॥ ११ ॥
मूलम्
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः
सुरासुरकिरीटौघ मणिनीराजिताङ्घ्रिकः ॥ ११ ॥
विश्वास-प्रस्तुतिः
रावणारिकथा वार्द्धौ मशको मादृशः कियान्
यत्र ब्रह्मादयो देवा मोहिता न विदन्त्यपि ॥ १२ ॥
मूलम्
रावणारिकथा वार्द्धौ मशको मादृशः कियान्
यत्र ब्रह्मादयो देवा मोहिता न विदन्त्यपि ॥ १२ ॥
विश्वास-प्रस्तुतिः
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः
पक्षिणः स्वगतिं श्रित्वा खे गच्छन्ति सुविस्तरे ॥ १३ ॥
मूलम्
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः
पक्षिणः स्वगतिं श्रित्वा खे गच्छन्ति सुविस्तरे ॥ १३ ॥
विश्वास-प्रस्तुतिः
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
येषां वै यादृशी बुद्धिस्ते वदन्त्येव तादृशम् ॥ १४ ॥
मूलम्
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
येषां वै यादृशी बुद्धिस्ते वदन्त्येव तादृशम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम्
करिष्यति स्वसम्पर्कात्कनकं त्वनलो यथा ॥ १५ ॥
मूलम्
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम्
करिष्यति स्वसम्पर्कात्कनकं त्वनलो यथा ॥ १५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः
ज्ञानेनालोकयाञ्चक्रे कथां लोकोत्तरां शुभाम् ॥ १६ ॥
मूलम्
सूत उवाच
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः
ज्ञानेनालोकयाञ्चक्रे कथां लोकोत्तरां शुभाम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
गद्गदस्वरसंयुक्तो महाहर्षाङ्किताङ्गकः
कथयामास विशदां कथां दाशरथेः पुनः ॥ १७ ॥
मूलम्
गद्गदस्वरसंयुक्तो महाहर्षाङ्किताङ्गकः
कथयामास विशदां कथां दाशरथेः पुनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
शेष उवाच
लङ्केश्वरे विनिहते देवदानवदुःखदे
अप्सरोगणवक्त्राब्जचन्द्रमः कान्तिहर्तरि ॥ १८ ॥
मूलम्
शेष उवाच
लङ्केश्वरे विनिहते देवदानवदुःखदे
अप्सरोगणवक्त्राब्जचन्द्रमः कान्तिहर्तरि ॥ १८ ॥
विश्वास-प्रस्तुतिः
सुराः सर्वे सुखं प्रापुरिन्द्र प्रभृतयस्तदा
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः ॥ १९ ॥
मूलम्
सुराः सर्वे सुखं प्रापुरिन्द्र प्रभृतयस्तदा
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः ॥ १९ ॥
विश्वास-प्रस्तुतिः
लङ्कायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम्
सीतयासहितो रामः पुष्पकं समुपाश्रितः ॥ २० ॥
मूलम्
लङ्कायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम्
सीतयासहितो रामः पुष्पकं समुपाश्रितः ॥ २० ॥
विश्वास-प्रस्तुतिः
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः ॥ २१ ॥
मूलम्
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः ॥ २१ ॥
विश्वास-प्रस्तुतिः
लङ्कां स पश्यन्बहुधा भग्नप्राकारतोरणाम्
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह ॥ २२ ॥
मूलम्
लङ्कां स पश्यन्बहुधा भग्नप्राकारतोरणाम्
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह ॥ २२ ॥
विश्वास-प्रस्तुतिः
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान्
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् ॥ २३ ॥
मूलम्
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान्
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् ॥ २३ ॥
विश्वास-प्रस्तुतिः
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः ॥ २४ ॥
मूलम्
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः ॥ २४ ॥
विश्वास-प्रस्तुतिः
देवदुन्दुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान्
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः ॥ २५ ॥
मूलम्
देवदुन्दुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान्
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवन्ति च
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः ॥ २६ ॥
मूलम्
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवन्ति च
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः ॥ २६ ॥
विश्वास-प्रस्तुतिः
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः ॥ २७ ॥
मूलम्
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः ॥ २७ ॥
विश्वास-प्रस्तुतिः
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम्
तस्याः पुनः समीपे तु नन्दिग्रामं ददर्श ह ॥ २८ ॥
मूलम्
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम्
तस्याः पुनः समीपे तु नन्दिग्रामं ददर्श ह ॥ २८ ॥
विश्वास-प्रस्तुतिः
यत्र वै भरतो राजा पालयन्धर्ममास्थितः
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु ॥ २९ ॥
मूलम्
यत्र वै भरतो राजा पालयन्धर्ममास्थितः
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु ॥ २९ ॥
विश्वास-प्रस्तुतिः
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः
कृशाङ्गयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ॥ ३० ॥
मूलम्
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः
कृशाङ्गयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यवान्नमपि नो भुङ्क्ते जलं पिबति नो मुहुः
उद्यन्तं सवितारं यो नमस्कृत्य ब्रवीति च ॥ ३१ ॥
मूलम्
यवान्नमपि नो भुङ्क्ते जलं पिबति नो मुहुः
उद्यन्तं सवितारं यो नमस्कृत्य ब्रवीति च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत्
मदर्थे रामचन्द्रोऽपि जगत्पूज्यो वनं ययौ ॥ ३२ ॥
मूलम्
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत्
मदर्थे रामचन्द्रोऽपि जगत्पूज्यो वनं ययौ ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सीतया सुकुमाराङ्ग्या सेव्यमानोऽटवीं गतः
या सीता पुष्पपर्यङ्के वृन्तमासाद्य दुःखिता ॥ ३३ ॥
मूलम्
सीतया सुकुमाराङ्ग्या सेव्यमानोऽटवीं गतः
या सीता पुष्पपर्यङ्के वृन्तमासाद्य दुःखिता ॥ ३३ ॥
विश्वास-प्रस्तुतिः
या सीता रविसन्तापं कदापि प्राप नो सती
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ॥ ३४ ॥
मूलम्
या सीता रविसन्तापं कदापि प्राप नो सती
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ॥ ३४ ॥
विश्वास-प्रस्तुतिः
या सीता राजवृन्दैश्च न दृष्टा नयनैः कदा
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ॥ ३५ ॥
मूलम्
या सीता राजवृन्दैश्च न दृष्टा नयनैः कदा
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ॥ ३६ ॥
मूलम्
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ॥ ३६ ॥
विश्वास-प्रस्तुतिः
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ॥ ३७ ॥
मूलम्
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ॥ ३८ ॥
मूलम्
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम्
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ॥ ३९ ॥
मूलम्
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम्
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ॥ ३९ ॥
विश्वास-प्रस्तुतिः
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात्
करोमि रामचन्द्राङ्घ्रिं स्मारं स्मारं सुमन्त्रिणः ॥ ४० ॥
मूलम्
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात्
करोमि रामचन्द्राङ्घ्रिं स्मारं स्मारं सुमन्त्रिणः ॥ ४० ॥
विश्वास-प्रस्तुतिः
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ॥ ४१ ॥
मूलम्
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ॥ ४२ ॥
मूलम्
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ॥ ४२ ॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य
भरतावासनन्दिग्रामदर्शनोनाम प्रथमोऽध्यायः १