०२६

शौनक उवाच

विश्वास-प्रस्तुतिः

श्रोतुमिच्छामि ते प्राज्ञ कथयस्व समूलकम्
प्रतिज्ञापालने पुण्यं खण्डने किं च किल्बिषम् ॥ १ ॥

मूलम्

अनृते शपथे किं वा सत्ये किञ्चिद्भवेन्मुने
दक्षिणं किङ्करं दत्वा कृपां कृत्वा कृपार्णव ॥ २ ॥

सूत उवाच
शृणुष्व मुनिशार्दूल कथयामि समूलतः
वैष्णवानां त्वमग्र्योऽसि सर्वलोकहिते रतः ॥ ३ ॥

धेनूनां तु शतं दत्त्वा यत्फलं लभते नरः
तस्मात्कोटिगुणं पुण्यं प्रतिज्ञापालने द्विज ॥ ४ ॥

प्रतिज्ञाखण्डनान्मूढो निरयं याति दारुणम्
शतमन्वन्तरं यावत्पच्यते नात्र संशयः ॥ ५ ॥

ततोऽत्र जन्म चासाद्य निर्धनस्य निकेतने
अन्नवस्त्रैर्विहीनः स्या क्लेशी चापि स्वकर्मणा ॥ ६ ॥

सत्येन शपथं कुर्याद्देवाग्निगुरुसन्निधौ
तावद्दहति वै गात्रं विष्णोर्वंशो न लुप्यते ॥ ७ ॥

मिथ्यायां शपथे विप्र किमहं वच्मि साम्प्रतम्
शतमन्वन्तरं विप्र निरयं मिथ्यया किमु ॥ ८ ॥

निर्माल्यं श्रीहरेः स्पृष्ट्वा सत्येन मुनिपुङ्गव
गृहीत्वा पुरुषान्सप्त पच्यते निरये चिरम् ॥ ९ ॥

कदाचिज्जन्म सम्प्राप्य कुष्ठी च प्रतिजन्मनि
सत्येनैवं भवेद्विप्र अनृते वै किमुच्यते ॥ १० ॥

यो मर्त्यो दक्षिणं दत्वा करं तत्प्रतिपाल्यते
तस्य प्राप्तिर्भवेत्कृष्णः सत्यं सत्यं वदाम्यहम् ॥ ११ ॥

करं दत्त्वा तु यो मर्त्यो वचनस्य च पालनम्
तावन्न कुर्यात्पितरः प्राप्नुवन्ति च यातनाम् ॥ १२ ॥

स्वयं तु मुनिशार्दूल निरयं चातिदारुणम्
उद्धारं कोटिपुरुषैर्मृतो याति न संशयः ॥ १३ ॥

कृष्णप्राप्तिः पुरा कस्य करस्य प्रतिपालनात्
दक्षिणस्य मुने ब्रूहि श्रोतुमिच्छामि सादरात् ॥ १४ ॥

पुरा किञ्चित्पुरे शूद्रो नाम्नासीद्वीरविक्रमः
बह्वाशी पृथुलाङ्गश्च बहुवक्तातिसुन्दरः ॥ १५ ॥

धनवान्पुत्रवान्सभ्यो विद्वान्सर्वजनप्रियः
विप्राणामतिथीनां च पूजकः सर्वदैव तु ॥ १६ ॥

पितृभक्तो द्विजश्रेष्ठ प्रतिज्ञापालकः सदा
वाचां गुरुजनानां च पालको हरिसेवकः ॥ १७ ॥

एकदा सुन्दरो गेहं श्वपचस्तस्य छद्मना
प्राप्तो धृत्वा ब्राह्मणस्य रूपं वै तरुणः सुधीः ॥ १८ ॥

ब्राह्मण उवाच
शृणु मे वचनं धीर मम जाया मृता शुभा
किं करोमि क्व गच्छामि कथयाद्यानुकम्पया ॥ १९ ॥

विवाहं यो जनः कुर्याद्ब्राह्मणं च विशेषतः
किं च दानैः किं च तीर्थैः किं यज्ञैर्व्रतकोटिभिः ॥ २० ॥

इति श्रुत्वा त्वसौ विप्रं चोक्तवान्वीरविक्रमः
शृणु मे वचनं ब्रह्मन्बालास्ति मम कन्यका ॥ २१ ॥

यदिच्छा ते भवेद्विप्र दास्यामि विधिपूर्वकम्
नय मे दक्षिणं हस्तं दास्यामि चान्यथा नहि ॥ २२ ॥

तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम्
श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति ॥ २३ ॥

मूलम्

तस्यैतद्वचनं श्रुत्वा जग्राह दक्षिणं करम्
श्वपचो हर्षयुक्तो वै प्रोवाच वचनं त्विति ॥ २३ ॥

विश्वास-प्रस्तुतिः

ब्राह्मण उवाच
कृत्वा शुभ क्षणं मह्यं देहि कन्यां शुभान्विताम्
विलम्बे बहुविघ्नं स्यादिति शास्त्रेषु निश्चितम् ॥ २४ ॥

वीरविक्रम उवाच
तुभ्यं श्वः कन्यकां ब्रह्मन्दास्यामि नास्ति चान्यथा
दक्षिणं च करं दत्वा न कुर्यात्पुरुषाधमः ॥ २५ ॥

ब्राह्मणं कृष्णशर्माणं चाहूयाकथयन्मुने
पुरोहितमिदं सर्वं प्रोवाच संविदं द्विज ॥ २६ ॥

कथं विप्राय ते कन्यां शूद्राय दातुमिच्छसि
अज्ञातायाकुलीनाय न ददस्व विशेषतः ॥ २७ ॥

ऊचुस्तज्जातयः सर्वे जनकाद्यास्तपोधन
अस्माकं वचनं तात शृणुष्व वीरविक्रम ॥ २८ ॥

न ज्ञायते कुलं यस्य देशगोत्रधनं तथा
शीलं वयस्तस्य कन्या स्वजनैर्न च दीयते ॥ २९ ॥

स उवाच द्विजश्रेष्ठ दत्तं मे दक्षिणं करम्
कदाचिदन्यथाकर्तुं न शक्नोमि च सर्वथा ॥ ३० ॥

इत्युक्त्वा तान्स विप्राय कन्यां दातुं प्रचक्रमे
दृष्ट्वेति ज्ञातयः सर्वे विस्मयमद्भुतं ययुः ॥ ३१ ॥

सत्यं तद्वचनं श्रुत्वा शङ्खचक्रगदाधरः
आविर्बभूव सहसा चारुह्य गरुडं मुने ॥ ३२ ॥

श्रीभगवानुवाच
धन्यं ते च कुलं धर्मोधन्यस्ते जननी पिता
धन्यं ते वचनं सत्यं धन्यं ते दक्षिणं करम् ॥ ३३ ॥

धन्यं कर्म च ते जन्म त्रैलोक्ये नैव विद्यते
एवं ते कर्मणा साधो चोद्धारं कुरुषे कुलम् ॥ ३४ ॥

एवं ब्रुवति श्रीकृष्णे विमानं स्वर्णनिर्मितम्
आगतं हरिगणैर्युक्तं सर्वत्र गरुडध्वजम् ॥ ३५ ॥

सर्वं तस्य कुलं ब्रह्मन्स श्वपाकपुरोहितम्
रथे चारोपयामास शङ्खपद्मधरः स्वयं ॥ ३६ ॥

गृहीत्वा तान्हरिः सर्वान्गतो वैकुण्ठमन्दिरम्
तत्र तस्थौ चिरं ते च कृत्वा भोगं सुदुर्ल्लभम् ॥ ३७ ॥

वचनं लङ्घयेद्यस्तु यस्तु वा दक्षिणं करम्
सकुलो निरयं याति सत्यं सत्यं वदाम्यहम् ॥ ३८ ॥

तस्यान्नं तु जलं ब्रह्मन्न ग्राह्यं पितृदैवतैः
त्यक्त्वा धर्मो गृहं तस्य भीत्या याति द्विजोत्तम ॥ ३९ ॥

दत्वाशां यो जनः कुर्यान्नैराश्यं चैव मूढधीः
स स्वकान्कोटिपुरुषान्गृहीत्वा नरकं व्रजेत् ॥ ४० ॥

वचनं लङ्घयेद्यस्तु धर्मस्तस्य विलङ्घति
नृपाग्नितस्करैर्विप्र सत्यं सत्यं सुनिश्चितम् ॥ ४१ ॥

स्वर्गोत्तरमिमं सम्यक्श्रुत्वा स्वर्गोत्तरं व्रजेत्
जीवन्मुक्तस्त्विहामुत्र कृष्णाख्यं धाम चोत्तमम् ॥ ४२ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे
षडिंवशतितमोऽध्यायः ॥ २६ ॥