०२५

शौनक उवाच

विश्वास-प्रस्तुतिः

श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम्
सर्वपापक्षयकरं दुष्टग्रहनिवारणम् ॥ १ ॥

मूलम्

श्रीपदं विष्णुचरितं सर्वोपद्रवनाशनम्
सर्वपापक्षयकरं दुष्टग्रहनिवारणम् ॥ १ ॥

विश्वास-प्रस्तुतिः

विष्णुसान्निध्यदं चैव चतुर्वर्गफलप्रदम्
यः शृणोति नरो भक्त्या चान्ते याति हरेर्गृहम् ॥ २ ॥

नामोच्चारणमाहात्म्यं श्रूयते महदद्भुतम्
यदुच्चारणमात्रेण नरो यायात्परं पदम् ॥ ३ ॥

तद्वदस्वाधुना सूत विधानं नामकीर्तने
सूत उवाच
शृणु शौनक वक्ष्यामि संवादं मोक्षसाधनम् ॥ ४ ॥

नारदः पृष्टवान्पूर्वं कुमारं तद्वदामि ते
एकदा यमुनातीरे निविष्टं शान्तमानसम् ॥ ५ ॥

सनत्कुमारं पप्रच्छ नारदो रचिताञ्जलि
श्रुत्वा नानाविधान्धर्मान्धर्मव्यतिकरांस्तथा ॥ ६ ॥

श्रीनारद उवाच
योऽसौ भगवता प्रोक्तो धर्मव्यतिकरो नृणाम्
कथं तस्य विनाशः स्यादुच्यतां भगवत्प्रिय ॥ ७ ॥

श्रीसनत्कुमार उवाच
शृणु नारद गोविन्द प्रिय गोविन्दधर्मवित्
यत्पृष्टं लोकनिर्मुक्तिकारणं तमसः परम् ॥ ८ ॥

सर्वाचारविवर्जिताः शठधियो व्रात्या जगद्वञ्चकाः
दम्भाहङ्कृतिपानपैशुनपराः पापाश्च ये निष्ठुराः ॥ ९ ॥

ये चान्ये धनदारपुत्रनिरताः सर्वेऽधमास्तेऽपि हि
श्रीगोविन्दपदारविन्दशरणाः शुद्धा भवन्ति द्विज ॥ १० ॥

तमपि देवकरं करुणाकरस्थविरजङ्गममुक्तिकरं परम्
अतिचरन्त्यपराधपरा जना य इह तान्वपति ध्रुवनाम हि ॥ ११ ॥

सर्वापराधकृदपि मुच्यते हरिसंश्रयः
हरेरप्यपराधान्यः कुर्याद्द्विपदपांसनः ॥ १२ ॥

नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ १३ ॥

मूलम्

नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ १३ ॥

विश्वास-प्रस्तुतिः

श्रीनारद उवाच
के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृताः
विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥ १४ ॥

मूलम्

श्रीनारद उवाच
के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृताः
विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥ १४ ॥

विश्वास-प्रस्तुतिः

श्रीसनत्कुमार उवाच
सतां निन्दा नाम्नः परममपराधं वितनुते
यतः ख्यातिं यान्तं कथमु सहते तद्विगर्हाम्
शुभस्य श्रीविष्णोर्य इह गुणनामादिसकलं
धियाभिन्नं पश्येत्स खलु हरिनामाहितकरः ॥ १५ ॥

गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं तथार्थवादो हरिनाम्नि कल्पनम्
नामापराधस्य हि पापबुद्धिर्न विद्यते तस्य यमैर्हि शुद्धिः ॥ १६ ॥

धर्मव्रतत्याग हुतादि सर्वशुभक्रिया साम्यमपि प्रमादः
अश्रद्दधानो विमुखोऽप्यशृण्वन्यश्चोपदेशः शिवनामापराधः ॥ १७ ॥

श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितोऽधमः
अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् ॥ १८ ॥

एवं नारद शङ्करेण कृपया मह्यं मुनीनां परं
प्रोक्तं नामसुखावहं भगवतो वर्ज्यं सदा यत्नतः
ये ज्ञात्वापि न वर्जयन्ति सहसा नाम्नोऽपराधान्दश
क्रुद्धा मातरमप्यभोजनपराः खिद्यन्ति ते बालवत् ॥ १९ ॥

अपराधविमुक्तो हि नाम्नि जप्तं सदा चर
नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः ॥ २० ॥

मूलम्

अपराधविमुक्तो हि नाम्नि जप्तं सदा चर
नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यतः ॥ २० ॥

विश्वास-प्रस्तुतिः

श्रीनारद उवाच
सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम्
देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवन्ति नः कथम् ॥ २१ ॥

मूलम्

श्रीनारद उवाच
सनत्कुमार प्रिय साहसानां विवेकवैराग्यविवर्जितानाम्
देहप्रियार्थात्मपरायणानां मुक्तापराधाः प्रभवन्ति नः कथम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

श्रीसनत्कुमार उवाच
जाते नामापराधे तु प्रमादे तु कथञ्चन
सदा सङ्कीर्तयन्नाम तदेकशरणो भवेत् ॥ २२ ॥

नामापराधयुक्तानां नामान्येव हरन्त्यघम्
अविश्रान्ति प्रयुक्तानि तान्येवार्थ कराणि यत् ॥ २३ ॥

नामैकं यस्य चिह्नं स्मरणपथगतं श्रोत्रमूलं गतं वा
शुद्धं वाऽशुद्धवर्णं व्यवहितरहितं तारयत्येव सत्यम्
तच्चेद्देहद्रविणजनितालोभपाखण्ड मध्ये
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ॥ २४ ॥

इदं रहस्यं परमं पुरा नारद शङ्करात्
श्रुतं सर्वाशुभहरमपराधनिवारकम् ॥ २५ ॥

मूलम्

इदं रहस्यं परमं पुरा नारद शङ्करात्
श्रुतं सर्वाशुभहरमपराधनिवारकम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

विदुर्विष्ण्वभिधानं ये ह्यपराधपरा नराः
तेषामपि भवेन्मुक्तिः पठनादेव नारद ॥ २६ ॥

नाम्नो माहात्म्यमखिलं पुराणे परिगीयते
ततः पुराणमखिलं श्रोतुमर्हसि मानद ॥ २७ ॥

मूलम्

नाम्नो माहात्म्यमखिलं पुराणे परिगीयते
ततः पुराणमखिलं श्रोतुमर्हसि मानद ॥ २७ ॥

विश्वास-प्रस्तुतिः

पुराणश्रवणे श्रद्धा यस्य स्याद्भ्रातरन्वहम्
तस्य साक्षात्प्रसन्नः स्याच्छिवो विष्णुश्च सानुगः ॥ २८ ॥

यत्स्नात्वा पुष्करे तीर्थे प्रयागे सिन्धुसङ्गमे
तत्फलं द्विगुणं तस्य श्रद्धया वै शृणोति यः ॥ २९ ॥

ये पठन्ति पुराणानि शृण्वन्ति च समाहिताः
प्रत्यक्षरं लभन्त्येते कपिलादानजं फलम् ॥ ३० ॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम्
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ ३१ ॥

ये शृण्वन्ति पुराणानि कोटिजन्मार्जितं खलु
पापजालं तु ते हत्वा गच्छन्ति हरिमन्दिरम् ॥ ३२ ॥

पुराणवाचकं विप्रं पूजयेद्भक्तिभावतः
गोभूहिरण्यवस्त्रैश्च गन्धपुष्पादिभिर्मुने ॥ ३३ ॥

कांस्यैर्विनिर्मितं पात्रं जलपात्रं मुदान्वितः
कर्णकुण्डलकं चैव मुद्रिकां स्वर्णनिर्मिताम् ॥ ३४ ॥

आसनं तु तथा दद्यात्पुष्पमाल्यं तपोधन
वित्तशाठ्यं न कुर्वीत दानं हीनफलं यतः ॥ ३५ ॥

पुराणं वाचयेद्विप्र सर्वकामार्थसिद्धये
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं तु चन्दनम् ॥ ३६ ॥

दद्याद्यो पुस्तकं भक्त्या सगच्छेद्धरिमन्दिरम्
कुर्वन्ति विधिनानेन सम्पूर्णं पुस्तकं च ये
तेषां नामानि लिम्पेत चित्रगुप्तोऽर्चनाद्द्विज ॥ ३७ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे
पञ्चविंशतितमोऽध्यायः २५