०२४

शौनक उवाच

विश्वास-प्रस्तुतिः

विदुषांवर तत्त्वज्ञ कथयस्व महामते
इदानीं मम दानानां माहात्म्यं क्रमतो मुने ॥ १ ॥

मूलम्

सूत उवाच
क्षितिदानं मुनिश्रेष्ठ दानानामुत्तमं मतम्
येन कृतं वै तद्दानं सर्वदानफलं मतम् ॥ २ ॥

क्षितिं ससस्यां यो दद्याद्ब्राह्मणाय द्विजोत्तम
विष्णुलोके सुखं भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३ ॥

पृथिव्यां जन्म चासाद्य सार्वभौमस्ततो नृपः
महीं सर्वां चिरं भुक्त्वा व्रजेद्वै श्रीहरेर्गृहम् ॥ ४ ॥

गोचर्ममात्रां भूमिं यः प्रयच्छति द्विजातये
स गच्छति हरेर्गेहं सर्वपापविवर्जितः ॥ ५ ॥

शतं गावो वृषश्चैको यत्र तिष्ठन्त्ययन्त्रिताः
गोचर्ममात्रां तां भूमिं प्रवदन्ति महर्षयः ॥ ६ ॥

भूमिनेता भूमिदाता द्वौ चापि स्वर्गगामिनौ
ग्राह्या भूमिर्द्विजैः प्राज्ञैस्त्यक्त्वा दानशतान्यपि ॥ ७ ॥

अज्ञानी भूसुरो यस्तु त्यजेद्भूमिं विमोहितः
प्रतिजन्मन्यसौ विप्रो भवेच्चात्यन्त दुःखभाक् ॥ ८ ॥

अन्यतो यः समासाद्य दद्याद्भूमिं द्विजातये
तस्मै विप्र जगन्नाथो ददाति परमं पदम् ॥ ९ ॥

स्वदत्तां परदत्तां च मेदिनीं यो हरेद्द्विज
युक्तः कोटिकुलैर्याति नरकं चातिदारुणम् ॥ १० ॥

हरेद्यो वै महीं विप्र देवब्राह्मणयोरपि
न दृष्टा निष्कृतिस्तस्य कोटिकल्पशतैर्मुने ॥ ११ ॥

भूमिं यो परदत्तां च रक्षति क्ष्मापतिर्द्विज
पुण्यं कोटिगुणं स्याद्वै तस्य दानं जनादपि ॥ १२ ॥

सप्तद्वीपां महीं दत्त्वा यत्पुण्यं प्राप्यते द्विज
तत्पुण्यं प्राप्नुयान्मर्त्यो धेनुं यच्छन्द्विजातये ॥ १३ ॥

ददाति वृषभं यस्तु दरिद्राय कुटुम्बिने
सर्वपापविनिर्मुक्तो शिवलोकं स गच्छति ॥ १४ ॥

तिलप्रमाणं स्वर्णं यो ब्राह्मणाय प्रयच्छति
हरेर्निकेतनं याति युक्तः कोटिकुलैरपि ॥ १५ ॥

यो दद्याद्रजतं विप्र साधवे भूसुराय वै
प्राप्नोति चन्द्रलोकं च पिबेत्तत्रामृतं सदा ॥ १६ ॥

प्रवालं मौक्तिकं चैव हीरकं च मणिं तथा
यो ददाति द्विजश्रेष्ठ स्वर्गलोकं स गच्छति ॥ १७ ॥

तुलापुरुषदानेन यत्पुण्यं लभते जनः
शालग्रामशिलां दत्त्वा तस्मात्कोटिगुणं लभेत् ॥ १८ ॥

सप्तद्वीपां क्षितिं दत्वा सशैलवनकाननाम्
यत्पुण्यं लभते तद्वै शालग्रामशिलाप्रदः ॥ १९ ॥

शालग्रामशिलां यो वै दद्याद्भूमिसुराय च
तेन विप्र प्रदत्तानि भुवनानि चतुर्दश ॥ २० ॥

तुलापुरुषदानं यः करोति द्विजपुङ्गव
जनन्याश्चोदरे तस्य पुनर्जन्म न विद्यते ॥ २१ ॥

सालङ्कारां द्विजश्रेष्ठ कन्यां यच्छति यो नरः
स गच्छेद्ब्रह्मसदनं पुनर्जन्म न विद्यते ॥ २२ ॥

कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ॥ २३ ॥

उपानहौ वातपत्रं यो ददाति द्विजातये
प्रेत्य चेन्द्रपुरं गत्वा वसेत्कल्पचतुष्टयम् ॥ २४ ॥

वस्त्रं यच्छति यो दिव्यं साधवे वै द्विजायते
स्वर्गे दिव्याम्बरधरश्चिरं तिष्ठेद्द्विजोत्तम ॥ २५ ॥

धेनुं पुरातनीं यच्छेद्वस्त्रं च जरितं द्विज
नूत्नां रजोवतीं कन्यां स गच्छेन्निरयं तथा ॥ २६ ॥

कन्याविक्रयिणो ब्रह्मन्न पश्येल्लपनं बुधः
दृष्ट्वा चाज्ञानतो वापि कुर्य्यान्मार्तण्ड दर्शनम् ॥ २७ ॥

फलदाता नरो गच्छेत्त्रिदिवं च द्विजोत्तम
भुङ्क्ते कल्पसहस्राणि फलं तत्रामृतोपमम् ॥ २८ ॥

शाकं यच्छति यो मर्त्यो शिवस्यभवनं द्विज
याति कल्पद्वयं भुङ्क्ते दुर्ल्लभं पायसं सुरैः ॥ २९ ॥

घृतदो दधिदश्चैव तक्रदो दुग्धदस्तथा
विष्णोर्निकेतनं गत्वा सुधापानं करोति सः ॥ ३० ॥

गन्धदः पुष्पदश्चैव मर्त्यो याति सुरालयम्
तिष्ठेद्युगसहस्राणि गन्धपुष्पविभूषितः ॥ ३१ ॥

शय्यादानं दानसारं ब्राह्मणाय ददाति यः
स याति ब्रह्मसदनं पर्य्यङ्के शेरते चिरम् ॥ ३२ ॥

पीठदाता दीपदाता सर्वदुष्कृतवर्जितः
स्वर्गे सिंहासने तिष्ठेज्ज्वलद्दीपावलीवृतः ॥ ३३ ॥

ताम्बूलं यो नरो दद्याद्भूमिं भुङ्क्तेऽखिलां सुखम्
स्वर्गे देवाङ्गनाक्रोडे सुप्तस्ताम्बूलमत्ति वै ॥ ३४ ॥

विद्यादानं दानवरं करोति यो नरोत्तमः
प्रेत्य स सन्निधिं विष्णोस्तिष्ठेद्युगशतत्रयम् ॥ ३५ ॥

प्राप्य ज्ञानं ततस्तत्र दुर्ल्लभं वै द्विजर्षभ
दुर्ल्लभं मोक्षमाप्नोति श्रीहरेः कृपया द्विज ॥ ३६ ॥

अनाथं दुःखितं विप्रं पाठयेद्वै नरोत्तमः
श्रीहरेर्भवनं याति पुनर्जन्मविवर्जितः ॥ ३७ ॥

यो नरः पुस्तकं दद्याद्भक्तिश्रद्धासमन्वितः
प्रतिवर्णं लभेत्पुण्यं कपिलाकोटिदानजम् ॥ ३८ ॥

मधुदो गुडदश्चैव मर्त्यो यातीक्षुसागरम्
लवणप्रदो नरो याति वारुणं लोकमेव च ॥ ३९ ॥

सर्वेषामेव दानानामन्नं वारि द्विजोत्तम
तत्त्वज्ञैर्मुनिभिः सर्वैः प्रवरं वै प्रकीर्त्तितम् ॥ ४० ॥

अन्नं वारि द्विजश्रेष्ठ येन दत्तं महीतले
तेन दत्तानि दानानि सर्वाणि च द्विजर्षभ ॥ ४१ ॥

अन्नदो यो नरो विप्र प्राणदश्च प्रकीर्त्तितः
तस्मात्समस्तदानानामन्नदो लभते फलम् ॥ ४२ ॥

यथाचान्नं तथा वारि द्वे तुल्ये च प्रकीर्त्तिते
वारिणा च विना चान्नं सिद्धं न स्याद्द्विजोत्तम ॥ ४३ ॥

क्षुधा तृषा द्विज व्याघ्र द्वे च तुल्ये प्रकीर्त्तिते
अतश्चान्नं च तोयं च श्रेष्ठं प्रोक्तं बुधैरपि ॥ ४४ ॥

अन्नदानं क्षितौ ब्रह्मन्ये कुर्वन्ति नरोत्तमाः
सर्वपापविनिर्मुक्ता गच्छन्ति हरिमन्दिरम् ॥ ४५ ॥

यावन्त्यन्नानि भो विप्र यच्छति क्षितिमण्डले
ब्रह्महत्याश्च तावन्त्यो नश्यन्त्येव तपोधन ॥ ४६ ॥

यच्छतां चान्नदानानि शरीराणि च पातकम्
गात्राणि गृह्णतां त्यक्त्वा सहसा यान्ति शौनक ॥ ४७ ॥

अतः पापिष्ठ चान्नानि न गृह्णन्ति मनीषिणः
गृह्णन्ति मोहाद्ये मूढा भवन्ति पापभागिनः ॥ ४८ ॥

कुर्याद्भूमिष्ठमुदकं चैकं भो द्विजसत्तम
सर्वपापैर्विनिर्मुक्तो व्रजेत्स हरिमन्दिरम् ॥ ४९ ॥

प्रयत्नेन द्विजश्रेष्ठ कर्त्तव्यो धनसञ्चयः
सञ्चितं च धनं ब्रह्मन्दानकर्मणि विक्षिपेत् ॥ ५० ॥

रणन्ति ये च कार्पण्याद्धनं ते चातिदुःखिनः
अन्ते सर्वधनं त्यक्वा निःस्वा गच्छन्ति भो मुने ॥ ५१ ॥

मानवा ये सदा दानं दत्त्वा दत्त्वा दरिद्रति
दरिद्रास्तेन विज्ञेया नरलोके महेश्वराः ॥ ५२ ॥

परलोके द्विजव्याघ्र साधुसंयमवर्जिते
निर्दये बन्धुहीने च न दत्तं नोपतिष्ठते ॥ ५३ ॥

स्थिते धने नरो यो वै नाश्नाति न ददाति सः
दरिद्र इव विज्ञेयः प्रेत्य निश्वासमुत्सृजेत् ॥ ५४ ॥

तपसोऽपि वरं दानं प्रोक्तं च तत्त्वदर्शिभिः
अतो यत्नाद्द्विजश्रेष्ठ दानकर्म समाचरेत् ॥ ५५ ॥

दाता दानं न दद्याद्वै समुत्सृज्य द्विजातये
स याति निरयं घोरं सर्वजन्तुभयावहम् ॥ ५६ ॥

दानं दाता प्रतिग्राही न स्मरेच्च न याचते
निरये चोभयोर्वासो यावच्चन्द्र दिवाकरौ ॥ ५७ ॥

ब्रह्महत्यादि पापानि यानि वै द्विजसत्तम
तानि दानेन हन्यन्ते तस्माद्दानं समाचरेत् ॥ ५८ ॥

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे
चतुर्विंशतितमोऽध्यायः २४