०२३

शौनक उवाच

विश्वास-प्रस्तुतिः

कथयस्व मुने सूत माहात्म्यं कलुषक्षयम्
शेषपञ्चदिनस्यापि कार्त्तिकस्यानुकम्पया ॥ १ ॥

मूलम्

सूत उवाच
शृणु शौनक यत्पृष्टं माहात्म्यं पापनाशनम्
वक्ष्याम्यहं वै चोर्जस्य शेषपञ्चदिनस्य च ॥ २ ॥

व्रतानां मुनिशार्दूल प्रवरं विष्णुपञ्चकम्
तस्मिन्यः पूजयेद्भक्त्या श्रीहरिं राधया सह ॥ ३ ॥

गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
स याति विष्णुसदनं सर्वपापविवर्जितः ॥ ४ ॥

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः
न प्राप्नोति परं स्थानमकृत्वा विष्णुपञ्चकम् ॥ ५ ॥

सर्वपापहरं पुण्यं विख्यातं विष्णुपञ्चकम्
तत्र स्नानं तु यः कुर्यात्सर्वतीर्थफलं लभेत् ॥ ६ ॥

श्रीहरेः पुरतो विप्र तुलस्याश्च समीपतः
प्रदीपं सर्पिषा पूर्णं दद्याद्यो भक्तिभावतः ॥ ७ ॥

नभसि श्रीहरेः प्रीत्यै याति स विष्णुमन्दिरम्
पापी याति हरेर्धाम सत्यमेतन्मयोदितम् ॥ ८ ॥

स्नापयेच्चाच्युतं भक्त्या मधुक्षीरघृतादिभिः
दद्यात्किं नो हरिः प्रीतस्तस्मै साधुजनाय वै ॥ ९ ॥

नैवेद्यं देवदेवेशं परमान्नं निवेदयेत्
तस्य पुण्यं प्रसङ्ख्यातुं न शक्तो वै चतुर्मुखः ॥ १० ॥

अर्चयित्वा हृषीकेशमेकादश्यां समाहितः
निष्प्राप्य गोमयं सम्यक्मन्त्रवत्समुपासते ॥ ११ ॥

गोमूत्रं मन्त्रवद्भूयो द्वादश्यां प्राशयेद्व्रती
क्षीरं तथा त्रयोदश्यां चतुर्दश्यां तथा दधि ॥ १२ ॥

सम्प्राप्य पापशुद्ध्यर्थं लङ्घयित्वा चतुर्दिनम्
पञ्चमे तु दिने स्नात्वा विधिवत्पूज्य केशवम् ॥ १३ ॥

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
ततो नक्तं समश्नीयात्पञ्चगव्यं सुमन्त्रितम् ॥ १४ ॥

एवं कर्तुमशक्तो यः फलमूलं च भोजनम्
कुर्याद्धविष्यं वा विप्र यथोक्तविधिना ह वै ॥ १५ ॥

श्रीहरेः पञ्चकं विप्र कुर्याद्यस्तुलसीदलैः
पूजयेत्तं स विज्ञेयः स्वयं नारायणः प्रभुः ॥ १६ ॥

पुरा त्रेतायुगे शूद्रो दस्युवृत्तिपरायणः
नाम्ना दण्डकरो नित्यं धर्मनिन्दां करोति यः ॥ १७ ॥

असत्यभाषी मित्रघ्नो वेश्याविभ्रम लोलुपः
ब्रह्मस्वहारी क्रूरश्च परस्त्रीगमने रतः ॥ १८ ॥

शरणागतहन्ता च पाखण्डजनसङ्गभाक्
गोमांसाशी सुरापश्च परनिन्दाकरः सदा ॥ १९ ॥

विश्वासघाती ज्ञातीनां वृत्तिच्छेदी द्विजोत्तम
दुष्टं सर्वे समालोक्य तादृशं तद्गृहे द्विजः ॥ २० ॥

आगता ज्ञातयः क्रुद्धास्तस्य पापपरायणम्
ज्ञातय ऊचुः
रे रे मूढ दुराचार विनाशं प्रतिनीयते
या प्रतिष्ठार्जिता पूर्वैरस्माकं निर्मलेऽन्वये ॥ २१ ॥

इति क्रुद्धा द्विजश्रेष्ठ अपकीर्तिभयादपि
पापिनां प्रवरं सर्वे तत्यजुस्तं कुलादरम् ॥ २२ ॥

ततो गतो महारण्यं विनष्टाखिल वैभवः
कुर्यात्स दस्युभिः सार्द्धं दस्युकर्म निरन्तरम् ॥ २३ ॥

पथि प्रगच्छतां तेषां भयाद्विप्र न खादितुम्
प्राप्तं किञ्चित्क्षुधार्त्तास्ते गताश्चान्य स्थलं प्रति ॥ २४ ॥

तत्र प्रविष्टास्ते सर्वे दृष्ट्वा पुण्यजनान्बहून्
धात्रीमूले स्थितान्ब्रह्मन्वैष्णवान्द्विजसत्तमान् ॥ २५ ॥

सर्वे ते दस्यवो विप्र गता दण्डकरोऽपि सः
तेषां परिसरं गत्वा प्रणामं वै चकार ह ॥ २६ ॥

दण्डकर उवाच
क्षुधार्तोऽहं द्विजश्रेष्ठाः प्राणा यास्यन्ति मे ध्रुवम्
ददध्वं खादितुं किञ्चिद्युष्माकं शरणं गतः ॥ २७ ॥

आकर्ण्य वचनं तस्य चोचुस्ते धर्मतत्पराः
सर्वपापहरे त्वं च विख्याते विष्णुपञ्चके ॥ २८ ॥

कथमन्नं खादितुं ते वाञ्छा त्वद्य हरेर्दिने
विशेषं ते ब्रूहि सञ्ज्ञा काते भवति साम्प्रतम् ॥ २९ ॥

स उवाच मुदा विप्रा नाम्ना दण्डकरोप्यहम्
सर्वपापसमायुक्तश्चोद्धारो मे कथं भवेत् ॥ ३० ॥

ऊचुस्ते वै व्रतं श्रेष्ठं कुरुष्व विष्णुपञ्चकम्
विप्राणामाज्ञया विप्र चकार विष्णुपञ्चकम् ॥ ३१ ॥

स प्रेत्य च हरेः स्थानमारुह्य स्यन्दने वरे
आसाद्य श्रीहरेरूपं तस्थौ जन्मविवर्जितः ॥ ३२ ॥

य इदं शृणुयाद्भक्त्या चाख्यानं पापनाशनम्
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ॥ ३३ ॥

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे विष्णुपञ्चक-
माहात्म्यन्नाम त्रयोविंशोऽध्यायः २३