०२२

शौनकउवाच

विश्वास-प्रस्तुतिः

माहात्म्यं ब्रूहि सर्वज्ञ शृण्वतां पापनाशनम्
सर्वप्राणिहितार्थाय तुलस्या अनुकम्पया ॥ १ ॥

मूलम्

सूत उवाच
तुलस्याः परिसरे यस्य काननं तिष्ठति द्विज
गृहस्य तीर्थरूपत्वान्नायान्ति यमकिङ्कराः ॥ २ ॥

तुलस्याः काननं विप्र सर्वपापहरं शुभम्
रोपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम् ॥ ३ ॥

रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः
कुर्य्यात्तस्य प्रणष्टं स्यात्सर्वपापं द्विजोत्तम ॥ ४ ॥

कोमलैस्तुलसीपत्रैरर्चयन्ति हरिं तु ये
कालस्य सदनं विप्र ते न यान्ति महाशयाः ॥ ५ ॥

गङ्गाद्याः सरितः श्रेष्ठा विष्णु ब्रह्म महेश्वराः
देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठन्ति तुलसीदले ॥ ६ ॥

यो युक्तस्तुलसीपत्रैः पापी प्राणान्विमुञ्चति
विष्णोर्निकेतनं याति सत्यमेतन्मयोदितम् ॥ ७ ॥

तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि
विमुञ्चति नरः प्राणान्स याति हरिमन्दिरम् ॥ ८ ॥

यो नरो धारयेद्विप्र तुलसीकाष्ठचन्दनम्
तस्याङ्गं न स्पृशेत्पापं स याति परमं पदम् ॥ ९ ॥

तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः
अप्यशौचोप्यनाचारो भक्त्या याति हरेर्गृहम् ॥ १० ॥

धात्रीफलकृतामाला तुलसीकाष्ठसम्भवा
दृश्यते यस्य देहे तु स वै भागवतो नरः ॥ ११ ॥

तुलसीदलजां मालां कण्ठस्थां वहते तु यः
विष्णूच्छिष्टां विशेषेण स नमस्यो दिवौकसाम् ॥ १२ ॥

यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनम्
पूजयेत्पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् ॥ १३ ॥

धारयन्ति न ये मालां हैतुकाः पापबुद्धयः
नरकान्न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥ १४ ॥

न जह्यात्तुलसीमालां धात्रीमालां विशेषतः
महापातकसंहर्त्रीं धर्मकामार्थदायिनीम् ॥ १५ ॥

स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम्
तावद्वर्षसहस्राणि वसते केशवालये ॥ १६ ॥

निवेद्य केशवे मालां तुलसीकाष्ठसम्भवाम्
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ १७ ॥

तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ १८ ॥

तुलस्या विपिने धात्र्याश्छायासु यो नरोत्तमः
पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम ॥ १९ ॥

पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज
धात्रीफलं यस्तु धत्ते स विज्ञेयो हरिः स्वयम् ॥ २० ॥

धात्रीपत्रैः फलैर्विप्र श्रीहरिं चार्चयेद्द्विज
कोटिजन्मार्जितं पापं पूजया नश्यति सकृत् ॥ २१ ॥

यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज
धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा ॥ २२ ॥

धात्रीपत्रं कार्तिके च द्वादश्यां तुलसीदलम्
चिनोति यो नरो गच्छेन्निरयं यातनामयम् ॥ २३ ॥

धात्रीछायासु यो विप्र चान्नं भुनक्ति कार्तिके
अन्नसंसर्गजं पापमावर्षं तस्य नश्यति ॥ २४ ॥

तुलसीवनमध्ये च धात्रीमूले च कार्तिके
कुर्याद्धर्यर्चनं विप्र वैकुण्ठं याति स ध्रुवम् ॥ २५ ॥

तुलसीमूलदेशेऽपि स्थितं वारि द्विजोत्तम
गृह्णाति मस्तके भक्त्या पापी याति हरेर्गृहम् ॥ २६ ॥

तुलसीपत्रगलितं यस्तोयं शिरसावहेत्
सर्वतीर्थेषु स स्नातश्चान्ते याति हरेर्गृहम् ॥ २७ ॥

पुरा कश्चिद्द्विजश्रेष्ठो द्वापरेऽभून्महामुने
स्नात्वैकदा तुलस्यै स वनं दत्वा गृहं गतः ॥ २८ ॥

आदित्यो वर्चसा नाम्ना मार्त्तण्ड इव पुण्यतः
तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः ॥ २९ ॥

तुलस्यामूलतस्तोयं पीत्वा चासौ हतांहसः
त्वरयाप्यागतो व्याधो नाम्ना यश्चासिमर्द्दनः ॥ ३० ॥

उवाच भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु
कृत्वा मे पाकभाण्डस्थं चागतो हिंसकस्य ते ॥ ३१ ॥

विव्याध तं गतप्राणं नेतुं वै शमनाज्ञया
आगताः किङ्कराः क्रुद्धाः पाशमुद्गरपाणयः ॥ ३२ ॥

बद्ध्वा नेतुं मनश्चक्रुरागता विष्णुकिङ्कराः
तदा छित्त्वा चर्मपाशं स्यन्दने तं मनोहरे ॥ ३३ ॥

तूर्णमारोहयामासुः पप्रच्छुर्विनयान्विताः
तेऽपि पुण्येन भोः सन्तः केन वै नीयतेऽप्यसौ ॥ ३४ ॥

ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम्
अकरोद्धरणं काञ्चित्सुन्दरीं चाङ्गनामयम् ॥ ३५ ॥

अनेन चांहसा राजा गतो वै शमनक्षयम्
तत्रक्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया ॥ ३६ ॥

ताम्रमय्यास्त्रियासार्द्धं क्रीडां सुप्त्वा चकार सः
तप्तायां लोहशय्यायां वैक्लव्यं कर्मणा नृप ॥ ३७ ॥

तप्तायोभीषणं तप्तं लोहस्तम्भं यमाज्ञया
ततः स्थितः समालिङ्ग्य भुक्त्वा दुःखं चिरं नृपः ॥ ३८ ॥

सिक्तः क्षाराम्बुधाराभिरन्यैर्वै शमनालये
ततो नरकशेषे च पापयोनौ मुहुर्मुहुः ॥ ३९ ॥

जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा
तुलसीमूलकं वारि पीत्वा याति हरेर्गृहम् ॥ ४० ॥

इदानीं तद्वचः श्रुत्वा गतादूता यथागताः
तेन सार्द्धं विष्णुदूता गता वैकुण्ठमन्दिरम् ॥ ४१ ॥

माहात्म्यं कथितं ब्रह्मन्तुलस्याः पापनाशनम्
कुर्वन्ति सेवां ये भक्त्या न जाने किं भवेन्मुने ४२