शौनक उवाच
विश्वास-प्रस्तुतिः
कथयस्व मुने सूत सर्वमासोत्तमस्य च
कार्तिकस्य विधिं सम्यङ्नियमान्वक्तुमर्हसि ॥ १ ॥
मूलम्

सूत उवाच
आश्विनस्य द्विजश्रेष्ठ पौर्णमास्यां समाहितः
कार्तिकस्य व्रतं कुर्याद्यावदुद्बोधिनी भवेत् ॥ २ ॥

दिवा विप्र नरः कुर्यान्मलमूत्रमुदङ्मुखः
भवेन्मौनी च सर्वज्ञ रात्रौ चेद्दक्षिणामुखः ॥ ३ ॥

पथ्यम्भसि च गोष्ठेषु श्मशाने वल्मिके द्विज
कुर्यादुत्सर्जनं नैव व्रती मूत्रपुरीषयोः ॥ ४ ॥

अत्युत्तमेषु स्थानेषु मलमूत्रं न कारयेत्
शुद्धां मृदं गृहीत्वाथ वामं प्रक्षालयेत्करम् ॥ ५ ॥

अद्भिर्मृदापि शुद्ध्यर्थं पूर्वं विंशतिसङ्ख्यया
एका लिङ्गे गुदे पञ्च तथा वामकरे दश ॥ ६ ॥

उभयोर्दश दातव्या पादयोश्च त्रिभिस्त्रिभिः
मुखशुद्धिं ततः कुर्य्यात्सङ्कल्पं स्नपनस्य च ॥ ७ ॥

हृदि दामोदरं ध्यात्वा इमं मन्त्रं ततो वदेत्
कार्तिकेहं करिष्यामि प्रातःस्नानं जनार्द्दन ॥ ८ ॥

दामोदरस्य प्रीत्यर्थं राधया पापनाशनं
नमः पङ्कजनाभाय श्रीकृष्णजलशायिने ॥ ९ ॥
मूलम्
दामोदरस्य प्रीत्यर्थं राधया पापनाशनं
नमः पङ्कजनाभाय श्रीकृष्णजलशायिने ॥ ९ ॥
विश्वास-प्रस्तुतिः
नमस्ते राधया सार्द्धं गृहाणार्घं प्रसीद मे
स्नानं कुर्य्यात्ततो विप्र तिलकं तु यथाविधि ॥ १० ॥

ऊर्ध्वपुण्ड्रविहीनस्तु किञ्चित्कर्मकरोति यः
निष्फलं कर्म तत्सर्वं सत्यमेतन्मयोच्यते ॥ ११ ॥

यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रं विना कृतम्
तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ १२ ॥

ऊर्ध्वपुण्ड्रं मृदा शुभ्रं ललाटे यस्य दृश्यते
चाण्डालोऽपि विशुद्धात्मा पूज्य एव न संशयः
अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति नराधमाः ॥ १३ ॥

तेषां ललाटे सततं शुनःपादो न संशयः
प्रातःकालोदितं कर्म समाप्य हरिवल्लभाम् ॥ १४ ॥

पूजयेद्भक्तितो विप्र तुलसीं पापनाशिनीम्
पौराणीं तु कथां श्रुत्वा श्रीहरेः स्थिरमानसः ॥ १५ ॥

ततो विप्रं व्रती भक्त्या पूजयेत्तं यथाविधि
परासनं परान्नं च परशय्यां पराङ्गनाम् ॥ १६ ॥

सर्वदा वर्जयेद्विप्र कार्त्तिके च विशेषतः
सौवीरकं तथा माषानामिषं च तथा मधु ॥ १७ ॥

राजमाषादिकं नित्यं वर्जयेत्कार्तिके व्रती
जम्बीरमामिषं चूर्णमन्नं पर्य्युषितं द्विज ॥ १८ ॥

धान्ये मसूरिका प्रोक्ता गवां दुग्धमनामिषम्
लवणं भूमिजं विप्र प्राण्यङ्गमामिषं खलु ॥ १९ ॥

द्विजक्रीता रसाः सर्वे जलं चाल्पसरः स्थितम्
ब्रह्मचर्यं तुर्यकाले पत्रावल्यां च भोजनम् ॥ २० ॥

कुर्याद्वै द्विजशार्दूल तैलाभ्यङ्गं च वर्जयेत्
छत्राकं नालिकं हिङ्गुं पलाण्डुं पूतिकादलम् ॥ २१ ॥

लशुनं मूलकं शिग्रुं तथैव तुम्बिकाफलम्
कपित्थं चैव वृन्ताकं कूष्माण्डं कांस्यभोजनम् ॥ २२ ॥

द्विपाचितं सूतिकान्नं मत्स्यं शय्यां रजस्वलाम्
द्विस्त्रिश्चान्नं स्त्रियः सङ्गं वर्जयेत्कार्तिकव्रती ॥ २३ ॥

धात्रीफलं गृही विप्र रवौ तत्सर्वदा त्यजेत्
कूष्माण्डे धनहानिः स्यात्बृहत्यां न स्मरेद्धरिम् ॥ २४ ॥

पटोले तु न वृद्धिः स्याद्बलहानिश्च मूलके
कलङ्की जायते बिल्वे तिर्यग्योनिश्च निम्बुके ॥ २५ ॥

ताले शरीरनाशः स्यान्नारिकेले च मूर्खता
तुम्बी गोमांसतुल्या स्याद्गोवधं स्यात्कलिन्दके ॥ २६ ॥

शिम्बी पापकरा प्रोक्ता पूतिका ब्रह्मघातिका
वार्ताक्यां सुतनाशः स्याच्चिररोगी च माषके ॥ २७ ॥

मांसे च बहुपापं स्याद्वर्जयेत्प्रतिपदादिषु
यत्किञ्चिद्वर्जयेद्योऽन्नं श्रीहरे प्रीतये द्विज ॥ २८ ॥

तत्पुनर्भूसुरे दत्वा व्रतान्ते तस्य भोजनम्
कार्तिकव्रतिनं विप्र यथोक्तकारिणं नरम् ॥ २९ ॥

यमदूताः पलायन्ते सिंहं दृष्ट्वा यथा गजाः
श्रेष्ठं विष्णुव्रतं विप्र तत्तुल्या न शतं मखाः ॥ ३० ॥

कृत्वा क्रतुं व्रजेत्स्वर्गं वैकुण्ठं कार्तिकव्रती
यत्किञ्चिद्दुष्कृतं विप्र मनोवाक्कायकर्मजम् ॥ ३१ ॥

दृष्ट्वा तु विलयं याति कार्तिकव्रतिनं क्षणात्
कार्त्तिकव्रतिनः पुण्यं ब्रह्मा चैव चतुर्मुखः ॥ ३२ ॥

न समर्थो भवेद्वक्तुं यथोक्तव्रतकारिणः
यत्कृत्वा कलुषं सर्वं व्रजेद्विप्र दशो दिशः ॥ ३३ ॥

क्व गच्छामि क्व तिष्ठामि कार्त्तिकव्रतिनो भयात्
पौर्णमास्यां यथाशक्ति चान्नवस्त्रादिकं द्विज ॥ ३४ ॥

दद्याद्वै श्रीहरेः प्रीत्यै ब्राह्मणानपि भोजयेत्
रात्रौ जागरणं कुर्यान्नृत्यगीतादिभिर्व्रती
य इदं शृणुयाद्भक्त्या तस्य पापं प्रणश्यति ॥ ३५ ॥

इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखण्डे एकविंशोऽध्यायः २१