०२०

शौनक उवाच

विश्वास-प्रस्तुतिः

सुकृतं किं तथा प्राह कृत्वा संसारसागरात्
तरिष्यन्ति कलौ सूत तमोन्धकूपमण्डुकाः ॥ १ ॥

मूलम्

सूत उवाच
राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत्
राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता ॥ २ ॥

त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा
सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम् ॥ ३ ॥

राधादामोदराभ्यां या धूपदीपं तु कार्तिके
दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः ॥ ४ ॥

योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने
राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम् ॥ ५ ॥

राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम्
कार्तिके मासि सा दद्याद्याति वैकुण्ठमन्दिरम् ॥ ६ ॥

गन्धं या चापि नैवेद्यं दद्याद्वै शर्करादिकम्
राधादामोदराभ्यां सा गच्छेद्वै विष्णुमन्दिरम् ॥ ७ ॥

यत्किञ्चिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये
राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत् ॥ ८ ॥

या नारी कार्तिके भक्त्या राधादामोदरं द्विज
प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम् ॥ ९ ॥

कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि
भवेच्चासाद्य पूर्वं वै चाप्रिया स्वामिनोऽपि च ॥ १० ॥

पुरा त्रेतायुगे विप्र वृषलो नाम शङ्करः
सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया ॥ ११ ॥

जाराकाङ्क्षी सदा नाम्ना तृणवन्मन्यते पतिम्
असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः ॥ १२ ॥

इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै
नीचसङ्गान्महामूढा मद्यमांसं चखाद ह ॥ १३ ॥

स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा
पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च ॥ १४ ॥

मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया
विचार्येति हृदा मूढा जारेणैकेन सा तदा ॥ १५ ॥

अन्यदेशं गमिष्यावः सङ्केतमकरोद्द्विज
सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज ॥ १६ ॥

छित्त्वा जारकृते सापि सङ्केतस्य स्थलं गता
आगतं जारपुरुषं द्वीपिना भक्षितं द्विज ॥ १७ ॥

दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह
चिरादाश्वस्य सा मूढा करुणं विललाप ह ॥ १८ ॥

कलिप्रियोवाच
स्वकीयं स्वामिनं हत्वा चागता परपूरुषम्
तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम
किं करोमि क्व गच्छामि विधात्रा वञ्चितास्म्यहम् ॥ १९ ॥

ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति
लपने स्वामिनो दत्वा मुखं च विललाप सा ॥ २० ॥

हा नाथ किं कृतं कर्म मया हन्तातिदारुणम्
कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् ॥ २१ ॥

भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिन्दिता
किञ्चिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते ॥ २२ ॥

ननाम चरणे तस्य गतान्यनगरं प्रति
तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून् ॥ २३ ॥

ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान्
तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज ॥ २४ ॥

सपर्यां च कृतां चैव शङ्खनादैर्महोत्सवैः
गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः ॥ २५ ॥

मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता
पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः ॥ २६ ॥

स्त्रिय ऊचुः -
सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ
पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम् ॥ २७ ॥

कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम्
सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने ॥ २८ ॥

निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज
किङ्कराश्चागतास्तूर्णं यमस्य निलयं प्रति ॥ २९ ॥

नेतुं तां क्रोधसंयुक्ता बबन्धुश्चर्मरज्जुभिः
तदागता विष्णुदूता विमानं स्वर्णनिर्मितम् ॥ ३० ॥

शङ्खचक्रगदापद्मधारिणो वनमालिनः
निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः ॥ ३१ ॥

राजहंसयुते विप्र विमाने स्वर्णनिर्मिते
आरूढा सा गता तैस्तु वेष्टिता विष्णुमन्दिरम् ॥ ३२ ॥

तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम्
या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम् ॥ ३३ ॥

याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम्
य इदं शृणुयाद्भक्त्या या च नारी समाहिता
कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे राधादामोदरपूजा-
माहात्म्यकथनन्नाम विंशतितमोऽध्यायः २०