शौनक उवाच
विश्वास-प्रस्तुतिः
अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः
यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज ॥ १ ॥
मूलम्

प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने
वृषैकादशगोदानं सशिखं वपनं ततः ॥ २ ॥

गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा
गोद्वयं तु ततो दद्यात्पञ्चगव्यं पिबेत्ततः ॥ ३ ॥

ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः
चाण्डालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ॥ ४ ॥

यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चान्द्रायणं चरेत्
सशिखं वपनं कृत्वा पञ्चगव्यं ततः पिबेत् ॥ ५ ॥

एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात्
वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै ॥ ६ ॥

शूद्रोच्छिष्टं यदा भुङ्क्ते ज्ञानतो वा विपत्तिषु
प्राजापत्यद्वयं कुर्याच्चान्द्रायणत्रयं तथा ॥ ७ ॥

गोद्वयं तु ततो दद्यात्पञ्चगव्यं पिबेद्द्विज
हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम् ॥ ८ ॥

आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज
तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः ॥ ९ ॥

पलाण्डुं लशुनं शिग्रुमलाबुं गृञ्जनं पलम्
भुङ्क्ते यो वै नरो ब्रह्मन्व्रतं चान्द्रायणं चरेत् ॥ १० ॥

मद्यमांसप्रियं शूद्रं नीचकर्मानुवर्त्तनैः
तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः ॥ ११ ॥

द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः
दान स्वकर्मनिरतास्ते ज्ञेया वृषलोत्तमाः ॥ १२ ॥

अज्ञानाद्भुञ्जते विप्र सूतके मृतके यदि
गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत् ॥ १३ ॥

सहस्रैः क्षत्रियश्चैव वैश्यः पञ्चसहस्रकैः
पञ्चगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन ॥ १४ ॥

आज्यं तु तोयं नीचस्य भाण्डस्थं दधि यः पिबेत्
अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् ॥ १५ ॥

दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि
शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति ॥ १६ ॥

सशिखं वपनं कुर्यादहोरात्रोपवासतः
नीचैर्दण्डादिभिश्चैव ताडितो यो नरो द्विज ॥ १७ ॥

प्राज्ञापत्यव्रतं कुर्य्याच्चान्द्रायणव्रतं तु वा
सशिखं वपनं चैव पञ्चगव्यं पिबेत्ततः ॥ १८ ॥

गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम्
मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया ॥ १९ ॥

यदि भुङ्क्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः
गोबीजहन्ता यो विप्रच्छेदकश्च दलस्य च ॥ २० ॥

स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत्
सशिखं वपनं कृत्वा पञ्चगव्यं तथा पिबेत् ॥ २१ ॥

यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा
तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन ॥ २२ ॥

प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम्
त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम् ॥ २३ ॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः
सर्वपापहरं कृच्छ्रं मुने सान्तपनं स्मृतम् ॥ २४ ॥

ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम्
अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम् ॥ २५ ॥

प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज
सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने ॥ २६ ॥

अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः
पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन ॥ २७ ॥

एकैकं वर्द्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत्
इन्दुक्षये न भुञ्जीत चान्द्रायणव्रतं स्मृतम् ॥ २८ ॥

अश्नीयाच्चतुरः प्रातः पिण्डान्विप्र समाहितः
चतुरोऽस्तमिते चार्के शिशुचान्द्रायणं स्मृतम् ॥ २९ ॥

कूष्माण्डघाती या नारी पञ्चगव्यं पिबेत्त्र्यहम्
कूष्माण्डपञ्चकं दद्यात्ससुवर्णं सवस्त्रकम्
तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन ॥ ३० ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे एकोनविंशोऽध्यायः १९