शौनक उवाच
विश्वास-प्रस्तुतिः
अगम्यागमनं सूत कुर्याद्यो वै विमोहितः
तस्य शुद्धिर्भवेत्केन कथयस्व समूलतः ॥ १ ॥
मूलम्

सूत उवाच
अभिगच्छति चाण्डालीं श्वपाकीं यो द्विजोत्तमः
उपवासत्रयं कुर्यात्प्राजापत्यं चरेत्ततः ॥ २ ॥

सशिखं वपनं चैव दद्याद्गोद्वयमेव च
यथार्थदक्षिणां दत्वा शुद्धिमाप्नोति स द्विजः ॥ ३ ॥

क्षत्त्रियो वापि चाण्डालीं वैश्यो वा यदि गच्छति
प्राजापत्यं सकृच्छ्रं च दद्याद्गोमिथुनद्वयम् ॥ ४ ॥

अनुगच्छति शूद्रो हि श्वपाकीं च तपोधन
चतुर्गोमिथुनं दद्यात्प्राजापत्यं व्रतं चरेत् ॥ ५ ॥

मातरं यदि वा गच्छेद्भगिनीं स्वसुतामपि
वधूं च मोहितो गच्छंस्त्रीणि कृच्छ्राण्यथाचरेत् ॥ ६ ॥

चान्द्रायणत्रयं कृत्वा दद्याद्गोमिथुनत्रयम्
सशिखं वपनं कृत्वा पञ्चगव्यं पिबेत्ततः ॥ ७ ॥

हुते ह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन
पितृदारान्द्विजश्रेष्ठ मातुश्च भगिनीं तथा ॥ ८ ॥

गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजाम्
यदि गच्छति मोहेन प्राजापत्यद्वयं चरेत् ॥ ९ ॥

चान्द्रायणत्रयं ब्रह्मन्पञ्चगोमिथुनानि च
विप्रेभ्यो दक्षिणां दद्याच्छुध्यते नात्र संशयः ॥ १० ॥

गां च गच्छति यो मूढ उपवासत्रयं चरेत्
धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः ॥ ११ ॥

वेश्यां खरीं शूकरीं च कपिं तुं महिषीं द्विज
आकण्ठतः समाक्षिप्य गोमयोदककर्द्दमे ॥ १२ ॥

तत्र तिष्ठेन्निराहारो त्रिरात्रेणैव शुद्ध्यति
सशिखं वपनं कृत्वा त्रिरात्रमुपवासयेत् ॥ १३ ॥

एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः
ब्राह्मणीं तु यदा गच्छेत्यो नरः काममोहितः ॥ १४ ॥

प्राजापत्यत्रयं कुर्य्याच्चान्द्रायणत्रयं तथा
गोत्रयं तु तथा दद्याच्छुद्ध्यत्येव तपोधन ॥ १५ ॥

ब्राह्मणी पञ्चगव्यं तु पञ्चरात्रं पिबेद्द्विज
गोद्वयं दक्षिणां दद्याच्छुध्यत्यत्र न संशयः ॥ १६ ॥

पराङ्गनां यदागच्छेत्कृच्छ्रं सान्तपनं चरेत्
यथार्गला तथा योषित्तस्मात्तां परिवर्जयेत् ॥ १७ ॥

वर्णबाह्यां तथा नीचामनुगच्छेत्सकृन्नरः
प्राजापत्यं चरेत्कृच्छ्रं शुद्ध्यत्येव न संशयः ॥ १८ ॥

अङ्गारसदृशी योषित्सर्पिः कुम्भसमः पुमान्
तस्याः परिसरे ब्रह्मन्न स्थातव्यं कदाचन ॥ १९ ॥

जारेण जनयेद्गर्भं या च नारी कुलान्तका
त्याज्या सा सर्वथा ब्रंह्मस्तत्र दोषो न विद्यते ॥ २० ॥

या च नारी गृहाद्गच्छेत्त्यक्त्वा बन्धून्स्वकानपि
नष्टा सा च कुलभ्रष्टा न तस्याः सङ्गमः पुनः ॥ २१ ॥

या च नारी यदा गच्छेन्मोहिता परपूरुषम्
प्राजापत्यं चरेत्कृच्छ्रं पञ्चगव्यं पिबेत्ततः ॥ २२ ॥

गोद्वयं तु ततो दद्याच्छुध्यत्येव न संशयः
ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम् ॥ २३ ॥

यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते
यो गच्छेद्ब्राह्मणीं विप्र भूसुरः काममोहितः
गो तिलांश्च तदा दद्याच्छुद्ध्यत्यत्र न संशयः ॥ २४ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे अष्टादशोऽध्यायः १८