०१७

शौनक उवाच

विश्वास-प्रस्तुतिः

विष्णुपादोदकस्यापि माहात्म्यं पापनाशनम्
कथयस्व महाप्राज्ञ समूलं मे कृपार्णव ॥ १ ॥

मूलम्

सूत उवाच
समस्तपातकध्वंसि विष्णुपादोदकं शुभम्
कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत् ॥ २ ॥

विष्णुपादोदकं ब्रह्मन्स्पर्शतः पापनाशनम्
अकालमरणं नास्ति गङ्गास्नानफलं लभेत् ॥ ३ ॥

विष्णुपादोदकं पापी यः पिबेत्तस्य किल्बिषम्
शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः ॥ ४ ॥

तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज
यो वहेच्छिरसा भक्त्या चान्ते याति हरेर्गृहम् ॥ ५ ॥

मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते
हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः ॥ ६ ॥

धेनुकोटिसहस्राणि यत्फलं लभते नरैः
दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम् ॥ ७ ॥

यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते
हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः ॥ ८ ॥

कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः
विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्द्विजाधिकम् ॥ ९ ॥

दन्तिकोटिप्रदानेन सप्तिकोटिप्रदानतः
यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः ॥ १० ॥

दत्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत्
विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेत् ॥ ११ ॥

शृणु विप्र प्रवक्ष्यामि सङ्क्षेपेणाधिकं किमु
विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेर्गृहम् ॥ १२ ॥

स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहम्
कथयस्व हरेः सूत मम त्वं चानुकम्पया ॥ १३ ॥

पुरा त्रेतायुगे पापी नाम्ना विप्रः सुदर्शनः
जनार्द्दनदिने नित्यमश्नीयात्स द्विजोत्तम ॥ १४ ॥

शास्त्रनिन्दाकरो नित्यं व्रतनिन्दाकरः सदा
असावन्यं न जानाति केवलं स्वोदरं विना ॥ १५ ॥

एकदा प्राप्तकालस्तु निधनं प्राप्तवान्द्विज
यमदूताः समायाता बद्ध्वा नीतो यमालयम् ॥ १६ ॥

तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा
भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः ॥ १७ ॥

असौ विप्रो महापापी क्रूरकर्मेव दृश्यते ॥ १८ ॥

चित्रगुप्त उवाच
आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम्
वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो ॥ १९ ॥

वासरे कमलाभर्तुश्चाश्नीयाद्यो नराधमः
पुरीषं सोऽश्नीयाद्राजन्निरयं याति दारुणम् ॥ २० ॥

मन्वन्तरशतं देहि स्थानं तु निरयेऽप्यमुम्
ग्रामक्रोडस्य योनौ हि ततो जन्म भविष्यति ॥ २१ ॥

यमाज्ञया ततो विप्र तस्य दूतैर्भयङ्करैः
पातितस्तु पुरीषे वै मन्वन्तरशताधिकम् ॥ २२ ॥

ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः
चिरं नरकमश्नीयाद्धरिवासरभोजनात् ॥ २३ ॥

ततो विप्र प्राप्तकालः पञ्चत्वं स जगाम ह
काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा ॥ २४ ॥

एकस्मिन्दिवसे विप्र श्रीहरेश्चरणोदकम्
द्वारदेशेस्थितं पीत्वा सर्वपापविवर्जितः ॥ २५ ॥

तस्मिन्नेव दिने काकः पतितः शबरस्य च
काले मृत्युदशां प्राप्तो व्याधेन वायसोपि च ॥ २६ ॥

आगते स्यन्दने दिव्ये राजहंसयुते शुभे
आरुह्य बलिभुग्विप्र ययौ स हरिमन्दिरम् ॥ २७ ॥

पादोदकस्य माहात्म्यं कथितं पापनाशनम्
यः शृणोति नरः पापी तस्य पापं विनश्यति ॥ २८ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे चरणोदकमाहात्म्ये
सप्तदशोऽध्यायः १७