शौनक उवाच
विश्वास-प्रस्तुतिः
कर्मणा केन भोः सूत चैनसां सङ्क्षयो भवेत्
श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकम्पया ॥ १ ॥
मूलम्

सूत उवाच
शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम्
येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी ॥ २ ॥

पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः
कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः ॥ ३ ॥

कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने
तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम् ॥ ४ ॥

द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये
तस्य नश्यन्ति पापानि तमांसी वारुणोदये ॥ ५ ॥

यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज
तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः ॥ ६ ॥

मन्त्रं विना तु यो विप्र दद्याच्छ्रीहरये किल
पाषाणसदृशं पुष्पं दाता याति अधोगतिम् ॥ ७ ॥

क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत्
दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते ॥ ८ ॥

विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः
कालानलं यथा जीर्णं तेन स निरयं व्रजेत् ॥ ९ ॥

यथा दारुमयो हस्ती मृगश्चित्रमयो यथा
विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः ॥ १० ॥

यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति
भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ॥ ११ ॥

यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने
दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम् ॥ १२ ॥

भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः
न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः ॥ १३ ॥

वराटिकां यावतीं यो हरये पौर्णिमादिने
तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम् ॥ १४ ॥

करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः
कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयङ्करः ॥ १५ ॥

स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः
एकदा पञ्चतां यातो यमदूता भयङ्कराः ॥ १६ ॥

आगतास्तं समानेतुं यमस्यतु निकेतनम्
बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः ॥ १७ ॥

यम उवाच
अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम्
कथयस्व समूलं तु चित्रगुप्त विचक्षण ॥ १८ ॥

चित्रगुप्त उवाच
असौ पापी दुराचारः स्वामिकार्यप्रणाशकः
नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् ॥ १९ ॥

शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः
पाषाणे जन्म चासाद्य गृहे स्थातुं निरन्तरम् ॥ २० ॥

तावत्कालं ततो विप्र निरये स पपात ह
ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः ॥ २१ ॥

एकदा चाश्विने मासि पौर्णमासीदिने द्विज
लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः ॥ २२ ॥

पतिता सा हरेरग्रे पापमस्य स्वयं हरिः
तूर्णं तु नाशयामास दयालुर्दुःखनाशकः ॥ २३ ॥

कदाचित्प्राप्तकालस्तु पञ्चत्वं स जगाम ह
यमदूतास्तमानेतुं चागता बहुशो द्विज ॥ २४ ॥

बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति
तदागता विष्णुदूताः शङ्खचक्रगदाधराः ॥ २५ ॥

पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम्
तत्र चारोपयामासुः यमदूताः पलायिताः ॥ २६ ॥

ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ
तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः ॥ २७ ॥

भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज
वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् ॥ २८ ॥

य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम्
तस्य नश्यन्ति पापानि श्रीहरेः कृपयापि च ॥ २९ ॥

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे सूतशौनकसंवादे षोडशोऽध्यायः १६