शौनक उवाच
विश्वास-प्रस्तुतिः
कथयस्व महाभाग माहात्म्यं पापनाशनम्
एकादश्याः फलं किं वा किल्बिषं स्यादकुर्वतः ॥ १ ॥
मूलम्

सूत उवाच
एकादश्यास्तु माहात्म्यं किमहं वच्मि साम्प्रतम्
श्रुत्वा चैकादशीनाम यमदूताश्च शङ्किताः ॥ २ ॥

भवन्ति नात्र सन्देहो सर्वप्राणिभयङ्कराः
व्रतानां चैव सर्वेषां श्रेष्ठां चैकादशीं शुभाम् ॥ ३ ॥

उपोष्य जागृयाद्विष्णोः कुर्य्याच्च मण्डनं महत्
तुलसीदलैस्तु यो मर्त्यो हरिपूजां करोति वै ॥ ४ ॥

दलेनैकेन लभते कोटियज्ञफलं द्विज
अगम्यागमने चैव यत्पापं समुदाहृतम् ॥ ५ ॥
मूलम्
दलेनैकेन लभते कोटियज्ञफलं द्विज
अगम्यागमने चैव यत्पापं समुदाहृतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्पापं याति विलयं चैकादश्यामुपोषणात्
घृतपूर्णं प्रदीपं यो दद्याद्विष्णुदिने द्विज ॥ ६ ॥

अन्ते विष्णुपुरं याति तमो हत्वा स्वतेजसा
धन्या जनपदास्ते वै धन्यः स च महीपतिः ॥ ७ ॥

हरेर्दिने यस्य राज्ये चैकादश्या महोत्सवः
नारायणस्य शयने पार्श्वस्य परिवर्त्तने ॥ ८ ॥

विशेषेण प्रबोधिन्या निराहारा भवन्ति ये
मदन्ति कं नानयध्वम्प्राणिनःपुण्यभागिनः ॥ ९ ॥

अहर्निशं पितृपतिः समादिशति दूतकान्
एकादशी जगन्नाथ वल्लभा पुण्यवर्धिनी ॥ १० ॥

विष्णुर्देहं दोहत्येव तस्यामन्नस्य भक्षणे
तेषां धिग्जीवनं सम्पत्धिक्सौन्दर्यं च वर्तनम् ॥ ११ ॥

येऽन्नमश्नन्ति पापिष्ठाश्चैकादश्यां हि विड्भुजः
एकादश्यां द्विजश्रेष्ठ भुक्तिमाश्रित्य केवलम् ॥ १२ ॥

बहूनि विविधान्येव तिष्ठन्ति दुरितानि च
अमावास्यां यथा स्त्रीणां सङ्गमे कलुषं महत् ॥ १३ ॥

एकादश्यां तथैवान्नभक्षणे वृजिनं भवेत्
रोगिणश्च तथा खञ्ज काससोदरकुष्ठकाः ॥ १४ ॥

भवन्ति प्राणिनस्ते वै तस्यामन्नस्य भक्षणे
ग्रामशूकरतां यान्ति दारिद्र्यं च प्रयान्ति वै ॥ १५ ॥

राजबद्धा द्विजश्रेष्ठ तस्यामन्नस्य भक्षणे
संसारे यानि पापानि तानि विप्र हरेर्दिने ॥ १६ ॥

भुक्तिमाश्रित्य तिष्ठन्ति जलभक्षणमाज्ञया
कुर्वतां सर्वपापानि नरकान्निष्कृतिर्भवेत् ॥ १७ ॥

न निष्कृतिर्भवेन्नॄणां भुञ्जतां च हरेर्दिने
नरा यावन्ति चान्नानि भुञ्जते च हरेर्दिने ॥ १८ ॥

प्रत्यन्नं च ब्रह्महत्याकोटिजं वृजिनं भवेत्
पुनर्वच्मि पुनर्वच्मि श्रूयतां श्रूयतां नराः ॥ १९ ॥

न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने
गङ्गादिषु च तीर्थेषु स्नात्वा यत्फलमाप्यते ॥ २० ॥

चन्द्रसूर्योपरागे च चैकादश्यामुपोषितः
अर्चित्वोत्पलमालाभिस्तस्यां च कमलापतिम् ॥ २१ ॥

विधिवत्पारणं कृत्वा न मातुर्गर्भभाजनम्
एकादश्यां हरेर्गेहे करोति मण्डनं द्विज ॥ २२ ॥

परमां गतिमासाद्य तिष्ठेद्विष्णुनिकेतने
एकादशीं समासाद्य निराहारा भवन्ति ये ॥ २३ ॥

तेषां विष्णुपुरे शश्वन्निवासोऽपि न संशयः
तुलसीभक्तिसंलीनं मनो येषां विराजते ॥ २४ ॥

ते यान्ति परमं विष्णोः स्थानमेव न संशयः
परद्रव्येष्वभिरुचिर्येषां चैव न विद्यते ॥ २५ ॥

सन्तुष्टमनसो येऽपि तेषां विष्णुपुरं ध्रुवम्
दुर्भिक्षकालमासाद्य प्राणिभ्यो ये नरोत्तमाः ॥ २६ ॥

ददत्यन्नं हरेः सद्म तेषां चैव न संशयः
गवां द्विजानां त्राणाय स्वामिनो योषितस्तथा ॥ २७ ॥

प्राणान्मुञ्चन्ति ये मर्त्त्यास्तेषां विष्णुपुरं ध्रुवम्
प्राणिभिर्दशमीविद्धा न चोपोष्या कदाचन ॥ २८ ॥

परिहार्यं द्विजश्रेष्ठ दुर्जनस्यान्तिकं यथा
अरुणोदयवेलायां दशमी सङ्गता यदि ॥ २९ ॥

तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम्
दशमीशेषसंयुक्तो यदि स्यादरुणोदयः ॥ ३० ॥

वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम्
चतस्रो घटिकाः प्रातररुणोदय उच्यते ॥ ३१ ॥

यतीनां स्नानकालोयं गङ्गाम्भः सदृशः स्मृतः
अरुणोदयकाले तु दशमी यदि दृश्यते ॥ ३२ ॥

न तत्रैकादशी कार्या धर्मकामार्थनाशिनी
स्वल्पां च दशमीविद्धां त्यजेदेकादशीं बुधः ॥ ३३ ॥

सुराबिन्दोस्तु सम्पर्कात्घृतकुम्भं त्यजेद्यथा
सम्पूर्णैकादशी यत्र द्वादश्यां पुनरेव सा ॥ ३४ ॥

उत्तरा यतिभिः कार्या पूर्वामुपवसेद्गृही
एकादशीकला यत्र द्वादशीपरतो न चेत् ॥ ३५ ॥

तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्
एकादशी विलुप्ता चेत्परतो द्वादशीयुता ॥ ३६ ॥

उपोष्या द्वादशी पूर्णा यदीच्छेत्परमां गतिम्
सम्पूर्णैऽकादशी यत्र प्रभाते पुनरेव सा ॥ ३७ ॥

सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि
एकादशीव्रते येषां मनः संलीयते नृणाम् ॥ ३८ ॥

तेषां स्वर्गो हि वासोऽथ यान्ति ते सदनं हरेः
एकादश्याः परं नास्ति परलोकस्य साधनम् ॥ ३९ ॥

बहुपापसमायुक्तः करोति हरिवासरम्
सर्वपापविनिर्मुक्तः स याति हरिमन्दिरम् ॥ ४० ॥

पतिसहिता या योषित्करोति हरिवासरम्
सुपुत्रा स्वामिसुभगा याति प्रेत्य हरेर्गृहम् ॥ ४१ ॥

यो यच्छति हरेरग्रे प्रदीपं भक्तिभावतः
हरेर्द्दिने र्द्विजश्रेष्ठ पुण्यसङ्ख्या न विद्यते ॥ ४२ ॥

याङ्गना भर्तृसहिता कुरुते जागरं हरेः
हरेर्निकेतने तिष्ठेच्चिरं पत्या सह द्विज ॥ ४३ ॥

यत्किञ्चिद्धरये वस्तु भक्त्या यच्छति यो द्विज
हरेर्दिने तस्य पुण्यमक्षयं चैव सर्वदा ॥ ४४ ॥

पुरासीद्वल्लभो नाम्ना नगरे काञ्चनाह्वये
धनेन पुष्कलेनापि राजते स धनेश्वरः ॥ ४५ ॥

तस्य प्रिया महारूपा नाम्ना हेमप्रभा द्विज
गरीयान्मुखरस्तत्र बाधते च कलेर्गुणः ॥ ४६ ॥

सा सदा कलहं कुर्यात्पत्या सह तपोधन
शश्वद्गुरुजनान्कामं भर्त्सनान्नीचभाषया ॥ ४७ ॥

पाकपात्रे सदाश्नीयात्गुप्ता सैकान्तिकेमला
उच्छिष्टं गुरुजनेभ्यश्च दद्याद्वै प्रतिवासरम् ॥ ४८ ॥

जारे सदा स्थितं चित्तमहं साध्वीति सा वदेत्
स्वामिनः कलहैर्ब्रह्मन्मनोद्वेगकरा सदा ॥ ४९ ॥

एकदा चागतां दृष्ट्वा चकार भर्त्सनां च ताम्
भर्त्ता तस्याः प्रहारं च सर्वपापयुतां द्विज ॥ ५० ॥

सैव रोषसमायुक्ता गता शून्यगृहे तु वै
सुप्ताऽज्ञाता स्थिता कस्मिन्जलान्नं न चखाद ह ॥ ५१ ॥

दैवात्तत्र दिने विष्णोः पार्श्वस्य परिवर्त्तनम्
एकादशीव्रतं विप्र सर्वपापप्रणाशनम् ॥ ५२ ॥

ततः प्रभाते रजनी द्वादशी श्रवणान्विता
आगता तत्र सा नारी रोषनिर्भरमानसा ॥ ५३ ॥
मूलम्
ततः प्रभाते रजनी द्वादशी श्रवणान्विता
आगता तत्र सा नारी रोषनिर्भरमानसा ॥ ५३ ॥
विश्वास-प्रस्तुतिः
निराहारौ कृतौ द्वौ च निर्मला सा बभूव ह
रात्रौ च पञ्चतां याता जयन्तीवासरे द्विज ॥ ५४ ॥

यमाज्ञया ततो दूता आगतास्तां तथाविधाम्
नेतुं भयङ्करास्ते च पाशमुद्गरपाणयः ॥ ५५ ॥

बद्ध्वा नेतुं मनश्चक्रे कृतान्तसदनं यदा
तदागता विष्णुदूताः शङ्खचक्रगदाधराः ॥ ५६ ॥

छित्त्वा पाशं ततो दिव्ये स्यन्दने तां गतैनसम्
ते वै चारोहयामासु निर्मलां भवनं हरेः ॥ ५७ ॥

गता तैर्वेष्टिता साथ दुर्ल्लभं निर्जरैः शुभम्
विष्णोर्दिवसमाहात्म्यं कथितं ते द्विजर्षभ ॥ ५८ ॥

अनिच्छयापि यः कुर्यात्स याति हरिमन्दिरम्
एकादश्यादिने मर्त्यो दीपं दातुं हरेर्गृहे ॥ ५९ ॥

गच्छेत्प्रतिपदं सोऽपि चाश्वमेधफलाधिकम्
शृण्वन्ति च पुराणानि पठन्ति च हरेर्दिने
प्रत्यक्षरं लभन्ते ते कपिलादानजं फलम् ॥ ६० ॥

इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखण्डे हरिवासरमाहात्म्यकथनं
नाम पञ्चदशोऽध्यायः १५