शौनक उवाच
विश्वास-प्रस्तुतिः
कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव
माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे ॥ १ ॥
मूलम्

सूत उवाच
ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम
सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः ॥ २ ॥

कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम्
भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते सम्पदादिकम् ॥ ३ ॥

न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः
छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः ॥ ४ ॥

कृतापराधं विप्रं ये द्विषन्ति पापबुद्धयः
हरिं द्विषन्ति ते ज्ञेया निरयं यान्ति दारुणम् ॥ ५ ॥

यः कर्तुं प्रार्थनां विप्रं पश्येत्क्रोधेन चागतम्
कृतान्तश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै ॥ ६ ॥

कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः
यमदूता मुखे तस्य तप्तलोहं ददन्ति च ॥ ७ ॥

येषां निकेतने भुङ्क्ते क्ष्मासुरो वै तपोधनः
सुपर्वाणैः स्वयं कृष्णो भुङ्क्ते तेषां निकेतने ॥ ८ ॥

नश्यन्ति सर्वपापानि द्विजहत्यादिकानि च
कणमात्रं भजेद्यस्तु विप्राङ्घ्रिसलिलं नरः ॥ ९ ॥

यो नरश्चरणौधौतं कुर्याद्धस्तेन भक्तितः
द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः ॥ १० ॥

पुत्रहीना च या नारी मृतवत्सा च याङ्गना
सपुत्रा जीववत्सा सा द्विजपद्माङ्घ्रिसेवनात् ॥ ११ ॥

ब्रह्माण्डे यानि तीर्थानि तानि तीर्थानि सागरे
उदधौ यानि तीर्थानि तिष्ठन्ति द्विजपादयोः
द्विजाङ्घ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकम् ॥ १२ ॥

स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः
शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम् ॥ १३ ॥

विप्रपादोदकस्याहमितिहासं तपोधन
आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः ॥ १४ ॥

शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत्
निष्ठुरः सर्वदा तुष्टः समहान्वैश्यया पुनः ॥ १५ ॥

शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः
प्रत्येकं वच्मि किं तस्य दस्योः सङ्ख्या न विद्यते ॥ १६ ॥

पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः
एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम् ॥ १७ ॥

गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनो दधे
तत्रोवास ब्राह्मणस्य बहिर्द्वारसमीपतः ॥ १८ ॥

दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम्
भो स्वामिन्शृणु मे वाक्यं दयालुरिव मन्यते ॥ १९ ॥

क्षुधार्तोऽहं देहि चान्नं प्राणा यास्यन्ति मे द्रुतम् ॥ २० ॥

ब्राह्मण उवाच
क्षुधार्त्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते
पाकं मे तण्डुलानि त्वं नीत्वा भुङ्क्ष्व यथासुखम् ॥ २१ ॥

नास्ति मे जनको माता नास्ति सूनुः सहोदरः
नास्ति जाया मातृबन्धुर्मृताः सर्वे विहाय माम् ॥ २२ ॥

तिष्ठाम्येको गृहेऽकर्मा भाग्यहीनोतिथे हरिः
एको मे वसतौ चास्ति न जाने तद्विना किल ॥ २३ ॥

भीम उवाच
मम कश्चिद्द्विजश्रेष्ठ नास्ति सेवां तवापि च
शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा ॥ २४ ॥

इति तस्य वचः श्रुत्वा सानन्दः क्ष्मासुरस्तदा
पाकं विधाय तूर्णं स ददावन्नं तपोधन ॥ २५ ॥

सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये
सेवां कुर्वन्स्नेहयुक्तां भूसुरस्य मनोहराम् ॥ २६ ॥

अद्य श्वो वा हनिष्यामि द्रव्यमस्य ममापि च
नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः ॥ २७ ॥

परामृश्य च हृद्यन्तः कृत्वा तस्य क्रियां वदेत्
पादधौतादिकं चासौ शिरसा गतपातकः ॥ २८ ॥

आचम्याङ्घ्रिजलं दध्रेच्छद्मना प्रतिदिनं द्विजः
एकदा हारकः कश्चिद्द्रव्यं नेतुं समागतः ॥ २९ ॥

उत्पाट्य रात्रावररं गतोऽसौ तद्गृहान्तरम्
दृष्ट्वा भीमं प्रहारार्थं दण्डहस्तः समागतः ॥ ३० ॥

हारको मस्तकं तस्य छित्त्वा तूर्णं पलायितः
अथ तस्य भटा विष्णोः शङ्खचक्रगदाधराः ॥ ३१ ॥

समायातास्तथा नेतुं भीमं तं वीतकिल्बिषम्
स्यन्दनं चागतं दिव्यं राजहंसयुतं द्विज ॥ ३२ ॥

तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल
माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम्
शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम् ॥ ३३ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे ब्राह्मणमाहात्म्यं
नाम चतुर्दशोऽध्यायः १४