०१३

शौनक उवाच-

विश्वास-प्रस्तुतिः

कृष्णजन्माष्टमी सूत तस्या माहात्म्यमुत्तमम्
कथयस्व महाप्राज्ञ चोद्धरस्व महार्णवात् ॥ १ ॥

मूलम्

सूत उवाच-
कृष्णजन्माष्टमीं ब्रह्मन्भक्त्या करोति यो नरः
अन्ते विष्णुपुरं याति कुलकोटियुतो द्विज ॥ २ ॥

अष्टमी बुधवारे च सोमे चैव द्विजोत्तम
रोहिणीऋक्षसंयुक्ता कुलकोटिविमुक्तिदा ॥ ३ ॥

महापातकसंयुक्तः करोति व्रतमुत्तमम्
सर्वपापविनिर्मुक्तश्चान्ते याति हरेर्गृहम् ॥ ४ ॥

कृष्णजन्माष्टमीं ब्रह्मन्न करोति नराधमः
इह दुःखमवाप्नोति स प्रेत्य नरकं व्रजेत् ॥ ५ ॥

न करोति च या नारी कृष्णजन्माष्टमीव्रतम्
वर्षे वर्षे तु सा मूढा नरकं याति दारुणम् ॥ ६ ॥

जन्माष्टमीदिने यो वै नरोऽश्नाति विमूढधीः
महानरकमश्नाति सत्यं सत्यं वदाम्यहम् ॥ ७ ॥

दिलीपेन पुरा पृष्टो वसिष्ठो मुनिसत्तमः
तच्छृणुष्व महाप्राज्ञ सर्वपातकनाशनम् ॥ ८ ॥

दिलीप उवाच-
भाद्रे मास्यसिताष्टम्यां यस्यां जातो जनार्द्दनः
तदहं श्रोतुमिच्छामि कथयस्व महामुने ॥ ९ ॥

कथं वा भगवान्जातः शङ्खचक्रगदाधरः
देवकीजठरे विष्णुः किं कर्तुं केन हेतुना ॥ १० ॥

वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि कस्माज्जातो जनार्द्दनः
पृथिव्यां त्रिदिवं त्यक्त्वा भवते कथयाम्यहम् ॥ ११ ॥

पुरा वसुन्धरा ह्यासीत्कंसादिनृपपीडिता
स्वाधिकारप्रमत्तेन कंसदूतेन ताडिता ॥ १२ ॥

क्रन्दती क्रन्दती सा तु ययौ घूर्णितलोचना
यत्र तिष्ठति देवेश उमाकान्तो वृषध्वजः ॥ १३ ॥

कंसेन ताडिता नाथ इति तस्मै निवेदितुम्
बाष्पवारीणि वर्षन्ति विवर्णा साविमानिता ॥ १४ ॥

क्रन्दन्तीं तां समालोक्य कोपेन स्फुरिताधरः
उमयासहितः सर्वैर्देववृन्दैरनुव्रतः ॥ १५ ॥

आजगाम महादेवो विधातृभवनं रुषा
गत्वा चोवाच ब्रह्माणं कंसध्वंसनहेतवे ॥ १६ ॥

उपायः सृज्यतां ब्रह्मन्भवता विष्णुना सह
ऐश्वरं तद्वचः श्रुत्वा गन्तुं प्राह कृतात्मभूः ॥ १७ ॥

क्षीरोदे यत्र वैकुण्ठः सुप्तोऽस्ति भुजगोपरि
हंसपृष्ठं समारुह्य हरेरन्तिकमाययौ ॥ १८ ॥

तत्र गत्वा च तं धाता देववृन्दैर्हरादिभिः
संयुक्तः स्तूयते वाग्भिः कोमलं वाग्विदांवरः ॥ १९ ॥

नमः कमलनेत्राय हरये परमात्मने
जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥ २० ॥

इति तेभ्यः स्तुतिं श्रुत्वा प्रत्युवाच जनार्द्दनः
देवान्क्लिष्टमुखान्सर्वान्भवद्भिरागतं कथम् ॥ २१ ॥

ब्रह्मोवाच-
शृणु देव जगन्नाथ यस्मादस्माकमागतम्
कथयामि सुरश्रेष्ठ तदहं लोकभावन ॥ २२ ॥

मूलम्

ब्रह्मोवाच-
शृणु देव जगन्नाथ यस्मादस्माकमागतम्
कथयामि सुरश्रेष्ठ तदहं लोकभावन ॥ २२ ॥

विश्वास-प्रस्तुतिः

शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः
वसुधा ताडिता तेन करघातेन पीडिता ॥ २३ ॥

मूलम्

शूलिदत्तवरोन्मत्तः कंसो राजा दुरासदः
वसुधा ताडिता तेन करघातेन पीडिता ॥ २३ ॥

विश्वास-प्रस्तुतिः

वरं दत्वा पुराप्यग्रे मायया तु प्रवञ्चितः
भागिनेयं विना शम्भो मरणं भविता न मे ॥ २४ ॥

तस्माद्गच्छ स्वयं देव कंसं हन्तुं दुरासदम्
देवकीजठरे जन्म लब्ध्वा गत्वा च गोकुलम् ॥ २५ ॥

ब्रह्मणा प्रेरितो देवः प्रत्युवाच च शूलिनम्
पार्वतीं देहि देवेश अब्दं स्थित्वा गमिष्यति ॥ २६ ॥

उमया रक्षया सार्द्धं शङ्खचक्रगदाधरः
उद्दिश्य मथुरां चक्रे प्रयाणं कमलासनः ॥ २७ ॥

देवकीजठरे जन्म लेभे तत्र गदाधरः
यशोदाकुक्षिमध्यास्ते शर्वाणी मृगलोचना ॥ २८ ॥

नवमासांश्च विश्रम्य कुक्षौ नवदिनान्तकान्
भाद्रे मास्यसिते पक्षे चाष्टमीसञ्ज्ञका तिथिः ॥ २९ ॥

रोहिणीतारकायुक्ता रजनीघनघोषिता
तस्यां जातो जगन्नाथः कंसारिर्वसुदेवजः ॥ ३० ॥

वैराटी नन्दपत्नी च यशोदाऽजीजनत्सुताम्
पुत्रं पद्मकरं पद्मनाभं पद्मदलेक्षणम् ॥ ३१ ॥

तदा हर्षितुमारेभे दृष्ट्वा ह्यानकदुन्दुभिः
कंसासुरभयत्रस्ता प्रोवाच देवकी तदा ॥ ३२ ॥

वैराटीं गच्छ भो नाथ सुतं प्रत्यर्पितं किल
पुत्रं दत्वा यशोदायै सुतां तस्याः समानय ॥ ३३ ॥

तस्या वचः समाकर्ण्य वसुदेवोऽपि दुःखितः
अङ्के कुमारमादाय वैराट्यभिमुखंययौ ॥ ३४ ॥

यमुनाजलसम्पूर्णा तत्पथे मध्यवर्त्मनि
आसीद्घोरा महादीर्घा गम्भीरोदकपूरभाक् ॥ ३५ ॥

एवं दृष्ट्वा तटे स्थित्वा यमुनामवलोकयन्
वसुदेवोऽपि दुःखार्तो विललापातिचिन्तया ॥ ३६ ॥

किं करोमि क्व गच्छामि विधिनापि हि वञ्चितः
कथमत्र गमिष्यामि वैराटीं नन्दमन्दिरम् ॥ ३७ ॥

हरिणा तत्र सानन्दं मायया वञ्चितः पिता
क्षणमात्रं तटे स्थित्वा यमुनामवलोकयन् ॥ ३८ ॥

तेन दृष्टा पुनः सापि क्षणाज्जानुवहाभवत्
तां दृष्ट्वा हृष्ट उत्तस्थौ प्रस्थानमकरोद्यथा ॥ ३९ ॥

मायां कृत्वा जगन्नाथः पितुरङ्काज्जलेऽपतत्
तं पुत्रं पतितं दृष्ट्वा हाहाकृत्वा सुदुःखितः ॥ ४० ॥

महोपायं पुनः कर्तुं विधिना तेन वञ्चितः
त्राहि मां जगतां नाथ सुतं रक्ष सुरोत्तम ॥ ४१ ॥

जनकक्रन्दितं दृष्ट्वा कंसारिः कृपया मुहुः
जलक्रीडां समाचर्य पितुःक्रोडमगात्पुनः ॥ ४२ ॥

यथा तेन यदुश्रेष्ठो जगाम नन्दमन्दिरम्
सुतं दत्त्वा यशोदायै सुतां तस्याः समानयत् ॥ ४३ ॥

निजागारं ततः प्राप्य पत्न्यै प्रत्यर्पिता सुता
देवकी च प्रसूतेति वार्ता प्राप्ता सुरारिणा ॥ ४४ ॥

आनेतुं प्रस्थिता दूताः सुतं दुहितरं तदा
आगत्य कंसदूतास्ते सुतां नेतुं प्रचक्रमुः ॥ ४५ ॥

बलादेनां समाकृष्य देवकी वसुदेवयोः
कंसदूतैर्गृहीत्वा सा अर्पिता तु सुरारये ॥ ४६ ॥

स धृत्वा तां महाराजः सभयोऽभूद्दुरासदः
शुद्धकाञ्चनवर्णाभां पूर्णेन्दुसदृशाननाम् ॥ ४७ ॥

कंसो हसन्तीं तां दृष्ट्वा विद्युत्स्फुरितलोचनाम्
आदिदेशासुरश्रेष्ठो जहि नीत्वा शिलोपरि ॥ ४८ ॥

आज्ञां लब्ध्वाऽसुरास्ते वै निष्पेष्टुं तां प्रवर्तिताः
विद्युच्छीघ्रतया गौरी जगाम शङ्करान्तिकम् ॥ ४९ ॥

गौर्युवाच-
शृणु राजन्प्रवक्ष्यामि यत्रास्ते शत्रुरुत्तमः
नन्दस्य निलये गुप्तस्तव हन्ताऽसुरोत्तम ॥ ५० ॥

एवमुक्त्वा तु सा देवी जगाम निजमन्दिरम्
श्रुत्वा वाक्यं ततो देव्याः कंसो राजा सुदुःखितः ॥ ५१ ॥

भगिनीं पूतनामाह गच्छ त्वं नन्दमन्दिरम्
छद्मना तं सुतं हत्वा गच्छ ते वाञ्च्छितं बहु ॥ ५२ ॥

दास्यामि शत्रुं हन्तुं मे व्रज शीघ्रतरं शुभे
आज्ञां प्राप्य राक्षसी सा गोकुलाभिमुखं गता ॥ ५३ ॥

मायया सुन्दरी रूपा प्रविष्टा तत्र गोकुले
पयोधरे गरं सा तु धृत्वा हन्तुमुपागता ॥ ५४ ॥

पशुपानां गृहद्वारि प्रविष्टालक्षितेति च
गत्वान्तरुत्थाप्य शिशुं स्तनं दत्वापसद्गतिम् ॥ ५५ ॥

ततस्तु शकटं क्षिप्त्वा तृणावर्तादिमर्दनम्
कालीयदमनं कृत्वा गतो मधुपुरीं ततः ॥ ५६ ॥

गत्वा कंसो हतः क्रूरः कंसमल्लानजीजयत्
एतत्ते कथितं राजन्विष्णोर्जन्मदिनव्रतम् ॥ ५७ ॥

श्रुत्वा पापानि नश्यन्ति कुर्यात्किं वा भविष्यति
य इदं कुरुते मर्त्यो या च नारी हरेर्व्रतम् ॥ ५८ ॥

ऐश्वर्यमतुलं प्राप्य जन्मन्यत्र यथेप्सितम्
पूर्वविद्धा न कर्त्तव्या तृतीयाषष्ठिरेव च ॥ ५९ ॥

अष्टम्येकादशीभूता धर्मकामार्थवाञ्च्छुभिः
वर्जयित्वा प्रयत्नेन सप्तमीसंयुताष्टमी ॥ ६० ॥

विना ऋक्षेऽपि कर्तव्या नवमीसंयुताष्टमी
उदये चाष्टमी किञ्चित्सकला नवमी यदि ॥ ६१ ॥

मुहूर्तरोहिणीयुक्ता सम्पूर्णा चाष्टमी भवेत्
अष्टमी बुधवारेण रोहिणीसहिता यदि ॥ ६२ ॥

सोमेनैव भवेद्राजन्किङ्कृतैर्व्रतकोटिभिः
नवम्यामुदयात्किञ्चित्सोमे सापि बुधेऽपि च ॥ ६३ ॥

अपि वर्षशतेनापि लभ्यते वा न लभ्यते
विना ऋक्षं न कर्तव्या नवमीसंयुताष्टमी ॥ ६४ ॥

कार्याविद्धापि सप्तम्यां रोहिणीसंयुताष्टमी
कलाकाष्ठामुहूर्तेऽपि यदा कृष्णाष्टमीतिथिः ॥ ६५ ॥

नवम्यां सैव वा ग्राह्या सप्तमीसंयुता न हि
किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥ ६६ ॥

किं पुर्नर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा
पलवेधेन राजेन्द्र सप्तम्या अष्टमीं त्यजेत् ॥ ६७ ॥

सुरायाबिन्दुनास्पृष्टं गङ्गाम्भः कलशं यथा
दिलीप उवाच-
केन चादौ कृतं चेदं केन वा तत्प्रकाशितम्
किं पुण्यं किं फलं देव कथयस्व महामुने ॥ ६८ ॥

चित्रसेनो महाराजा महापापपरो महान्
अगम्यागमनं कृत्वा स्वर्णस्तेयं द्विजस्य च ॥ ६९ ॥

सुरायां च सदा तृप्तो वृथामांसे सदा रतः
एवं पापसमायुक्तो नित्यं प्राणिवधे रतः ॥ ७० ॥

चाण्डालैः पतितैः सार्द्धमालापं सर्वदाकरोत्
एतदेवं विधो राजा मृगयायां मनो दधे ॥ ७१ ॥

अरण्ये द्वीपिनं ज्ञात्वा वेष्टयित्वा च सर्वतः
सावधानं भटान्सर्वान्वाक्यमेतदुवाच ह ॥ ७२ ॥

अहमेव निहन्म्येनं योऽन्योस्मिन्प्रहरिष्यति
स वध्यो नात्र सन्देहो व्याघ्रो राज्ञः पथा ययौ ॥ ७३ ॥

सलज्जोऽपि ततो राजा व्याघ्रं पश्चाज्जगाम ह
अनेकक्लेशदुःखेन व्याघ्रं हन्तुं समाहितः ॥ ७४ ॥

क्षुत्पिपासाकुलक्लेशः सन्ध्यायां यमुनातटे
अष्टमीरोहिणीयुक्ता तद्दिनं जन्मवासरम् ॥ ७५ ॥

श्वःकन्या यमुनायां वै व्रतं चक्रुर्नराधिप
नानोपहारैर्द्रव्यैश्च धूपदीपैः सुशोभनैः ॥ ७६ ॥

गन्धपुष्पं तथा द्रव्यं कुङ्कुमादिमनोहरम्
अन्नं बहुगुणं दृष्ट्वा भोक्तुं तन्मानसङ्कुलम् ॥ ७७ ॥

राजोवाच-
अन्नाभावान्ममाद्याशु प्राणा यास्यन्ति निश्चितम्
स्त्रिय ऊचुः-
जन्माष्टम्यां हरे राजन्न भोक्तव्यं त्वयानघ ॥ ७८ ॥

गृध्रमांसं खरं काकं गोमांसमन्नमेव च
भुक्तवान्नात्र सन्देहो यो भुङ्क्ते कृष्णजन्मनि ॥ ७९ ॥

किं किं छिद्रं न सञ्जातं संसारे वसतां नृणाम्
येन देहेस्थिते प्राणे जयन्ती न कृता नृप ॥ ८० ॥

तत्राकृतोपवासस्य शासनं यममन्दिरम्
यद्दत्तं पितरो नित्यं न गृह्णन्ति यथाविधि ॥ ८१ ॥

पितरः पातिताः सर्वे जयन्त्यां भोजने कृते
इति श्रुत्वा ततो राजा व्रतं चक्रे नराधिप ॥ ८२ ॥

किञ्चित्पुष्पं कियद्गन्धं वस्त्रं चानीय हर्षितः
एतद्व्रतं समायुक्तं तिथिभान्ते च पारणम्
व्रतस्यास्य प्रभावेण चित्रसेनो हरेर्गृहम् ॥ ८३ ॥

दिव्यं विमानमारुह्य गतवान्पितृभिः सह
यत्फलं मथुरां गत्वा दृष्ट्वा कृष्णमुखाम्बुजम् ॥ ८४ ॥

तत्फलं प्राप्यते पुंसाकृष्णजन्माष्टमीव्रतात्
यत्फलं द्वारकां गत्वा दृष्टे विश्वेश्वरे हरौ
तत्फलं प्राप्यते दीनैः कृत्वा जन्माष्टमीव्रतम् ॥ ८५ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे हरिजन्माष्टमीव्रतमाहात्म्यं
नाम त्रयोदशोऽध्यायः १३