०११

शौनक उवाच-

विश्वास-प्रस्तुतिः

इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः
हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासित ॥ १ ॥

मूलम्

निरहङ्कार हे सूत लोकानुग्रहकारक
केन स्यात्सुभगा नारी पापिनी च सुदुर्भगा ॥ २ ॥

पतिप्रियाङ्ग केन स्याद्रूपिता चक्षुषोः सुधा
केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधन ॥ ३ ॥

सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम्
शृणुष्व भोः समासेन कथयामि विधानतः ॥ ४ ॥

मूलम्

सूत उवाच-
यदि पुण्यमिदं विप्र वृत्तं परमदुर्लभम्
शृणुष्व भोः समासेन कथयामि विधानतः ॥ ४ ॥

विश्वास-प्रस्तुतिः

आसीद्भद्रश्रवा राजा युगे द्वापरसञ्ज्ञके
सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः ॥ ५ ॥

भार्या तस्य च सञ्जाता नाम्ना सुरतिचन्द्रिका
तस्यां बभूवुः श्रीराज्ञः सप्तपुत्रा मनोरमाः ॥ ६ ॥

ततोऽभिजाता दुहिता सुन्दरी सत्यवादिनी
श्यामबाला च विप्रेन्द्र नाम्ना प्रीतिकरी पितुः ॥ ७ ॥

अथैकदा श्यामबाला सुवर्णसिकतासु च
गूढैर्मनोहरै रत्नैः सखिभिः क्रीडितुं मुदा ॥ ८ ॥

जगाम नीपवृक्षस्य तलं परमदुर्लभम्
एतस्मिन्नन्तरे विप्र लक्ष्मीः संसारतारिणी ॥ ९ ॥

लोकानां नीतिदा साथ समायाता स्वयं पुरः
धृत्वा च ब्राह्मणीरूपं पलिताङ्गी च भूसुर ॥ १० ॥

अखिलानां च लोकानां शास्तू राज्ञः क्षयं विना
केषां क्षुद्रतराणां हि गृहे गच्छामि साम्प्रतम् ॥ ११ ॥

इति सञ्चिन्त्य मनसा गता राजनिकेतनम्
सुवर्णभित्तिभिर्युक्तं पताकाभिरलङ्कृतम् ॥ १२ ॥

सिंहद्वारमतिक्रम्य प्राह दौवारिकीं ततः
द्वारं जहि हि भो द्वारि नियुक्ते शुभलक्षणे ॥ १३ ॥

यामि वेगेन पश्यामि राज्ञीं सुरतिचन्द्रिकाम्
तच्छ्रुत्वा वचनं तस्या रत्नदण्डकरा च सा
कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ ॥ १४ ॥

द्वारनियुक्तोवाच-
किं नाम वहसे वृद्धे कः पतिस्तावकः पुनः
आगतासि कथं किं ते कार्य्यं राज्ञ्याश्च दर्शने
कस्मात्किं ब्रूहि विप्रे त्वं श्रोतुं कौतुहलं हि मे ॥ १५ ॥

वृद्धोवाच-
शृणु पोष्ये महाराज पत्न्या दण्डकरे यदा
श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणम् ॥ १६ ॥

प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम
भुवनेश इति ख्यातो नाम्ना द्वारवतीपुरी ॥ १७ ॥

तस्यां वै वर्त्तते पोष्ये मम प्राणेश्वरस्ततः
आगताहं रत्नवेत्रकरे शृणु सकौतुकम् ॥ १८ ॥

ममागमनकार्यं हि वच्मीदानीं तवाग्रतः
पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी ॥ १९ ॥

एकस्मिन्दिवसे पोष्ये पतिना कलहः कृतः
तया नार्या च दुःखिन्या ततो वै भर्तृपीडिता ॥ २० ॥

बहिर्भूय द्रुतं गेहाद्रुदन्ती च पुनः पुनः
तस्याश्च रोदनं श्रुत्वा चागताहं समीपतः ॥ २१ ॥

अपृच्छं सर्ववृत्तान्तं कथितो वै यथार्थतः
तया ततो व्रतवरमुपदेशं ददाम्यहम् ॥ २२ ॥

ममोपदेशतः सा वै चक्रे व्रतवरं मुदा
तस्य प्रसादाद्भो द्वाःस्थे सञ्जाता सुखिता च सा ॥ २३ ॥

कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गता
समानेतुं ततस्तौ तु विहिताखिलघातकौ ॥ २४ ॥

किङ्करान्प्रेषयामास चण्डाद्यान्धर्मराट्प्रभुः
यमाज्ञया समायाता यमदूता भयङ्कराः ॥ २५ ॥

बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः
उद्यमं चक्रिरे गन्तुं यमस्य शरणं प्रति ॥ २६ ॥

अत्रान्तरे च लक्ष्म्यास्ते दूता विष्णुपरायणाः
समानेतुं समायाताः शङ्खचक्रगदाधराः ॥ २७ ॥

दृष्ट्वा तथाविधांस्तांश्च यमदूताः पलायिताः
लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा ॥ २८ ॥

पाशं छित्त्वा समारोप्य राजहंसयुते रथे
जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना ॥ २९ ॥

यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा
तावत्कल्पसहस्राणि तस्थतुः कमलापुरे ॥ ३० ॥

पुण्यशेषस्य भोगार्थं जातौ राजान्वयेऽधुना
व्रतं च विस्मृतौ द्वाःस्थे राजसम्पत्तिगर्वितौ
तस्माच्च तव तस्यापि चोपदेशार्थमागता ॥ ३१ ॥

द्वाःस्थोवाच-
केनैव तु विधानेन वृद्धे व्रतवरं कृतम्
कस्मिन्मासे व्रतं श्रेष्ठं देवता का च पूज्यते ॥ ३२ ॥

एतन्मे पृच्छतो मातर्यथावद्वक्तुमर्हसि
कमलोवाच-
कार्त्तिके च व्यतिक्रान्ते मार्गशीर्षे समागते
तस्मिन्मासे च भो पोष्ये वासरे गुरुसञ्ज्ञके ॥ ३३ ॥

ततः पूर्वाह्णसमये सकलैर्व्रतिभिर्वृता
नारायणेन सहितां लक्ष्मीं सम्पूजयेत्ततः ॥ ३४ ॥

मिष्टैः पायसयुक्तैश्च भुक्तैश्च खण्डमिश्रितैः
लक्ष्मीं सन्तोषयेत्प्रेष्ये ततः सम्प्रार्थयेदिदम् ॥ ३५ ॥

त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे
यथा त्वमचला कृष्णे तथा भव मयि स्थिता ॥ ३६ ॥

ईश्वरी कमले देवि शरणं च भवानघे
नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् ॥ ३७ ॥

शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्विताम्
ततो नैवेद्यशेषांश्च दत्वा ब्राह्मणसत्तमम् ॥ ३८ ॥

आत्मानं स्वपतिं पुत्रान्पोष्येऽन्यानपि सेवकान्
द्वितीये तु गुरोर्वारे विशेषं शृणु सुन्दरि ॥ ३९ ॥

चित्रधूलीप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः
तोषयेत्कमलादेव्याः कुर्य्याद्वै भक्तिभावतः ॥ ४० ॥

तृतीये खण्डसंयुक्तं दध्योदननिवेदनम्
शामाक शालि कासारैश्चतुर्थे पूजयेन्मुदा ॥ ४१ ॥

लक्ष्मीदेवीं प्रयत्नेन रत्नदण्डकरे ततः
लक्ष्मीदेवी प्रीतये तु ब्राह्मणान्पूजयेद्धनैः ॥ ४२ ॥

वस्त्रालङ्कारभोज्यैश्च फलैर्नानाविधैस्तथा
पोष्योवाच-
अत्रैव तिष्ठ भो वृद्धे राज्ञीं सुरतिचन्द्रिकाम् ॥ ४३ ॥

विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे
इत्युक्त्वा सा तु चार्वङ्गी गता राज्ञीसमीपतः ॥ ४४ ॥

शिरस्यञ्जलिमाधाय पोष्या ब्रह्मन्समूलतः
आरभ्य साङ्गपर्यन्तं यदूचे कमलालया ॥ ४५ ॥

तत्सर्वं कथयामास राज्ञीं सुरतिचन्द्रिकाम्
द्वारपालीवचः श्रुत्वा राज्ञी सुरतिचन्द्रिका ॥ ४६ ॥

जगाम ब्राह्मणीपार्श्वं सगर्वा प्राह सुन्दर
राज्ञ्युवाच-
वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागता ॥ ४७ ॥

कथयस्व चिरं मह्यं भयं त्यक्त्वा यथासुखम्
ब्राह्मण्युवाच-
तवानीतिमहं दृष्ट्वा गन्तुमिच्छामि चञ्चला ॥ ४८ ॥

कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम्
इन्दिरावासरे चाद्य चाण्डालेन करोषि यत् ॥ ४९ ॥

तद्दृष्टं मयि का दुष्टे तद्गेहे गर्वितेऽधुना
तच्छ्रुत्वा ब्राह्मणीवाक्यं क्रोधसंरक्तलोचना ॥ ५० ॥

जरन्तीं ब्राह्मणीं चैव प्रहारं च चकार सा
ततः सा कमला वृद्धा क्रन्दमाना पलायिता ॥ ५१ ॥

क्रीडमाना ततः श्यामा ब्राह्मणीक्रन्दनध्वनिम्
आगतास्याः समीपं तु श्रुत्वा बाला तपोधना ॥ ५२ ॥

श्यामाबालोवाच-
वृद्धे व्यथेदृशी केन दत्ता तुभ्यं वदस्व मे
तस्या वचनमाकर्ण्य शोकगद्गदया गिरा ॥ ५३ ॥

कमला कथितं सर्वं वृत्तान्तं द्विजसत्तम
श्यामाबाला ततः श्रुत्वा व्रतं परमदुर्ल्लभम् ॥ ५४ ॥

शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः
त्रिवारे परिपूर्णे तु तुर्यवारे समागते ॥ ५५ ॥

विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादतः
श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः ॥ ५६ ॥

मालाधरो नाम सुतो गृहीत्वा तां गृहं गतः
अथ तस्यां गतायां तु ब्रह्मन्शृणुष्व कौतुकम् ॥ ५७ ॥

राज्ञीगृहे च सर्वाणि स्थितानि सुबहूनि च
द्रव्याणि केन नीतानि न ज्ञातान्यपि भूसुर ॥ ५८ ॥

निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता
उपविष्टा च केनापि गन्तुं च दुहितुर्गृहम् ॥ ५९ ॥

प्रेषयामास भर्त्तारं किञ्चित्प्रार्थनहेतवे
तस्य मालाधरस्यापि ग्रामे च सरसीतटे ॥ ६० ॥

कालेन कियता विप्र प्रविवेश च कष्टतः
तस्माज्जलं समानेतुं तस्या दास्यः समागताः
तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्छुः सानुकम्पिताः ॥ ६१ ॥

दास्य ऊचुः-
कस्त्वं कुतः समायातो मांसरक्तविवर्ज्जितः
रूक्षाङ्गो रूक्षकेशश्च तत्सर्वं कथयस्व नः ॥ ६२ ॥

दरिद्र उवाच-
श्यामाबालापिता चाहं सौराष्ट्रनगरागतः
कथयध्वं च भो दास्यः श्यामाबालासमीपतः ॥ ६३ ॥

तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः
परस्परमुखाः सर्वा जहसुः स्वपुरं गताः ॥ ६४ ॥

श्यामाबाला च कथितं सर्वं वृत्तं च भो द्विज
श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् ॥ ६५ ॥

पुष्पतैलं दिव्यवस्त्रं चन्दनं पर्णवीटिकाम्
घोटकं च तथा दत्वा पितरं प्रति सुन्दरी ॥ ६६ ॥

गत्वाथ सर्वे ते भृत्याः कृत्वा सुवेषमुत्तमम्
श्यामाबालागृहं निन्युर्देवराजगृहोपमम् ॥ ६७ ॥

श्यामाबाला ततश्चैव पितरं दुखिनां वरम्
श्याल्यन्नं सघृतं चैव भोजयामास यत्नतः ॥ ६८ ॥

तुर्येषु समतीतेषु दिवसेषु तपोधन
प्रेषयामास तं दत्वा गुप्तपात्रस्थितं धनम् ॥ ६९ ॥

ततः प्रविश्य स्वगृहे धनं पात्रान्तरस्थितम्
ददर्शाङ्गारनिचयं रुरोद भृशदुःखितः ॥ ७० ॥

दुहितुः सदनं यातुं निःससार गृहागतः
तत्रैव सरसीकूले प्रविवेश च दुःखिनी ॥ ७१ ॥

तथैनां च समानीतां यथा स्याः प्राणवल्लभाम्
तथैव पूजयामास मातृस्नेहात्पतिव्रता ॥ ७२ ॥

एतस्मिन्समये विप्र लक्ष्मीवासरमुत्तमम्
श्यामाबाला कारयितुं मनश्चक्रे च मातरम् ॥ ७३ ॥

तस्या माता दरिद्राणि भुक्त्वा वैकान्तिकेपि च
शावकानां तु चोच्छिष्टं लक्ष्मीकोपसमन्विता ॥ ७४ ॥

इन्दिरायास्तृतीयानि वासराणि गतान्यपि
चतुर्थवासरे तां तत्कारयामास सा दृढम् ॥ ७५ ॥

आगता नगरं सा वै राज्ञी सुरतिचन्द्रिका
दृष्ट्वा गृहं तथा दिव्यमिन्दिरायाः प्रसादतः ॥ ७६ ॥

श्यामाबाला च विप्रेन्द्र कदाचित्समये पुनः
मातुर्गृहं गता चाथ ऐश्वर्यस्य दिदृक्षया ॥ ७७ ॥

श्यामाबालां ततो दूराद्दृष्ट्वा सङ्कुपिता च सा
न पश्यामि मुखं तस्या इत्युक्त्वालक्षिता स्थिता ॥ ७८ ॥

गत्वा गृहान्तरालं च गृहीत्वा सैन्धवं च सा
आगता स्वगृहं किञ्चित्तूष्णीं लक्ष्मीसमाश्रितम् ॥ ७९ ॥

राजा स्वामी च पप्रच्छ तां साध्वीं पतिदेवताम्
किमानीतं त्वया कान्ते कथयस्व ममाग्रतः ॥ ८० ॥

कान्तोवाच-
राज्यसारं समानीतं दर्शयिष्यामि भोजने
इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना ॥ ८१ ॥

अन्नादिकं ततो दत्वा मालाधराय भूभुजे
ततो मालाधरो राजा व्यञ्जनं लवणवर्जितम् ॥ ८२ ॥

भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा
तदा हृष्टमना राजा भोजनं कृतवान्द्विज ॥ ८३ ॥

प्रशशंस च तां नारीं धन्याधन्या इति ब्रुवन्
एतद्व्रतं च या नारी न करोति महादरात् ॥ ८४ ॥

जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेत्
इदं या शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥ ८५ ॥

सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः
इमां व्रतकथां या तु न श्रुत्वा क्रियते व्रतम्
तस्या व्रतफलं चैव नश्यत्येव न संशयः ॥ ८६ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे एकादशोऽध्यायः ११