सूत उवाच-
विश्वास-प्रस्तुतिः
ऐरावतस्ततो जज्ञे तथैवोच्चैःश्रवा हयः
धन्वन्तरिः पारिजातः सुरभिश्चाप्सरोदयः ॥ १ ॥
मूलम्

ततः प्रभातसमये द्वादश्यामुदिते रवौ
उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता ॥ २ ॥

ददृशुस्तां महादेवीं मातरं धर्मदेवताः
प्रहृष्टाः सर्वजन्तूनां श्रीकृष्णहृदयालयाम् ॥ ३ ॥

लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः
उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी ॥ ४ ॥

तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः
समेत्य मातरं स्तुत्वा जेपुः श्रीसूक्तमुत्तमम् ॥ ५ ॥

ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह
वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः ॥ ६ ॥

देवा ऊचुः-
प्रसीद कमले देवि सर्वमातर्हरिप्रिये
त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणम् ॥ ७ ॥

इत्युक्ता सा महालक्ष्मीः प्राह नारायणप्रिया
इदानीं सर्वजन्तूनां प्राणरक्षां करोम्यहम् ॥ ८ ॥

ततो नारायणः श्रीमाञ्छङ्खचक्रगदाधरः
आविर्बभूव सहसा दयालुर्जगदीश्वरः ॥ ९ ॥
मूलम्
ततो नारायणः श्रीमाञ्छङ्खचक्रगदाधरः
आविर्बभूव सहसा दयालुर्जगदीश्वरः ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततस्ते तुष्टुवुर्देवाः प्रणम्य जगतां पतिम्
कृताञ्जलिपुटाः प्रोचुः हर्षगद्गदभाषिणः ॥ १० ॥

गृहाण मातरं विष्णो महिषीं वल्लभां तव
संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम्
यावत्प्रतिज्ञां नो चक्रे तावत्प्राहेन्दिरा हरिम् ॥ ११ ॥

लक्ष्मीरुवाच-
अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन
तस्याः कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि
ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते ॥ १२ ॥

इति श्रुत्वा ततो विष्णुर्ददौ चोद्दालकाय च
वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह ॥ १३ ॥

ततो नारायणः श्रीमान्लक्ष्मीमङ्गीचकार ह
ततः सुरगणाः सर्वे नमश्चक्रुः पुनःपुनः ॥ १४ ॥

अथ ते चासुरान्सर्वान्जघ्नुः सर्वे बलाधिकाः
सर्वे ते क्रन्दमानाश्च गताश्चैव दिशो दश ॥ १५ ॥

सुधां तत्खादितुं चक्रुर्देवाः पङ्क्तिं यथाक्रमम्
श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् ॥ १६ ॥

त्वं च देहि त्वं च देहि त्वं च देहीति चाब्रुवन्
न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति चाब्रुवन् ॥ १७ ॥

ततो विष्णुः समुत्तस्थौ स्त्रीरूपं च दधार ह
चकार स्वर्णपात्रे तत्पीयूषपरिवेषणम् ॥ १८ ॥

पीयूषभक्षणं राहुर्यावत्कुर्याद्द्विजोत्तम
चन्द्रसूर्यौ चोक्तवन्तौ राक्षसोऽसौ छलागतः ॥ १९ ॥

ततः क्रुद्धो जगन्नाथो जघान स्वर्णपात्रतः
शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूव ह ॥ २० ॥

राहुकेतू ततस्तूर्णं गतौ तौ भयविह्वलौ
इदानीं तद्दिने प्राप्ते चन्द्रसूर्यौ स युध्यति ॥ २१ ॥

कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेत्
सर्वं गङ्गासमं तोयं वेदव्याससमा द्विजाः ॥ २२ ॥

स्नानं वायसतीर्थे यो गङ्गास्नानफलं लभेत्
दानमक्षयपुण्यं स्यात्कोटिजन्मार्जितं तथा ॥ २३ ॥

पापं नश्येत्समूलं च किं पुनः क्रतुकोटिभिः
विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमाप्यते ॥ २४ ॥

मोक्षार्थी लभते मोक्षं मन्त्रसिद्धिर्भवेद्ध्रुवम्
इति ते कथितं विप्र समुद्रमथनं तु तत् ॥ २५ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकादिकसंवादे समुद्रमथनं
नाम दशमोऽध्यायः १०