००९

सूत उवाच-

विश्वास-प्रस्तुतिः

ततोऽमरगणास्ते च सगन्धर्वाः सदानवा
उत्पाट्य मन्दरं शैलं चिक्षिपुः पयसां निधौ ॥ १ ॥

मूलम्

ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः
अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः ॥ २ ॥

अनन्तं तत्र संवेष्ट्य ममन्थुर्दुग्धसागरम्
एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज ॥ ३ ॥

कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः
ततस्तान्विद्रुतान्दृष्ट्वा शङ्करश्चोक्तवानिदम् ॥ ४ ॥

भोभोऽमरगणा यूयं विषं कुरुतमादरम्
वारयिष्याम्यहं तूर्णं कालकूटं महाविषम् ॥ ५ ॥

इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि
महामन्त्रं समुच्चार्य विषमादद्भयङ्करम् ॥ ६ ॥

महामन्त्रप्रभावेण विषं जीर्णं गतं महत्
अच्युतानन्तगोविन्द इति नामत्रयं हरेः ॥ ७ ॥

योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम्
विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा ॥ ८ ॥

ततो हृष्टमना देवा ममन्थुः क्षीरसागरम्
ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना ॥ ९ ॥

रूक्षपिङ्गलकेशा च जरतीं बिभ्रती तनुम्
सा च ज्येष्ठाब्रवीद्देवान्किङ्कर्तव्यं मयेति वै ॥ १० ॥

देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम्
येषां नॄणां गृहे देवी कलहः सम्प्रवर्तते ॥ ११ ॥

तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता
निष्ठुरं वचनं ये च वदन्ति येऽनृतं नराः ॥ १२ ॥

सन्ध्यायां ये हि चाश्नन्ति दुःखदा तिष्ठ तद्गृहे
कपालकेशभस्मास्थि तुषाङ्गाराणि यत्र तु ॥ १३ ॥

स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः
अकृत्वा पादयोर्धौतं ये चाश्नन्ति नराधमाः ॥ १४ ॥

तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी
वालुकालवणाङ्गारैः कुर्वन्ति दन्तधावनम् ॥ १५ ॥

तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह
छत्राकं श्रीफलं शिष्टं ये खादन्ति नराधमाः ॥ १६ ॥

गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि
तिलपिष्टमलाबुं ये गृञ्जनं पोतिकादलम् ॥ १७ ॥

कलं बुकं पलाण्डुं ये चाश्नन्ति पापबुद्धयः
तेषां गृहे तव स्थानं भविष्यति न संशयः ॥ १८ ॥

गुरु देवातिथीनां च यज्ञदानविवर्जितम्
यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे ॥ १९ ॥

दम्पत्योः कलहो यत्र पितृदेवार्चनं न वै
दुरोदररता यत्र तत्र तिष्ठ सदाशुभे ॥ २० ॥

परदाररता यत्र परद्रव्यापहारिणः
विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते
तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी ॥ २१ ॥

इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम्
क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः ॥ २२ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे समुद्रमथनं
नाम नवमोऽध्यायः ९