००८

शौनक उवाच-

विश्वास-प्रस्तुतिः

समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो
हृदये कौतुकं जातं श्रोतुं मे वद चामरैः ॥ १ ॥

मूलम्

सूत उवाच-
ब्रह्मन्वच्मि समासेन सिन्धोर्मथनकारणम्
दुर्वाससेन्द्र संवादमितिहासं शृणुष्व तत् ॥ २ ॥

महातपा महातेजा दुर्वासा ईश्वरांशजः
ब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा ॥ ३ ॥

तस्मिन्ददर्श काले तं गजारूढंv शचीपतिम्
दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः ॥ ४ ॥

गृहीत्वा तां स्रजं चेन्द्रो विन्यस्य गजमूर्द्धनि
देवराट्प्रययौ ब्रह्मन्ससैन्यो नन्दनं प्रति ॥ ५ ॥

हस्ती चादाय तां मालां छित्त्वा तु धरणीतले
चिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः ॥ ६ ॥

त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसे
तव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः ॥ ७ ॥

ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनः
ददर्श जगतां माता चान्तर्द्धानं गता स्वयम् ॥ ८ ॥

नष्टमन्तर्द्धानवत्यां तदा तस्यां जगत्त्रयम्
क्षुत्पिपासान्विताः सर्वे चुक्रुशुर्वै निरन्तरम् ॥ ९ ॥

न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाः
सर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः ॥ १० ॥

क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुः
तं सर्वे कथयामासुः दुःखशोकं पितामहम् ॥ ११ ॥

देवानां वचनं श्रुत्वा धाता देवगणैः सह
भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् ॥ १२ ॥

विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे
मन्त्रमष्टाक्षरं वेधा जपन्ध्यायन्जगत्पतिम् ॥ १३ ॥

ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम्
वैनतेयं समारुह्य चागतः सदयः प्रभुः ॥ १४ ॥

पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम्
दृष्ट्वा तं जगतामीशं पुण्डरीकनिभेक्षणम् ॥ १५ ॥

विष्णुं भवोदधेः पोतं वनमालाविभूषितम्
श्रीवत्सकौस्तुभोरस्कमानन्दाश्रुपरिप्लुताः ॥ १६ ॥

तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरन्तरम्
श्रीभगवानुवाच-
वरं वृणीध्वं भो देवाः कस्माद्यूयं समागताः
वरदोऽस्मि तद्वदत वो ददामि च नान्यथा ॥ १७ ॥

देवा ऊचुः-
कृपालो ब्रह्मशापेन सम्पद्धीनं जगत्त्रयम्
क्षुत्पिपासार्दितं नाथ सदेवासुरमानुषम् ॥ १८ ॥

रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तव
श्रीभगवानुवाच-
इन्दिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः ॥ १९ ॥

यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम्
तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतम् ॥ २० ॥

मन्दरं घर्घरं कृत्वा सर्पराजेन वेष्टितम्
कुरुध्वं मथनं देवाः सदैत्याः क्षीरसागरम् ॥ २१ ॥

तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः
तया हृष्टा महाभागा भविष्यथ न संशयः ॥ २२ ॥

धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः
इत्युक्त्वा भगवान्विष्णुरन्तर्द्धानं जगाम सः
जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज ॥ २३ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे समुद्रमथनोद्योगोनामाष्टमोऽध्यायः ८