शौनक उवाच-
विश्वास-प्रस्तुतिः
कथयस्व महाप्राज्ञ गोलोकं याति कर्मणा
सुमते दुस्तरात्केन जनः संसारसागरात्
राधायाश्चाष्टमी सूत तस्या माहात्म्यमुत्तमम् ॥ १ ॥
मूलम्

सूत उवाच-
ब्रह्माणं नारदोऽपृच्छत्पुरा चैतन्महामुने
तच्छृणुष्व समासेन पृष्टवान्स इति द्विज ॥ २ ॥

नारद उवाच-
पितामह महाप्राज्ञ सर्वशास्त्रविदां वर
राधाजन्माष्टमी तात कथयस्व ममाग्रतः ॥ ३ ॥

तस्याः पुण्यफलं किंवा कृतं केन पुरा विभो
अकुर्वतां जनानां हि किल्बिषं किं भवेद्द्विज ॥ ४ ॥

केनैव तु विधानेन कर्त्तव्यं तद्व्रतं कदा
कस्माज्जाता च सा राधा तन्मे कथय मूलतः ॥ ५ ॥

ब्रह्मोवाच-
राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः
कथयामि समासेन समग्रं हरिणा विना ॥ ६ ॥
मूलम्
ब्रह्मोवाच-
राधाजन्माष्टमीं वत्स शृणुष्व सुसमाहितः
कथयामि समासेन समग्रं हरिणा विना ॥ ६ ॥
विश्वास-प्रस्तुतिः
कथितुं तत्फलं पुण्यं न शक्नोत्यपि नारद
कोटिजन्मार्जितं पापं ब्रह्महत्यादिकं महत् ॥ ७ ॥

कुर्वन्ति ये सकृद्भक्त्या तेषां नश्यति तत्क्षणात्
एकादश्याः सहस्रेण यत्फलं लभते नरः ॥ ८ ॥

राधाजन्माष्टमी पुण्यं तस्माच्छतगुणाधिकम्
मेरुतुल्यसुवर्णानि दत्वा यत्फलमाप्यते ॥ ९ ॥

सकृद्राधाष्टमीं कृत्वा तस्माच्छतगुणाधिकम्
कन्यादानसहस्रेण यत्पुण्यं प्राप्यते जनैः ॥ १० ॥

वृषभानुसुताष्टम्या तत्फलं प्राप्यते जनैः
गङ्गादिषु च तीर्थेषु स्नात्वा तु यत्फलं लभेत् ॥ ११ ॥

कृष्णप्राणप्रियाष्टम्याः फलं प्राप्नोति मानवः
एतद्व्रतं तु यः पापी हेलया श्रद्धयापि वा ॥ १२ ॥

करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः
पुरा कृतयुगे वत्स वरनारी सुशोभना ॥ १३ ॥
मूलम्
करोति विष्णुसदनं गच्छेत्कोटिकुलान्वितः
पुरा कृतयुगे वत्स वरनारी सुशोभना ॥ १३ ॥
विश्वास-प्रस्तुतिः
सुमध्या हरिणीनेत्रा शुभाङ्गी चारुहासिनी
सुकेशी चारुकर्णी च नाम्ना लीलावती स्मृता ॥ १४ ॥

तया बहूनि पापानि कृतानि सुदृढानि च
एकदा साधनाकाङ्क्षी निःसृत्य पुरतः स्वतः ॥ १५ ॥

गतान्यनगरं तत्र दृष्ट्वा सुज्ञ जनान्बहून्
राधाष्टमीव्रतपरान्सुन्दरे देवतालये ॥ १६ ॥

गन्धपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः
भक्तिभावैः पूजयन्तो राधाया मूर्तिमुत्तमाम् ॥ १७ ॥

केचिद्गायन्ति नृत्यन्ति पठन्ति स्तवमुत्तमम्
तालवेणुमृदङ्गांश्च वादयन्ति च के मुदा ॥ १८ ॥

तांस्तांस्तथाविधान्दृष्ट्वा कौतूहलसमन्विता
जगाम तत्समीपं सा पप्रच्छ विनयान्विता ॥ १९ ॥

भोभोः पुण्यात्मानो यूयं किं कुर्वन्तो मुदान्विताः
कथयध्वं पुण्यवन्तो मां चैव विनयान्विताम् ॥ २० ॥

तस्यास्तु वचनं श्रुत्वा परकार्यहितेरताः
आरेभिरे तदा वक्तुं वैष्णवा व्रततत्पराः ॥ २१ ॥

राधाव्रतिन ऊचुः-
भाद्रे मासि सिताष्टम्यां जाता श्रीराधिका यतः
अष्टमी साद्य सम्प्राप्ता तां कुर्वाम प्रयत्नतः ॥ २२ ॥

गोघातजनितं पापं स्तेयजं ब्रह्मघातजम्
परस्त्रीहरणाच्चैव तथा च गुरुतल्पजम् ॥ २३ ॥

विश्वासघातजं चैव स्त्रीहत्याजनितं तथा
एतानि नाशयत्याशु कृता या चाष्टमी नृणाम् ॥ २४ ॥

तेषां च वचनं श्रुत्वा सर्वपातकनाशनम्
करिष्याम्यहमित्येव परामृष्य पुनः पुनः ॥ २५ ॥

तत्रैव व्रतिभिः सार्द्धं कृत्वा सा व्रतमुत्तमम्
दैवात्सा पञ्चतां याता सर्पघातेन निर्मला ॥ २६ ॥

ततो यमाज्ञया दूताः पाशमुद्गरपाणयः
आगतास्तां समानेतुं बबन्धुरतिकृच्छ्रतः ॥ २७ ॥

यदा नेतुं मनश्चक्रुर्यमस्य सदनं प्रति
तदागता विष्णुदूताः शङ्खचक्रगदाधराः ॥ २८ ॥

हिरण्मयं विमानं च राजहंसयुतं शुभम्
छेदनं चक्रधाराभिः पाशं कृत्वा त्वरान्विताः ॥ २९ ॥

रथे चारोपयामासुस्तां नारीं गतकिल्बिषाम्
निन्युर्विष्णुपुरं ते च गोलोकाख्यं मनोहरम् ॥ ३० ॥

कृष्णेन राधया तत्र स्थिता व्रतप्रसादतः
राधाष्टमीव्रतं तात यो न कुर्य्याच्च मूढधीः ॥ ३१ ॥

नरकान्निष्कृतिर्नास्ति कोटिकल्पशतैरपि
स्त्रियश्च या न कुर्वन्ति व्रतमेतच्छुभप्रदम् ॥ ३२ ॥

राधाविष्णोः प्रीतिकरं सर्वपापप्रणाशनम्
अन्ते यमपुरीं गत्वा पतन्ति नरके चिरम् ॥ ३३ ॥

कदाचिज्जन्मचासाद्य पृथिव्यां विधवा ध्रुवम्
एकदा पृथिवी वत्स दुष्टसङ्घैश्च ताडिता ॥ ३४ ॥

गौर्भूत्वा च भृशं दीना चाययौ सा ममान्तिकम्
निवेदयामास दुःखं रुदन्ती च पुनः पुनः ॥ ३५ ॥

तद्वाक्यं च समाकर्ण्य गतोऽहं विष्णुसन्निधिम्
कृष्णे निवेदितश्चाशु पृथिव्या दुःखसञ्चयः ॥ ३६ ॥

तेनोक्तं गच्छ भो ब्रह्मन्देवैः सार्द्धं च भूतले
अहं तत्रापि गच्छामि पश्चान्ममगणैः सह ॥ ३७ ॥

तच्छ्रुत्वा सहितो दैवैरागतः पृथिवीतलम्
ततः कृष्णः समाहूय राधां प्राणगरीयसीम् ॥ ३८ ॥

उवाच वचनं देवि गच्छेहं पृथिवीतलम्
पृथिवीभारनाशाय गच्छ त्वं मर्त्त्यमण्डलम् ॥ ३९ ॥

इति श्रुत्वापि सा राधाप्यागता पृथिवीं ततः
भाद्रे मासि सिते पक्षे अष्टमीसञ्ज्ञिके तिथौ ॥ ४० ॥

वृषभानो र्यज्ञभूमौ जाता सा राधिका दिवा
यज्ञार्थं शोधितायां च दृष्टा सा दिव्यरूपिणी ॥ ४१ ॥

राजानं दमना भूत्वा तां प्राप्य निजमन्दिरम्
दत्तवान्महिषीं नीत्वा सा च तां पर्यपालयत् ॥ ४२ ॥

इति ते कथितं वत्स त्वया पृष्टं च यद्वचः
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ४३ ॥

य इदं शृणुयाद्भक्त्या चतुर्वर्गफलप्रदम्
सर्वपापविनिर्मुक्तश्चान्तेयातिहरेर्गृहम् ॥ ४४ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे श्रीराधाष्टमीमाहात्म्यं
नाम सप्तमोऽध्यायः ७