शौनक उवाच-
विश्वास-प्रस्तुतिः
केन पुण्येन भो सूत वैकुण्ठं समवाप्यते
तद्वदस्व शृण्वतो मे पोतो हि भवसागरे ॥ १ ॥
मूलम्

सूत उवाच-
साधुसाधु मुनिश्रेष्ठ सर्वमङ्गलकारक
कथयामि समासेन शृण्वतां पापनाशनम् ॥ २ ॥
मूलम्
सूत उवाच-
साधुसाधु मुनिश्रेष्ठ सर्वमङ्गलकारक
कथयामि समासेन शृण्वतां पापनाशनम् ॥ २ ॥
विश्वास-प्रस्तुतिः
विष्णवे ब्राह्मणायैव मृदावेश्मविनिर्मितम्
यो वै दद्याद्द्विजश्रेष्ठ तस्य पुण्यं निशामय ॥ ३ ॥

विष्णुलोके च स विप्रः सर्वपापविवर्जितः
सौधवासी भवेन्नित्यं विष्णुलोके प्रपूज्यते ॥ ४ ॥

विष्णवे सौधगेहं यो दद्याद्वै ब्राह्मणाय च
हरेर्न्निकेतनं प्राप्य स्वर्गवासी भवेद्ध्रुवम् ॥ ५ ॥

अन्ते विष्णुपुरं गत्वा युक्तः कोटिकुलैर्द्विज
स्वर्णसौधे गृहे स्थित्वा कुर्याद्भोगं यथासुखम् ॥ ६ ॥

ब्राह्मणस्थापने पुण्यं यद्वै भवति भो मुने
सङ्ख्यां कर्तुमशक्तस्तु तद्वेधाः सर्वकारकः ॥ ७ ॥

गण्यन्ते रेणवश्चैव गण्यन्ते वृष्टिबिन्दवः
न गण्यन्ते विधात्रापि ब्रह्मसंस्थापने फलम् ॥ ८ ॥

नारदेन पुरा ब्रह्मा पृष्टः संसारसम्भवः
वेधास्तं कथयामास तच्छृणुष्व महामुने ॥ ९ ॥

पुरासीद्द्वापरे ब्रह्मन्वारनारी सुशोभना
सुकेशी हरिणीनेत्रा सुमध्या चारुहासिनी ॥ १० ॥

नाम्ना सा चञ्चलापाङ्गी ययौ देशान्तरं कदा
सर्वपापसमायुक्ता नरके पातयन्ति च ॥ ११ ॥

सङ्गेन सिन्धुनाकाङ्क्षी जनान्देवालयं गता
तत्र क्षणं सोपविष्टा ताम्बूलभक्षणं कृतम् ॥ १२ ॥

शेषं चूर्णं सौधभित्तौ दत्वा निम्ने कुतूहलात्
ततो गता जारकाङ्क्षी धनार्थं नगरं प्रति ॥ १३ ॥

जारेण केनचित्सार्द्धं सङ्केतः सहसा कृतः
सङ्केतं तु गता वेश्या वनं रात्रौ विमोहिता ॥ १४ ॥

सङ्केतं नागतो वैश्यो व्यशङ्किष्टविलोकिता
कथं कान्तो नागतो मे सर्पव्याघ्रैश्च भक्षितः ॥ १५ ॥

सङ्केतनं कथं हित्वा गतः किं कामविह्वलः
अन्यया ज्ञातया सार्द्धमभिलाषी भवेत्किमु ॥ १६ ॥

परामृष्यैतद्हृद्यन्तः कोटपालभयाद्द्विज
नगरं नागता सा हि रुद्धे लोकपथे तमैः ॥ १७ ॥

एतस्मिन्नन्तरे व्याघ्रः कामरूपी बलात्क्षुधी
प्रेषितः कालदेवेनाग्रसदागत्य तां द्विज ॥ १८ ॥

ततस्तु यमुनाभ्रातुर्दूतास्ते भीमवर्षिणः
आगता गिरिकूटाङ्गा नेतुं तां पापकर्मणा ॥ १९ ॥

वक्रपादा वक्रमुखा उन्नासा बहुदंष्ट्रिणः
चर्मरज्जूर्मुद्गरांश्च गृहीत्वा पांशुलां द्विज ॥ २० ॥

बन्धयामासुरुन्मत्ता गणिकां चर्मरज्जुभिः
शङ्खचक्रगदापद्मधारिणो वनमालिनः ॥ २१ ॥
मूलम्
बन्धयामासुरुन्मत्ता गणिकां चर्मरज्जुभिः
शङ्खचक्रगदापद्मधारिणो वनमालिनः ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रेषिता देवदेवेन तद्भक्तवत्सलेन च
कृष्णजीमूतसङ्काशाः स्फुरद्वदनपङ्कजाः ॥ २२ ॥

श्रेणीधराश्चारुनासा दिव्यकुण्डलभूषिताः
ददृशुः पथि गच्छन्तो विष्णोर्दूतामहात्मनः ॥ २३ ॥

विष्णुदूता ऊचुः-
के यूयं विकृताकारा लक्ष्यन्ते कर्बुरा इव
इमां विष्णोः प्रियतमां नीत्वा क्व व्रजथोत्तमाम्
इदं वचनमाकर्ण्य तेषां ते तु द्रुतं ययुः ॥ २४ ॥

अथ ते क्रोधसम्पन्ना विष्णोर्दूता महाबलाः
जघ्नुस्ते सन्देशहरान्यमस्य जगतः प्रभोः ॥ २५ ॥

चक्रादिशस्त्रसङ्घैश्च सूर्यकोटिसमप्रभैः
कृतान्तस्य भटाः सर्वे रुदन्तस्ते पलायिताः ॥ २६ ॥

यमं प्रोचुः सभीताश्च वृत्तान्तं सकलं द्विज
यमोऽपि तत्कथां श्रुत्वा चित्रगुप्तमुवाच ह ॥ २७ ॥

धर्म उवाच-
केन पुण्येन भो मन्त्रिन्वेश्या मुक्तिं समागता
एतन्मे पृच्छत सर्वं कथयस्व यथार्हतः ॥ २८ ॥

चित्रगुप्त उवाच-
तया पापान्यर्जितानि जन्मतः सुबहून्यपि
किन्त्वाकर्णय लोकेश यदि स्यात्पुण्यमस्ति तत् ॥ २९ ॥

गणिकैकदा धर्मराज सर्वालङ्कारभूषिता
काञ्चित्पुरीं जगामाशु जारकाङ्क्षी धनार्थिनी ॥ ३० ॥

तत्र देवालये तस्मिन्स्थित्वा ताम्बूलभक्षणं
कृत्वा तच्छेषचूर्णं तु ददौ भित्तौ तु कौतुकात् ॥ ३१ ॥

तेन पुण्यप्रभावेण गणिका गतपातका
वैकुण्ठं प्रति सा याति निर्गता तव दण्डतः ॥ ३२ ॥

इति श्रुत्वा ततो दूता यमोऽपि वचनं द्विज
व्यापारे चान्यतश्चित्तं ददौ सा गणिकापि च ॥ ३३ ॥

आरूढा स्यन्दने दिव्ये राजहंसयुते तथा
विष्णुलोकं ययौ सा च वेष्टिता विष्णुकिङ्करैः ॥ ३४ ॥

श्रीविष्णोराज्ञया साथ कुलकोटियुतापि च
तस्थौ सौधगृहे विप्र नानाभोगं चकार ह ॥ ३५ ॥

भक्त्या यो वै हरेर्गेहे दद्याच्चूर्णं प्रयत्नतः
पुण्यं किं वा भवेत्तस्य न जाने द्विजपुङ्गव ॥ ३६ ॥

भक्त्याध्यायं पठेद्यो वै शृणोति सादरेण च
सर्वपापविनिर्मुक्तो यात्यसौ हरिमन्दिरम् ॥ ३७ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे षष्ठोऽध्यायः ६