००५

शौनक उवाच-

विश्वास-प्रस्तुतिः

कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत्
कर्मणा केन वै सूत पुत्रो भवति केन च ॥ १ ॥

मूलम्

सूत उवाच-
एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मना
स यदाह तदा तं च शृणुष्व मुनिपुङ्गव ॥ २ ॥

नारद उवाच-
पितामह महाप्राज्ञ सर्वतत्त्वार्थपारग
अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ॥ ३ ॥

वन्ध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतः
कथय शृण्वतो वै मे सर्वप्राणिहिते रत ॥ ४ ॥

दुहिता जायते केन कर्मणा वा नपुंसकः
मृतवत्सो भवेत्केन मृतवत्सातिदुःखिता
केन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद ॥ ५ ॥

ब्रह्मोवाच-
कथयामि समासेन सावधानेन तच्छ्रणु
वृत्तान्तं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम् ॥ ६ ॥

पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च
हरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल ॥ ७ ॥

इह जन्मनि यो मर्त्यः पुराणश्रवणं हि च
ससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः ॥ ८ ॥

धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम्
सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् ॥ ९ ॥

पूर्वजन्मनि या नारी परबालकघातनम्
करोति कपटेनैव बालहीना भवेद्ध्रुवम् ॥ १० ॥

सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता
कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ॥ ११ ॥

पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम्
बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः ॥ १२ ॥

जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत्
इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम् ॥ १३ ॥

वृषभं चैव कूष्माण्डं ससुवर्णं सवस्त्रकम्
दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम् ॥ १४ ॥

गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यः
पुत्रो वै जायते तस्य सर्वपातकनाशनम् ॥ १५ ॥

पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विज
कुर्यात्क्रोधेन दण्डं च पुत्रहीनो भवेद्ध्रुवम् ॥ १६ ॥

ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम्
अन्नदानं जलं चैव तथा देवालयं शुभम् ॥ १७ ॥

पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः
कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् ॥ १८ ॥

या नारी स्वामिसहिता कुर्याच्च हरिवासरम्
सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि ॥ १९ ॥

यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितः
ब्राह्मणीहरणं वापि कर्मणा स नपुंसकः ॥ २० ॥

इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यः
इह पुण्यप्रभावेण दुहिता जायते द्विज ॥ २१ ॥

आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विज
अपुत्रो धनवांस्तस्य जाया हेमप्रभावती ॥ २२ ॥

व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम्
आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज ॥ २३ ॥

उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम्
राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः ॥ २४ ॥

राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौ
पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् ॥ २५ ॥

व्यास उवाच-
राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा
तवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा ॥ २६ ॥

पूर्वजन्मनि चन्द्रस्त्वं नाम्ना वरतनु स्मृतः
भार्या तवापि शुभ्राङ्गी नाम्ना वै शङ्करी स्मृता ॥ २७ ॥

एकदा पथियातौ च नीचपुत्रं जलेपि च
मग्नं दृष्ट्वा हेलया च गतौ स पञ्चतां गतः ॥ २८ ॥

बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम्
तेन कर्मविपाकेन युवायोर्न भवेत्सुतः ॥ २९ ॥

राजोवाच-
इदानीं केन पुण्येन सुतो वै जायते प्रभो
अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ॥ ३० ॥

सवस्त्रं चैव कूष्माण्डं वृषभं ससुवर्णकम्
देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा ॥ ३१ ॥

गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु
पुत्रो वै जायते तत्र सर्वपातकनाशनम् ॥ ३२ ॥

इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम्
पुराणश्रवणं चैव चकार गतकिल्बिषः ॥ ३३ ॥

ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः
अभूद्राजा सार्वभौमः सुन्दरः कुलनायकः ॥ ३४ ॥

य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम्
अपुत्रो लभते पुत्रं सङ्क्षेपात्कथितं मया ॥ ३५ ॥

भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम्
सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज ॥ ३६ ॥

सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चन्दनम्
यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ॥ ३७ ॥

पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः
तस्य क्रूरो भवेत्पुत्रः सप्तजन्मान्तरैर्द्विजः ॥ ३८ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे कर्मविपाककथनं
नाम पञ्चमोऽध्यायः ५