शौनक उवाच-
विश्वास-प्रस्तुतिः
जयन्त्याः सूत माहात्म्यं कदा सा क्रियते जनैः
कथयस्व मयि त्वं वै पोतः संसारसागरे ॥ १ ॥
मूलम्
जयन्त्याः सूत माहात्म्यं कदा सा क्रियते जनैः
कथयस्व मयि त्वं वै पोतः संसारसागरे ॥ १ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम
पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये ॥ २ ॥
मूलम्
सूत उवाच-
शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम
पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये ॥ २ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
जयन्त्याश्चैव माहात्म्यं कथयस्व पितामह
यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ॥ ३ ॥
मूलम्
नारद उवाच-
जयन्त्याश्चैव माहात्म्यं कथयस्व पितामह
यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम्
जयन्त्या उपवासेन विष्णुलोकं स गच्छति ॥ ४ ॥
मूलम्
ब्रह्मोवाच-
शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम्
जयन्त्या उपवासेन विष्णुलोकं स गच्छति ॥ ४ ॥
विश्वास-प्रस्तुतिः
स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने
जयन्ती दहते तच्च किं पुनः सोपवासकृत् ॥ ५ ॥
मूलम्
स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने
जयन्ती दहते तच्च किं पुनः सोपवासकृत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा
कृष्णा चतुर्दशी कुम्भे मेषे शुक्ला चतुर्दशी ॥ ६ ॥
मूलम्
जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा
कृष्णा चतुर्दशी कुम्भे मेषे शुक्ला चतुर्दशी ॥ ६ ॥
विश्वास-प्रस्तुतिः
दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता
महापुण्याश्च शुभदा जयन्त्यः षट्प्रकीर्तिताः ॥ ७ ॥
मूलम्
दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता
महापुण्याश्च शुभदा जयन्त्यः षट्प्रकीर्तिताः ॥ ७ ॥
विश्वास-प्रस्तुतिः
कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी
क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा ॥ ८ ॥
मूलम्
कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी
क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा ॥ ८ ॥
विश्वास-प्रस्तुतिः
कर्ता गवां सहस्रं तु यो ददाति दिनेदिने
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ९ ॥
मूलम्
कर्ता गवां सहस्रं तु यो ददाति दिनेदिने
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ९ ॥
विश्वास-प्रस्तुतिः
हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १० ॥
मूलम्
हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १० ॥
विश्वास-प्रस्तुतिः
कृष्णाजिनसहस्राणि तिलधेनुशतानि च
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ११ ॥
मूलम्
कृष्णाजिनसहस्राणि तिलधेनुशतानि च
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ११ ॥
विश्वास-प्रस्तुतिः
कन्याकोटिसहस्राणां दाने भवति यत्फलम्
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १२ ॥
मूलम्
कन्याकोटिसहस्राणां दाने भवति यत्फलम्
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १२ ॥
विश्वास-प्रस्तुतिः
ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम्
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १३ ॥
मूलम्
ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम्
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १३ ॥
विश्वास-प्रस्तुतिः
वापीकूपतडागदि कर्तव्यं देवतालये
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १४ ॥
मूलम्
वापीकूपतडागदि कर्तव्यं देवतालये
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १४ ॥
विश्वास-प्रस्तुतिः
मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १५ ॥
मूलम्
मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १५ ॥
विश्वास-प्रस्तुतिः
आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम्
सत्यव्रतानां यत्पुण्यं जयन्त्यां समुपोषणे ॥ १६ ॥
मूलम्
आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम्
सत्यव्रतानां यत्पुण्यं जयन्त्यां समुपोषणे ॥ १६ ॥
विश्वास-प्रस्तुतिः
गङ्गायां नर्मदायां यत्पुण्यं सारस्वते जले
स्नात्वा पुण्यमवाप्नोति जयन्त्यां समुपोषणे ॥ १७ ॥
मूलम्
गङ्गायां नर्मदायां यत्पुण्यं सारस्वते जले
स्नात्वा पुण्यमवाप्नोति जयन्त्यां समुपोषणे ॥ १७ ॥
विश्वास-प्रस्तुतिः
यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिन्दुसङ्क्षये
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १८ ॥
मूलम्
यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिन्दुसङ्क्षये
तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ १८ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
केनकेन कृता पूर्वं कथयस्व पितामह
ब्रह्मोवाच-
कार्तवीर्येण कर्णेन कुमारेण च धीमता ॥ १९ ॥
मूलम्
नारद उवाच-
केनकेन कृता पूर्वं कथयस्व पितामह
ब्रह्मोवाच-
कार्तवीर्येण कर्णेन कुमारेण च धीमता ॥ १९ ॥
विश्वास-प्रस्तुतिः
सगरेण दिलीपेन काकुस्थेन कृता पुरा
गौतमेन च गार्ग्येण जामदग्न्येन धीमता ॥ २० ॥
मूलम्
सगरेण दिलीपेन काकुस्थेन कृता पुरा
गौतमेन च गार्ग्येण जामदग्न्येन धीमता ॥ २० ॥
विश्वास-प्रस्तुतिः
वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना
ददाति वाञ्छितान्कामान्भाद्रपस्य सिताष्टमी ॥ २१ ॥
मूलम्
वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना
ददाति वाञ्छितान्कामान्भाद्रपस्य सिताष्टमी ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी
वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः ॥ २२ ॥
मूलम्
प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी
वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः ॥ २२ ॥
विश्वास-प्रस्तुतिः
कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते
रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेन्द्रियः ॥ २३ ॥
मूलम्
कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते
रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेन्द्रियः ॥ २३ ॥
विश्वास-प्रस्तुतिः
गन्धपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक्
एवं यः कुरुते विप्र जयन्तीसमुपोषणम् ॥ २४ ॥
मूलम्
गन्धपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक्
एवं यः कुरुते विप्र जयन्तीसमुपोषणम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् ॥ २५ ॥
मूलम्
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते
जयन्तीतिथिसम्प्राप्तौ भुञ्जते ये नराधमाः ॥ २६ ॥
मूलम्
प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते
जयन्तीतिथिसम्प्राप्तौ भुञ्जते ये नराधमाः ॥ २६ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यसम्भवं पापं भुञ्जते ते न संशयः
सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः ॥ २७ ॥
मूलम्
त्रैलोक्यसम्भवं पापं भुञ्जते ते न संशयः
सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः ॥ २७ ॥
विश्वास-प्रस्तुतिः
गृहे तिष्ठन्ति सर्वाङ्गे जयन्तीव्रतकारिणः
तस्य सर्वाणि तीर्थानि देहे तिष्ठन्ति देवताः ॥ २८ ॥
मूलम्
गृहे तिष्ठन्ति सर्वाङ्गे जयन्तीव्रतकारिणः
तस्य सर्वाणि तीर्थानि देहे तिष्ठन्ति देवताः ॥ २८ ॥
विश्वास-प्रस्तुतिः
करोति यो नरो भक्त्या जयन्तीं कृष्णवल्लभाम्
न वेदेन पुराणेन मया दृष्टं महामुने ॥ २९ ॥
मूलम्
करोति यो नरो भक्त्या जयन्तीं कृष्णवल्लभाम्
न वेदेन पुराणेन मया दृष्टं महामुने ॥ २९ ॥
विश्वास-प्रस्तुतिः
तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम्
न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ॥ ३० ॥
मूलम्
तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम्
न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यो नरोऽश्नाति मूढात्मा जयन्तीवासरे द्विज
महानरकमश्नाति यथा च हरिवासरे ॥ ३१ ॥
मूलम्
यो नरोऽश्नाति मूढात्मा जयन्तीवासरे द्विज
महानरकमश्नाति यथा च हरिवासरे ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अतीतमागतं यस्तु कुलमेकोत्तरं शतम्
पतेत्तु नरके घोरे जयन्त्यां भोजनेन वै ॥ ३२ ॥
मूलम्
अतीतमागतं यस्तु कुलमेकोत्तरं शतम्
पतेत्तु नरके घोरे जयन्त्यां भोजनेन वै ॥ ३२ ॥
विश्वास-प्रस्तुतिः
जयन्ती बुधवारे च रोहिण्या सहिता यदा
भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः ॥ ३३ ॥
मूलम्
जयन्ती बुधवारे च रोहिण्या सहिता यदा
भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे
कृता सम्यग्विधानेन जयन्ती पापनाशिनी ॥ ३४ ॥
मूलम्
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे
कृता सम्यग्विधानेन जयन्ती पापनाशिनी ॥ ३४ ॥
विश्वास-प्रस्तुतिः
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः
आजन्मोपार्जितं पापं दहते तूलराशिवत् ॥ ३५ ॥
मूलम्
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः
आजन्मोपार्जितं पापं दहते तूलराशिवत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
यः शृणोति नरो भक्त्या पुराणं हरिवासरे
कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ॥ ३६ ॥
मूलम्
यः शृणोति नरो भक्त्या पुराणं हरिवासरे
कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने
कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते ॥ ३७ ॥
मूलम्
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने
कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते ॥ ३७ ॥
विश्वास-प्रस्तुतिः
जयन्त्यामुपवासेन यो नरोऽत्र पराङ्मुखः
सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम् ॥ ३८ ॥
मूलम्
जयन्त्यामुपवासेन यो नरोऽत्र पराङ्मुखः
सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
गन्धपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः
पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम् ॥ ३९ ॥
मूलम्
गन्धपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः
पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
विधिनानेन यो विप्र जयन्तीं प्रकरोति च
नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ॥ ४० ॥
मूलम्
विधिनानेन यो विप्र जयन्तीं प्रकरोति च
नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे
सन्ततेर्न विरोधं च न पश्यति धनक्षयम् ॥ ४१ ॥
मूलम्
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे
सन्ततेर्न विरोधं च न पश्यति धनक्षयम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यान्यांश्चिकीर्षते कामान्जयन्ती समुपोषकः
तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति ॥ ४२ ॥
मूलम्
यान्यांश्चिकीर्षते कामान्जयन्ती समुपोषकः
तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति ॥ ४२ ॥
विश्वास-प्रस्तुतिः
विष्णुभक्तिपरा नित्यं जयन्तीव्रत मानसाः
ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पण्डिताः ॥ ४३ ॥
मूलम्
विष्णुभक्तिपरा नित्यं जयन्तीव्रत मानसाः
ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पण्डिताः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
यानि कानि च तीर्थानि व्रतानि नियमानि च
जयन्तीवासरस्यैव कलां नार्हन्ति षोडशीम् ॥ ४४ ॥
मूलम्
यानि कानि च तीर्थानि व्रतानि नियमानि च
जयन्तीवासरस्यैव कलां नार्हन्ति षोडशीम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः
राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् ॥ ४५ ॥
मूलम्
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः
राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
व्रतं च पुण्यकारं च यः करोति सदा हरेः
स याति विष्णोर्वैकुण्ठं जयन्तीसमुपोषकः ॥ ४६ ॥
मूलम्
व्रतं च पुण्यकारं च यः करोति सदा हरेः
स याति विष्णोर्वैकुण्ठं जयन्तीसमुपोषकः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम्
नाशयत्याशु पापं च जयन्ती हरिवल्लभा ॥ ४७ ॥
मूलम्
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम्
नाशयत्याशु पापं च जयन्ती हरिवल्लभा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च
स निर्दहति सर्वाणि जयन्त्यां समुपोषकः ॥ ४८ ॥
मूलम्
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च
स निर्दहति सर्वाणि जयन्त्यां समुपोषकः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
मोक्षार्थी लभते मोक्षं जयन्त्यां समुपोषकः ॥ ४९ ॥
मूलम्
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
मोक्षार्थी लभते मोक्षं जयन्त्यां समुपोषकः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
जयन्तीकरणे चित्तं येषां भवति तत्परम्
यमोऽपि शङ्कते नित्यं ते यान्ति परमां गतिम् ॥ ५० ॥
मूलम्
जयन्तीकरणे चित्तं येषां भवति तत्परम्
यमोऽपि शङ्कते नित्यं ते यान्ति परमां गतिम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
कथयित्वा नारदं तु ययौ स च यथागतः
मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ॥ ५१ ॥
मूलम्
सूत उवाच-
कथयित्वा नारदं तु ययौ स च यथागतः
मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ॥ ५१ ॥
विश्वास-प्रस्तुतिः
माहात्म्यं च जयन्त्या ये शृण्वन्ति भक्तिभावतः
तेपि यान्ति परं धाम विमुक्ताः सर्वपातकैः ॥ ५२ ॥
मूलम्
माहात्म्यं च जयन्त्या ये शृण्वन्ति भक्तिभावतः
तेपि यान्ति परं धाम विमुक्ताः सर्वपातकैः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पुराणवाचकं ब्रह्मन्जयन्तीव्रतिनं तथा
ये पश्यन्ति नराः पापास्ते यान्ति परमं पदम् ॥ ५३ ॥
मूलम्
पुराणवाचकं ब्रह्मन्जयन्तीव्रतिनं तथा
ये पश्यन्ति नराः पापास्ते यान्ति परमं पदम् ॥ ५३ ॥
इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे ब्रह्मनारदसंवादे जयन्तीव्रतमाहात्म्यं
नाम चतुर्थोऽध्यायः ४