शौनक उवाच-
विश्वास-प्रस्तुतिः
कार्त्तिकस्य च माहात्म्यं ब्रूहि सूत ममाग्रतः
तद्व्रतस्य फलं किं वा दोषं किं तदकुर्वतः ॥ १ ॥
मूलम्

सूत उवाच-
पुरैकदा मुनिश्रेष्ठ व्यासं सत्यवतीसुतम्
जैमिनिः पृष्टवानेतदारेभे कथितं मुनिः ॥ २ ॥

व्यास उवाच-
तिलतैलं मैथुनं यः शुभदे कार्त्तिके त्यजेत्
बहुजन्मकृतैःपापैर्मुक्तो याति हरेर्गृहम् ॥ ३ ॥

मत्स्यं च मैथुनं यो वै कार्त्तिके न परित्यजेत्
प्रतिजन्मनि सम्मूढः शूकरश्च भवेद्ध्रुवम् ॥ ४ ॥

कार्त्तिके तुलसीपत्रैः पूजयेद्वै जनार्दनम्
पत्रेपत्रेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ ५ ॥

कार्त्तिके मुनिपुष्पैर्यः पूजयेन्मधुसूदनम्
देवानां दुर्लभं मोक्षं प्राप्नोति कृपया हरेः ॥ ६ ॥

कार्त्तिके मुनिशाकं वै योऽश्नाति च नरोत्तमः
संवत्सरकृतं पापं शाकेनैकेन नश्यति ॥ ७ ॥

फलं तस्य नरोऽश्नाति चोर्जे यो वै हरिप्रिये
प्रदत्त्वा तु हरेर्ब्रह्मन्वृजिनं कोटिजन्मजम् ॥ ८ ॥

सुरसं सर्पिषायुक्तं दद्याद्यो हरयेपि च
सर्वपापैर्विनिर्मुक्तः स गच्छेद्धरिमन्दिरम् ॥ ९ ॥

कार्तिके यो नरो दद्यादेकपद्मं हरावपि
अन्ते विष्णुपदं गच्छेत्सर्वपापविवर्जितः ॥ १० ॥

प्रातःस्नानं नरो यो वै कार्तिके श्रीहरिप्रिये
करोतिसर्वतीर्थेषुयत्स्नात्वातत्फलंलभेत् ॥ ११ ॥

कार्तिके यो नरो दद्यात्प्रदीपं नभसि द्विजः
विप्रहत्यादिभिः पापैर्मुक्तो गच्छेद्धरेर्गृहम् ॥ १२ ॥

मुहूर्तमपि यो दद्यात्कार्त्तिके प्रीतये हरेः
दीपं नभसि विप्रेन्द्र तस्मिंस्तुष्टः सदा हरिः ॥ १३ ॥

यो दद्याच्च गृहे दीपं कृष्णस्य सघृतं द्विजः
कार्तिके चाश्वमेधस्य फलं स्याद्वै दिनेदिने ॥ १४ ॥

प्रदीपस्य च माहात्म्यं विशेषमुच्यते मया
निशामय द्विजश्रेष्ठ सेतिहासं समाहितः ॥ १५ ॥

पूर्वं त्रेतायुगे विप्रो वैकुण्ठो नामतः शुचिः
यस्य सङ्गप्रभावेण मुक्तो भवति पातकी ॥ १६ ॥

एकदा कार्तिके सोऽपि प्रदीपं पुरतो हरेः
दत्वा गृहं गतो विप्रो घृतपूर्णं द्विजर्षभः ॥ १७ ॥

सर्पिस्तत्स्वादितु चाखुरागतोऽपि प्रदीपतः
यावत्खादितुमारेभे बोधितोऽसौ प्रदीपकः ॥ १८ ॥

मूषकोऽग्निभयात्तत्र वेगेनापि पलायितः
आखोश्च सकलं पापं विनष्टं कृपया हरेः ॥ १९ ॥

सर्पेण दंशितश्चाखुः प्राणत्यागं चकार ह
ततो यमाज्ञया दूताः पाशमुद्गरपाणयः ॥ २० ॥

आगतास्तं समानेतुं बबन्धुश्चर्मरज्जुभिः
यावन्नेतुं मनश्चक्रुः शङ्खचक्रगदाधराः ॥ २१ ॥

आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः
विमानं गगने चैव राजहंसयुतं शुभम् ॥ २२ ॥
मूलम्
आगता गरुडारूढा विष्णुदूताश्चतुर्भुजाः
विमानं गगने चैव राजहंसयुतं शुभम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
निर्मितं कनकैः शुद्धैः कामगं कृपया हरेः
पाशं छित्वा ततो दूताः प्रोचुस्ते यमकिङ्करान् ॥ २३ ॥

विष्णुभक्तोऽप्यसौ मूढा व्यर्थं तु बन्धनं कृतम्
गच्छध्वं शमनप्रेष्या यदि वाञ्छास्ति जीवितुम् ॥ २४ ॥

श्रुत्वा प्रकम्पितास्ते वै पृच्छन्ति विनयान्विताः
केन पुण्यप्रभावेण युष्माभिर्नीयते पुरम् ॥ २५ ॥

असौ विष्णोर्महापापी यूयं तद्वक्तुमर्हथ
विष्णुदूता ऊचुः-
पुरतो वासुदेवस्य प्रदीपबोधनं कृतम् ॥ २६ ॥

तेनैव कर्मणा दूता नयामो विष्णुमन्दिरम्
अनिच्छयापि यः कुर्याद्विष्णोर्दीपस्य बोधनम् ॥ २७ ॥

कोटिजन्मार्जितं पापं त्यक्त्वा याति हरेर्गृहम्
भक्त्या प्रदीपं यो दद्यात्कार्तिके तु हरेर्दिनैः ॥ २८ ॥

तस्य पुण्यं समाख्यातुं न शक्तो हरिणा विना
घृतपूर्णप्रदीपं यो भक्त्या दद्याद्धरेर्गृहे ॥ २९ ॥

अश्वमेधसहस्रेण तस्य किं वा प्रयोजनम्
अश्वमेधप्रकर्ता यः स्वर्गं याति हरेर्दिने ॥ ३० ॥

कार्तिके दीपदाता च स गच्छेद्धरिमन्दिरम्
व्यास उवाच-
इति श्रुत्वा ततो दूता गतास्ते वै यथागताः ॥ ३१ ॥

विष्णुदूता रथे कृत्वा गतास्तं विष्णुमन्दिरम्
विष्णुसान्निध्य एवास्य मन्वन्तरशतं गतम् ॥ ३२ ॥

ततो मर्त्ये राजकन्या बभूव कृपया हरेः
पुत्रपौत्रसमायुक्ता चिरं भोगं चकार सा ॥ ३३ ॥

इतः पुनर्गता सा तु गोलोकं हरिसेवया
सूत उवाच-
भक्त्या शृणोति यो मर्त्यो दीपमाहात्म्यमुत्तमम् ॥ ३४ ॥

सर्वपापविनिर्मुक्तः स याति विष्णुमन्दिरम् ॥ ३५ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे दीपदानमाहात्म्यं
नाम तृतीयोऽध्यायः ३