सूत उवाच-
विश्वास-प्रस्तुतिः
शृणु शौनक वक्ष्यामि चान्यधर्मं पुरातनम्
व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम् ॥ १ ॥
मूलम्

जैमिनिरुवाच-
कर्मणा हि गुरो केन मन्दिरं जगतीपतेः
याति तत्कथयस्वाद्य नरः पापी च मे प्रभो ॥ २ ॥

व्यास उवाच-
श्रीकृष्णमन्दिरे यो वै लेपनं कुरुते नरः
सर्वपापविनिर्मुक्तः श्रान्तो याति हरेर्गृहम् ॥ ३ ॥

यश्चाम्बुलेपनं कुर्यात्सङ्क्षेपाच्छृणु जैमिने
तस्यपुण्यमहं वच्मि मन्दिरे जगतीपतेः ॥ ४ ॥

तत्र यावन्ति पश्यन्ति रजांसि च द्विजोत्तम
तावत्कल्पसहस्राणि स वसेद्विष्णुमन्दिरे ॥ ५ ॥

पुरासीद्दण्डको नाम्ना चौरो लोकभयप्रदः
ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसञ्ज्ञके ॥ ६ ॥

असत्यभाषी क्रूरश्च परस्त्रीगमने रतः
गोमांसाशी सुरापश्च पाखण्डजनसङ्गभाक् ॥ ७ ॥

वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा
शरणागतहन्ता च वेश्याविभ्रमलोलुपः ॥ ८ ॥

एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमन्दिरम्
जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः ॥ ९ ॥

अथ द्वारि प्रविश्यासावङ्घ्रिः कर्द्दमसंयुतः
प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च ॥ १० ॥

तेनैव कर्मणा भूमिर्निम्नरिक्ता बभूव ह
लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररम्मुदा ॥ ११ ॥

प्रविवेश हरेर्गेहं वितानवरशोभितम्
रत्नकाञ्चनदीपाढ्यं परिध्वस्त महत्तमम् ॥ १२ ॥

नानापुष्पसुगन्धाढ्यं नानापात्रसमाकुलम्
सुवासितस्य तैलस्य गन्धेन परिपूरितम् ॥ १३ ॥

अनेनहारकेणाथ पर्य्यङ्के सुमनोहरे
शायितो राधया सार्द्धं दृष्टः पीताम्बरोऽच्युतः ॥ १४ ॥

प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा
नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम ॥ १५ ॥

सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा
द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः ॥ १६ ॥

पातयित्वांशुकं भूमौ कौशेयं कमलापतेः
बबन्ध वस्तुजातं च पाणौ कृत्वा सकम्पितः ॥ १७ ॥

विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने
कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै ॥ १८ ॥

परित्यज्य सुनिद्रां च धावन्त इति किन्वहो
आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च ॥ १९ ॥

त्यक्त्वा धनं च चौरोऽपि त्रस्तः किञ्चिज्जगाम ह
दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः ॥ २० ॥

यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः
आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः ॥ २१ ॥

बबन्धुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना
दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति ॥ २२ ॥

यम उवाच-
अनेन किं कृतं कर्म पापं वा पुण्यमेव वा
समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः ॥ २३ ॥

चित्रगुप्त उवाच-
सृष्टानि यानि पापानि विधात्रा पृथिवीतले
कृतान्यनेन मूढेन सत्यमेतन्मयोदितम् ॥ २४ ॥

किन्त्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते
मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् ॥ २५ ॥

धर्मराज उवाच-
किं पुण्यं वर्त्ततेऽमात्य वद सारं ममान्तिके
श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ ॥ २६ ॥

यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः
कृत्वा हस्ताञ्जलिं प्राह चात्मनः स्वामिने द्विज ॥ २७ ॥
मूलम्
यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः
कृत्वा हस्ताञ्जलिं प्राह चात्मनः स्वामिने द्विज ॥ २७ ॥
विश्वास-प्रस्तुतिः
चित्रगुप्त उवाच-
हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः
प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः ॥ २८ ॥

बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता
तेन पुण्यप्रभावेण निर्गतं पातकं महत्
वैकुण्ठं प्रतियोग्योऽसौ निर्गतस्तव दण्डतः ॥ २९ ॥

श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम्
ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः ॥ ३० ॥

ननाम शिरसा तं वै प्रोवाच विनयान्वितः
यम उवाच-
पवित्रं मन्दिरं मेऽद्य पादयोस्तद्धि रेणुभिः ॥ ३१ ॥

कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः
इदानीं गच्छ भो साधो हरेर्मन्दिरमुत्तमम् ॥ ३२ ॥

नानाभोगसमायुक्तं जन्ममृत्युनिवारणम्
व्यास उवाच-
इत्युक्त्वा धर्मराजोऽसौ स्यन्दने स्वर्णनिर्मिते ॥ ३३ ॥

राजहंसयुते दिव्ये तमारोप्य गतैनसम्
समस्तसुखदं स्थानं प्रेषयामास चक्रिणः ॥ ३४ ॥

एवं प्रविष्टो वैकुण्ठे तत्र तस्थौ सुखं चिरम्
लेपनं ये प्रकुर्वन्ति भक्त्या तु हरिमन्दिरम् ॥ ३५ ॥

तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम
य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥ ३६ ॥

कोटिजन्मार्जितं पापं नश्यत्येव न संशयः ॥ ३७ ॥

इति श्रीपाद्मेमहापुराणे ब्रह्मखण्डे हरिमन्दिरलेपनमाहात्म्यं
नाम द्वितीयोऽध्यायः २