००१

शौनक उवाच-

विश्वास-प्रस्तुतिः

कलौ समागते सूत प्राणिनां केन कर्मणा
उद्धारो वै भवेत्तस्मात्कथयस्व ममाग्रतः ॥ १ ॥

मूलम्

सूत उवाच-
साधुसाधु मुनिश्रेष्ठ पुण्यात्मनां वरो भवान्
सर्वेषां च जनानां च शुभवाञ्छो निरन्तरम् ॥ २ ॥

एतद्व्यासः पुरा विप्रः सर्वज्ञः सर्वपूजितः
पृष्टो जैमिनिना तं स यदाह शृणु वैष्णव ॥ ३ ॥

दण्डवत्प्रणिपत्यासौ व्यासं सर्वार्थपारगम्
गुरुं सत्यवतीसूनुं पप्रच्छ मुनिपुङ्गवः ॥ ४ ॥

जैमिनिरुवाच-
कलौ नृणां भवेत्केन मोक्षो वै कथयस्व मे
अल्पेनापि च पुण्येन मर्त्याश्चाल्पायुषो यतः ॥ ५ ॥

व्यास उवाच-
साधुसङ्गाद्भवेद्विप्र शास्त्राणां श्रवणं प्रभो
हरिभक्तिर्भवेत्तस्मात्ततो ज्ञानं ततो गतिः ॥ ६ ॥

न रोचते कथा भूमौ पापिष्ठाय जनाय वै
वैष्णवी स तु विज्ञेयः पापिष्ठप्रवरो द्विजः ॥ ७ ॥

श्रीकृष्णस्य कथां श्रुत्वाऽऽनन्दी भवति वैष्णवः
असत्यां तां तु यो ब्रूयाज्ज्ञेयः स पापिनां गुरुः ॥ ८ ॥

यस्मिन्यस्मिन्स्थले विप्र कृष्णस्य वर्तते कथा
तस्मात्तस्माज्जगन्नाथो याति त्यक्त्वा न कर्हिचित् ॥ ९ ॥

कृष्णस्य यः कथारम्भे कुर्याद्विघ्नं नराधमः
नरकान्निष्कृतिर्नास्ति मन्वन्तरशतावधि ॥ १० ॥

ये पुराणकथां श्रुत्वा निन्दन्त्युपहसन्ति वै
तेषां करस्था नरका बहुक्लेशकराः सदा ॥ ११ ॥

जन्मान्तरार्जितं पापं तत्क्षणादेव नश्यति
श्रीकृष्णचरितं यो वै श्रोतुमिच्छां करोत्यपि ॥ १२ ॥

भक्त्या यो वै नरः कुर्यात्श्रीकृष्णचरितं तथा
न जाने श्रवणे तस्य का गतिर्वा भविष्यति ॥ १३ ॥

ब्रह्महत्यादिकं पापं अकालमरणं तथा
सुरापानं तथास्तेयं सर्वं नश्यति पापिनः ॥ १४ ॥

पापं कृत्वा तु यो मर्त्यः पश्चात्पापं निवर्तयेत्
तस्य पापं व्रजेन्नाशमग्निना तूलराशिवत् ॥ १५ ॥

श्रीकृष्णचरितं विप्र तिष्ठेद्वै पुस्तकं गृहे
तस्य गृहसमीपं हि नायान्ति यमकिङ्कराः ॥ १६ ॥

वदन्ति वैष्णवान्कांश्च वाञ्च्छा ब्रूहि गुरो मम
इदानीं तान्समाज्ञातुं तेषां माहात्म्यमुत्तमम् ॥ १७ ॥

यो नरो मस्तके भक्त्या वैष्णवाङ्घ्रिजलं द्विज
करोति सेचनं पापी तीर्थस्नानेन तस्य किम् ॥ १८ ॥

साधुसङ्गं तु यः कुर्य्यात्क्षणं वार्द्धक्षणं द्विज
तस्य नश्यन्ति पापानि ब्रह्महत्यामुखानि च ॥ १९ ॥

यत्रयत्र कुले चैव एको भवति वैष्णवः
कुलं तस्य यदा पापैर्युक्तं तन्मोक्षगामि वै ॥ २० ॥

हिंसादम्भकामक्रोधैर्वर्जिताश्चैव ये नराः
लोभमोहपरित्यक्ता ज्ञेयास्ते वैष्णवा द्विज ॥ २१ ॥

पितृभक्ता दयायुक्ताः सर्वप्राणिहिते रताः
अमत्सरा वैष्णवा ये विज्ञेयाः सत्यभाषिणः ॥ २२ ॥

विप्रभक्तिरता ये च परस्त्रीषु नपुंसकाः
एकादशीव्रतरता विज्ञेयास्ते च वैष्णवाः ॥ २३ ॥

गायन्ति हरिनामानि तुलसीमाल्यधारकाः
हर्यङ्घ्रिसलिलैः सिक्ता विज्ञेयास्ते च वैष्णवाः ॥ २४ ॥

श्रोत्रयोर्मस्तके येषां तुलस्याः पर्णमुत्तमम्
कर्हिचिद्दृश्यते विप्र विज्ञेयास्ते च वैष्णवाः ॥ २५ ॥

पाखण्डसङ्गरहिता विप्रद्वेषविवर्जिताः
सिञ्चेयुस्तुलसीं ये च ज्ञातव्या वैष्णवा नराः ॥ २६ ॥

पूजयन्ति हरिं ये च तुलस्या चार्चयन्ति ये
कन्यादानरता ये च ये वै ह्यतिथिपूजकाः ॥ २७ ॥

शृण्वन्ति विष्णुचरितं विज्ञेया वैष्णवा नराः
यस्य गृहे सुप्रतिष्ठेत्शालग्रामशिलापि च ॥ २८ ॥

मार्जयन्ति हरेः स्थानं पितृयज्ञप्रवर्तकाः
जने दीने दयायुक्ता विज्ञेयास्ते च वैष्णवाः ॥ २९ ॥

परस्वं ब्राह्मणद्रव्यं पश्यन्ति विषवच्च ये
हरिनैवेद्यं येऽश्नन्ति विज्ञेया वैष्णवा जनाः ॥ ३० ॥

वेदशास्त्रानुरक्ता ये तुलसीवनपालकाः
राधाष्टमीव्रतरता विज्ञेयास्ते च वैष्णवाः ॥ ३१ ॥

श्रीकृष्णपुरतो ये च दीपं यच्छन्ति श्रद्धया
परनिन्दां न कुर्वन्ति विज्ञेयास्ते च वैष्णवाः ॥ ३२ ॥

पृष्टो जैमिनिना व्यास इत्युक्तः स यथाक्रमम्
मयेदं कथ्यते ब्रह्मन्यत्प्रसङ्गाद्गुरोः श्रुतम् ॥ ३३ ॥

अध्यायं श्रद्धया युक्तं ये शृण्वन्ति नरोत्तमाः
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे व्यासजैमिनिसंवादे प्रथमोऽध्यायः १