सूत उवाच-
विश्वास-प्रस्तुतिः
एवं यन्महिमा लोके लोकनिस्तारकारणम्
तस्य विष्णोः परेशस्य नानाविग्रहधारिणः ॥ १ ॥
मूलम्

एकं पुराणं रूपं वै तत्र पाद्मं परं महत्
ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसञ्ज्ञितम् ॥ २ ॥

वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः
ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम् ॥ ३ ॥

मार्कण्डेयं च दक्षाङ्घ्रिर्वामो ह्याग्नेयमुच्यते
भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः ॥ ४ ॥

ब्रह्मवैवर्तसञ्ज्ञं तु वामजानुरुदाहृतः
लैङ्गं ह गुल्फकं दक्षं वाराहं वामगुल्फकम् ॥ ५ ॥

स्कान्दं पुराणं लोमानि त्वगस्य वामनं स्मृतम्
कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम् ॥ ६ ॥

मज्जा तु गारुडं प्रोक्तं ब्रह्माण्डमस्थि गीयते
एवमेवाभवद्विष्णुः पुराणावयवो हरिः ॥ ७ ॥

हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते
पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः ॥ ८ ॥

यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते
तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम् ॥ ९ ॥

स्वर्गखण्डं समाकर्ण्य महापातकिनोपि ये
मुच्यन्ते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः ॥ १० ॥

अपि चेत्सुदुराचारः सर्वधर्मबहिष्कृतः
आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात् ॥ ११ ॥

आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः
माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः ॥ १२ ॥

यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत्
दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला ॥ १३ ॥

कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम्
हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः ॥ १४ ॥

सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा
अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः ॥ १५ ॥

अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः
गुणवन्तो ज्ञानवन्तो धर्मवन्तोनुमानिताः ॥ १६ ॥

मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम्
ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि ॥ १७ ॥

अन्यानि च सुकर्माणि कृतानि तेन धीमता
येनादिखण्डं सदसि श्रुतं संश्रावितं तथा ॥ १८ ॥

स्वर्गखण्डं समाधीत्य नानाभोगान्समश्नुते
अन्तःपुरगनारीणां सुखसुप्तः प्रबुध्यते ॥ १९ ॥

किङ्किणीरवसन्नादैस्तथा मधुरभाषणैः
इन्द्रस्यार्धासनं भुङ्क्ते इन्द्रलोके वसेच्चिरम् ॥ २० ॥

ततः सूर्यस्य भवनं चन्द्रलोकं ततो व्रजेत्
सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् ॥ २१ ॥

ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः
तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति ॥ २२ ॥

सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत्
कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः ॥ २३ ॥

तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम्
स्वर्गखण्डं च तन्मध्ये महापुण्यफलप्रदम् ॥ २४ ॥

भजध्वं गोविन्दं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम्
शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत ॥ २५ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्विषष्टितमोऽध्यायः ६२