सूत उवाच-
विश्वास-प्रस्तुतिः
एवमुक्ता पुरा विप्रा व्यासेनामिततेजसा
एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः ॥ १ ॥
मूलम्

समाश्वास्य मुनीन्सर्वान्जगाम च यथागतम्
भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम् ॥ २ ॥

एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा
रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ॥ ३ ॥

ये चात्र कथिता धर्मा वर्णाश्रमनिबन्धनाः
हरिभक्तिकलांशांश समाना न हि ते द्विजाः ॥ ४ ॥

पुंसामेकेह वै साध्या हरिभक्तिः कलौ युगे
युगान्तरेण धर्मा हि सेवितव्या नरेण हि ॥ ५ ॥

कलौ नारायणं देवं यजते यः स धर्मभाक्
दामोदरं हृषीकेशं पुरुहूतं सनातनम् ॥ ६ ॥
मूलम्
कलौ नारायणं देवं यजते यः स धर्मभाक्
दामोदरं हृषीकेशं पुरुहूतं सनातनम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
हृदि कृत्वा परं शान्तं जितमेव जगत्त्रयम्
कलिकालोरगादंशात्किल्बिषात्कालकूटतः ॥ ७ ॥

हरिभक्तिसुधां पीत्वा उल्लङ्घ्यो भवति द्विजः
किं जपैः श्रीहरेर्नाम गृहीतं यदि मानुषैः ॥ ८ ॥

किं स्नानैर्विष्णुपादाम्बु मस्तके येन धार्यते
किं यज्ञेन हरेः पादपद्मं येन धृतं हृदि ॥ ९ ॥

किं दानेन हरेः कर्म सभायां वै प्रकाशितम्
हरेर्गुणगणान्श्रुत्वा यः प्रहृष्येत्पुनः पुनः ॥ १० ॥

समाधिना प्रहृष्टस्य सा गतिः कृष्णचेतसः
तत्र विघ्नकराः प्रोक्ताः पाखण्डालापपेशलाः ॥ ११ ॥

नार्यस्तत्सङ्गिनश्चापि हरिभक्तिविघातकाः
नारीणां नयनादेशः सुराणामपि दुर्जयः ॥ १२ ॥

स येन विजितो लोके हरिभक्तः स उच्यते
माद्यन्ति मुनयोप्यत्र नारीचरितलोलुपाः ॥ १३ ॥

हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः
राक्षस्यः कामिनीवेषाश्चरन्ति जगति द्विजाः
नराणां बुद्धिकवलं कुर्वन्ति सततं हिताः ॥ १४ ॥

तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते
तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी ॥ १५ ॥

तावज्जपस्तपस्तावत्तावतीर्थनिषेवणम्
तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः ॥ १६ ॥

तावत्प्रबोधो भवति विवेकस्तावदेव हि
तावत्सतां सङ्गरुचिस्तावत्पौराणलालसा ॥ १७ ॥

यावत्सीमन्तिनी लोलनयनान्दोलनं नहि
जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् ॥ १८ ॥

तत्र ये हरिपादाब्जमधुलेशप्रसादिताः
तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भवेत् ॥ १९ ॥

जन्मजन्म हृषीकेश सेवनं यैः कृतं द्विजाः
द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि ॥ २० ॥

नारीणां किल किं नाम सौन्दर्य्यं परिचक्षते
भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते ॥ २१ ॥

स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम्
पूयमूत्रपुरीषासृक्त्वङ्मेदोस्थिवसान्वितम् ॥ २२ ॥

कलेवरं हि तन्नाम कुतः सौन्दर्य्यमत्र हि
तदेवं पृथगाचिन्त्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् ॥ २३ ॥

तैः संहितं शंरीरं हि दृश्यते सुन्दरं जनैः
अहोतिदुर्दशा नॄणां दुर्दैव घटिता द्विजाः ॥ २४ ॥

कुचावृतेङ्गे पुरुषो नारी बुद्ध्वा प्रवर्त्तते
का नारी वा पुमान्को वा विचारे सति किञ्चन ॥ २५ ॥

तस्मात्सर्वात्मना साधुर्नारीसङ्गं विवर्जयेत्
को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले ॥ २६ ॥

कामिनी कामिनीसङ्गि सङ्गमित्यपि सन्त्यजेत्
तत्सङ्गाद्रौरवमिति साक्षादेव प्रतीयते ॥ २७ ॥

अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वञ्चिताः
साक्षान्नरककुण्डेस्मिन्नारीयोनौ पचेन्नरः ॥ २८ ॥

यत एवागतः पृथ्व्यां तस्मिन्नेव पुना रमेत्
यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् ॥ २९ ॥

तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत्
तत्रातिकष्टं लोकेस्मिन्नहो दैवविडम्बना ॥ ३० ॥

पुनः पुना रमेत्तत्र अहो निस्त्रपता नृणाम्
तस्माद्विचारयेद्धीमान्नारीदोषगणान्बहून् ॥ ३१ ॥

मैथुनाद्बलहानिः स्यान्निद्राति तरुणायते
निद्रयापहृतज्ञानः स्वल्पायुर्जायते नरः ॥ ३२ ॥

तस्मात्प्रयत्नतो धीमान्नारीं मृत्युमिवात्मनः
पश्येद्गोविन्दपादाब्जे मनो वै रमयेद्बुधः ॥ ३३ ॥

इहामुत्र सुखं तद्धि गोविन्दपदसेवनम्
विहाय को महामूढो नारीपादं हि सेवते ॥ ३४ ॥

जनार्द्दनाङ्घ्रिसेवा हि ह्यपुनर्भवदायिनी
नारीणां योनिसेवा हि योनिसङ्कटकारिणी ॥ ३५ ॥

पुनःपुनः पतेद्योनौ यन्त्रनिष्पाचितो यथा
पुनस्तामेवाभिलषेद्विद्यादस्य विडम्बनम् ॥ ३६ ॥

ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः
गोविन्दे धेहि हृदयं न योनौ यातनाजुषि ॥ ३७ ॥

नारीसङ्गं परित्यज्य यश्चापि परिवर्त्तते
पदेपदेश्वमेधस्य फलमाप्नोति मानवः ॥ ३८ ॥
मूलम्
नारीसङ्गं परित्यज्य यश्चापि परिवर्त्तते
पदेपदेश्वमेधस्य फलमाप्नोति मानवः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कुलाङ्गना दैवयोगादूढा यदि नृणां सती
पुत्रमुत्पाद्य यस्तत्र तत्सङ्गं परिवर्जयेत् ॥ ३९ ॥

तस्य तुष्टो जगन्नाथो भवत्येव न संशयः
नारीसङ्गो हि धर्मज्ञैरसत्सङ्गः प्रकीर्त्यते ॥ ४० ॥

तस्मिन्सति हरौ भक्तिः सुदृढा नैव जायते
सर्वसङ्गं परित्यज्य हरौ भक्तिं समाचरेत् ॥ ४१ ॥

हरिभक्तिश्च लोकेत्र दुर्ल्लभा हि मता मम
हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः ॥ ४२ ॥

तत्तदेवाचरेत्कर्म हरिः प्रीणाति येन हि
तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥ ४३ ॥

हरौ भक्तिं विना नॄणां वृथा जन्म प्रकीर्तितम्
ब्रह्मेशादि सुरा यस्य यजन्ते प्रीतिहेतवे ॥ ४४ ॥

नारायणमनाव्यक्तं न तं सेवेत को जनः
तस्य माता महाभागा पिता तस्य महाकृती ॥ ४५ ॥

जनार्द्दनपदद्वन्द्वं हृदये येन धार्यते
जनार्दनजगद्वन्द्य शरणागतवत्सल ॥ ४६ ॥
मूलम्
जनार्द्दनपदद्वन्द्वं हृदये येन धार्यते
जनार्दनजगद्वन्द्य शरणागतवत्सल ॥ ४६ ॥
विश्वास-प्रस्तुतिः
इतीरयन्ति ये मर्त्या न तेषां निरये गतिः
ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः ॥ ४७ ॥

पूजयेयुर्यथायोगं हरिस्तेषां प्रसीदति
विष्णुर्ब्राह्मणरूपेण विचरेत्पृथिवीमिमाम् ॥ ४८ ॥

ब्राह्मणेन विना कर्म सिद्धिं प्राप्नोति नैव हि
द्विजपादाम्बुभक्त्या यैः पीत्वा शिरसि चार्पितम् ॥ ४९ ॥

तर्पिता पितरस्तेन आत्मापि किल तारितः
ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् ॥ ५० ॥

साक्षात्कृष्णमुखे दत्तं तद्वै भुङ्क्ते हरिः स्वयम्
अहोतिदुर्ल्लभा लोका प्रत्यक्षे केशवे द्विजे ॥ ५१ ॥

प्रतिमादिषु सेवन्ते तदभावे हि तत्क्रिया
ब्राह्मणानामधिष्ठानात्पृथ्वी धन्येति गीयते ॥ ५२ ॥

तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितम्
तेभ्यः कृतान्नमस्कारात्तिरस्कारो हि पाप्मताम् ॥ ५३ ॥

मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवन्दनात्
तस्मात्सतां समाराध्यो ब्राह्मणो विष्णुबुद्धितः ॥ ५४ ॥

क्षुधितस्य द्विजस्यास्ये यत्किञ्चिद्दीयते यदि
प्रेत्य पीपूषधाराभिः सिञ्चते कल्पकोटिकम् ॥ ५५ ॥

द्विजतुण्डं महाक्षेत्रमनूषरमकण्टकम्
तत्र चेदुप्यते किञ्चित्कोटिकोटिफलं लभेत् ॥ ५६ ॥

सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते
नानासुमिष्टमन्नं यो ददाति द्विजतुष्टये ॥ ५७ ॥

तस्य लोका महाभोगाः कोटिकल्पान्तमुक्तिदाः
ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम् ॥ ५८ ॥

पुराणं शृणुयान्नित्यं महापापदवानलम्
पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते ॥ ५९ ॥

यस्यैकपादश्रवणाद्धरिरेव प्रसीदति
यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः ॥ ६० ॥

सर्वेषां जगतामेव हरिरालोकहेतवे
तथैवान्तःप्रकाशाय पुराणावयवो हरिः ॥ ६१ ॥

विचरेदिह भूतेषु पुराणं पावनं परम्
तस्माद्यदि हरेः प्रीतेरुत्पादे धीयते मतिः ॥ ६२ ॥

श्रोतव्यमनिशं पुम्भिः पुराणं कृष्णरूपिणम्
विष्णुभक्तेन शान्तेन श्रोतव्यमपि दुर्लभम् ॥ ६३ ॥

पुराणाख्यानममलममलीकरणं परम्
यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा ॥ ६४ ॥

पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत्
पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् ॥ ६५ ॥

तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति
साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् ॥ ६६ ॥

एतयोः सङ्गमासाद्य हरिरेव भेवन्नरः
तथा गङ्गाम्बुसेकेन नाशयेत्किल्बिषं स्वकम् ॥ ६७ ॥

केशवो द्रवरूपेण पापात्तारयते महीम्
वैष्णवो विष्णुभजनस्याकाङ्क्षी यदि वर्तते ॥ ६८ ॥

गङ्गाम्बुसेकममलममलीकरणं चरेत्
विष्णुभक्तिप्रदा देवी गङ्गा भुवि च गीयते ॥ ६९ ॥

विष्णुरूपा हि सा गङ्गा लोकविस्तारकारिणी ॥ ७० ॥

ब्राह्मणेषु पुराणेषु गङ्गायां गोषु पिप्पले
नारायणधिया पुम्भिर्भक्तिः कार्या ह्यहैतुकी ॥ ७१ ॥

प्रत्यक्षविष्णुरूपा हि तत्वज्ञैर्निश्चिता अमी
तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ॥ ७२ ॥

विष्णौ भक्तिं विना नॄणां निष्फलं जन्म उच्यते
कलिकालपयोराशिं पापग्राहसमाकुलम् ॥ ७३ ॥

विषयामज्जनावर्तं दुर्बोधफेनिलं परम्
महादुष्टजनव्याल महाभीमं भयानकम् ॥ ७४ ॥
मूलम्
विषयामज्जनावर्तं दुर्बोधफेनिलं परम्
महादुष्टजनव्याल महाभीमं भयानकम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
दुस्तरं च तरन्त्येव हरिभक्तितरि स्थिताः
तस्माद्यतेत वै लोको विष्णुभक्तिप्रसाधने ॥ ७५ ॥

किं सुखं लभते जन्तुरसद्वार्तावधारणे
हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते ॥ ७६ ॥

तद्विचित्रकथालोके नानाविषयमिश्रिताः
श्रोतव्या यदि वै नॄणां विषये सज्जते मनः ॥ ७७ ॥

निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः
हेलया श्रवणाच्चापि तस्य तुष्टो भवेद्धरिः ॥ ७८ ॥

निष्क्रियोपि हृषीकेशो नानाकर्म चकार सः
शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः ॥ ७९ ॥

न लभ्यते कर्मणापि वाजपेयशतादिना
राजसूयायुतेनापि यथा भक्त्या स लभ्यते ॥ ८० ॥

यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः
भवाब्धितरणे सारमाश्रयध्वं हरेः पदम् ॥ ८१ ॥

रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः
रौरवे हि किमात्मानमात्मना पातयिष्यथ ॥ ८२ ॥

विना गोविन्दसौम्याङ्घ्रिसेवनं मा गमिष्यति
अनायासेन दुःखानां तरणं यदि वाञ्छथ ॥ ८३ ॥

भजध्वं कृष्णचरणावपुनर्भवकारणे
कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत् ॥ ८४ ॥

एतद्विचार्य मतिमानाश्रयेद्धर्मसङ्ग्रहम्
नानानरकसम्पातादुत्थितो यदि पूरुषः ॥ ८५ ॥

स्थावरादि तनुं लब्ध्वा यदि भाग्यवशात्पुनः
मानुष्यं लभते तत्र गर्भवासोतिदुःखदः ॥ ८६ ॥

ततः कर्मवशाज्जन्तुर्यदि वा जायते भुवि
बाल्यादिबहुदोषेण पीडितो भवति द्विजाः ॥ ८७ ॥

पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते
रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा ॥ ८८ ॥

वार्द्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः
मनसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात् ॥ ८९ ॥

न तस्मादधिकं दुःखं संसारेप्यनुभूयते
ततः कर्मवशाज्जन्तुर्यमलोके प्रपीड्यते ॥ ९० ॥

तत्रातियातनां भुक्त्वा पुनरेव प्रजायते
जायते म्रियते जन्तु म्रियते जायते पुनः ॥ ९१ ॥

अनाराधित गोविन्दचरणे त्वीदृशी दशा
अनायासेन मरणं विनायासेन जीवनम् ॥ ९२ ॥
मूलम्
अनाराधित गोविन्दचरणे त्वीदृशी दशा
अनायासेन मरणं विनायासेन जीवनम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अनाराधितगोविन्दचरणस्य न जायते
धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम् ॥ ९३ ॥

यदासौ कृष्यते याम्यैर्दूतैः किं धनमन्वियात्
तस्माद्द्विजातिसत्कार्यं द्रविणं सर्वसौख्यदम् ॥ ९४ ॥

दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनम्
गोविन्दभक्तिभजनं महापुण्यविवर्द्धनम् ॥ ९५ ॥

बलं यदि भवेन्मर्त्ये न वृथा तद्व्ययं चरेत्
हरेरग्रे नृत्यगीतं कुर्यादेवमतन्द्रितः ॥ ९६ ॥

यत्किञ्चिद्विद्यते पुंसां तच्च कृष्णे समर्पयेत्
कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदम् ॥ ९७ ॥

चक्षुर्भ्यां श्रीहरेरेव प्रतिमादिनिरूपणम्
श्रोत्राभ्यां कलयेत्कृष्ण गुणनामान्यहर्निशम् ॥ ९८ ॥

जिह्वया हरिपादाम्बु स्वादितव्यं विचक्षणैः
घ्राणेनाघ्राय गोविन्दपादाब्जतुलसीदलम् ॥ ९९ ॥

त्वचा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम्
कृतार्थो जायते जन्तुर्नात्र कार्या विचारणा १००
तन्मना हि भवेत्प्राज्ञस्तथा स्यात्तद्गताशयः
तमेवान्तेभ्येति लोको नात्र कार्या विचारणा १०१
चेतसा चाप्यनुध्यातः स्वपदं यः प्रयच्छति
नारायणमनाद्यन्तं न तं सेवेत को जनः १०२
सतत नियतचित्तो विष्णुपादारविन्दे वितरणमनुशक्ति प्रीतये तस्य कुर्यात्
नतिमतिरतिमस्याङ्घ्रिद्वये संविदध्यात्स हि खलु नरलोके पूज्यतामाप्नुयाच्च १०३
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे एकषष्टितमोऽध्यायः ६१