व्यास उवाच-
विश्वास-प्रस्तुतिः
एवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम्
भैक्ष्येण वर्तनं प्रोक्तं फलमूलैरथापि वा ॥ १ ॥
मूलम्

एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरम्
भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २ ॥

सप्तागारं चरेद्भैक्ष्यमलाभे न पुनश्चरेत्
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ॥ ३ ॥

भिक्षेत्युक्त्वा सकृत्तूष्णीमादद्याद्वाग्यतः शुचिः
प्रक्ष्याल्य पाणी पादौ च समाचम्य यथाविधि ॥ ४ ॥

आदित्यं दर्शयित्वान्नं भुञ्जीत प्राङ्मुखो नरः
हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ॥ ५ ॥

आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम्
आलाबुदारुपात्रे च मृण्मयं वैणवं तथा ॥ ६ ॥

चत्वारि यतिपात्राणि मनुराह प्रजापतिः
प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ॥ ७ ॥

सन्ध्यासूक्तिविशेषेण चिन्तयेन्नित्यमीश्वरम्
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ॥ ८ ॥

आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम्
सर्वस्याधारमव्यक्तमानन्दं ज्योतिरव्ययम् ॥ ९ ॥

प्रधानपुरुषातीतमाकाशं दहनं शिवम्
तदन्तं सर्वभावानामीश्वरं ब्रह्मरूपिणम् ॥ १० ॥

ॐकारान्तेथवात्मानं समाप्य परमात्मनि
आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ ११ ॥

कारणं सर्वभावानामानन्दैकसमाश्रयम्
पुराणपुरुषं विष्णुं ध्यायन्मुच्येत बन्धनात् ॥ १२ ॥

यद्वा गुहादौ प्रकृतौ जगत्सम्मोहनालये
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ १३ ॥

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते
आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः ॥ १४ ॥

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम्
अनन्तं सत्यमीशानं विचिन्त्यासीत वाग्यतः ॥ १५ ॥

गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम्
योवतिष्ठेत्सदानेन सोश्नुते योगमैश्वरम् ॥ १६ ॥

तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः
ज्ञानं समभ्यसेद्ब्रह्म येन मुच्येत बन्धनात् ॥ १७ ॥

मत्वा पृथक्त्वमात्मानं सर्वस्मादेव केवलम्
आनन्दमक्षरं ज्ञानं ध्यायेत च ततः परम् ॥ १८ ॥

यस्माद्भवन्ति भूतानि यज्ज्ञात्वा नेह जायते
स तस्मादीश्वरो देवः परस्ताद्योधितिष्ठति ॥ १९ ॥

यदन्तरे तद्गमनं शाश्वतं शिवमव्ययम्
य इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः ॥ २० ॥

व्रतानि यानि भिक्षूणां तथैवायं व्रतानि च
एकैकातिक्रमेणैव प्रायश्चित्तं विधीयते ॥ २१ ॥

उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः
प्राणायामसमायुक्तं कुर्य्यात्सान्तपनं शुचिः ॥ २२ ॥

ततश्चरेत नियमात्कृच्छ्रं संयतमानसः
पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥ २३ ॥

न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः
तथापि च न कर्तव्यः प्रसङ्गो ह्येष दारुणः ॥ २४ ॥

एकरात्रोपवासश्च प्राणायामशतं तथा
उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २५ ॥

परमापद्गतेनापि न कार्यं स्तेयमन्यतः
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ २६ ॥

हिंसा चैवापरा तृष्णा याच्ञात्मज्ञाननाशिका
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः २७ द्रविण
स तस्य हरते प्राणान्यो यस्य हरते धनम्
एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रतच्युतः ॥ २८ ॥

भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ॥ २९ ॥

कुर्यात्कृच्छ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा
स्कन्देतेन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ॥ ३० ॥

तेन धारयितव्या वै प्राणायामास्तु षोडश
दिवास्कन्दे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ॥ ३१ ॥

एकान्ने मधुमांसे च नवश्राद्धे तथैव च
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ ३२ ॥

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम्
तस्मान्नारायणं ध्यात्वा तस्य ध्यानपरो भवेत् ॥ ३३ ॥

यद्ब्रह्मणः परं ज्योतिः प्रविष्टाक्षरमव्ययम्
योन्तरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ ३४ ॥

एष देवो महादेवः केवलः परमं शिवः
तदेवाक्षरमद्वैतं तदा नित्यं परं पदम् ॥ ३५ ॥

तस्मान्महीयते देवे स्वधाम्नि ज्ञानसञ्ज्ञिते
आत्मयोगात्परे तत्वे महादेवस्ततः स्मृतः ॥ ३६ ॥

नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति
तमेवात्मानमन्वेति यः स याति परं पदम् ॥ ३७ ॥

मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात्
न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ ३८ ॥

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम्
स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ॥ ३९ ॥

तस्माद्यतेत नियतं यतिः संयतमानसः
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ ४० ॥
मूलम्
तस्माद्यतेत नियतं यतिः संयतमानसः
ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ ४० ॥
विश्वास-प्रस्तुतिः
एष वः कथितो विप्रा यतीनामाश्रमः शुभः
पितामहेन मुनिना विभुना पूर्वमीरितः ॥ ४१ ॥

नापुत्रशिष्ययोगिभ्यो दद्यादेवमनुत्तमम्
ज्ञानं स्वयम्भुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ ४२ ॥

इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः
न भवति पुनरेषामुद्भवो वा विनाशः प्रतिहितमनसो ये नित्यमेवाचरन्ति ॥ ४३ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे षष्टितमोऽध्यायः ६०