०५९

व्यास उवाच-

विश्वास-प्रस्तुतिः

एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः
चतुर्थं चायुषो भागं सन्न्यासेन नयेत्क्रमात् ॥ १ ॥

मूलम्

अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत्
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २ ॥

यदा मनसि सम्पन्नं वैराग्यं सर्ववस्तुषु
तदा सन्न्यासमिच्छेच्च पतितः स्याद्विपर्यये ॥ ३ ॥

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः
दान्तः शुक्लकषायोसौ ब्रह्माश्रममुपाश्रयेत् ॥ ४ ॥

ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनोऽपरे
कर्मसन्न्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ ५ ॥

यः सर्वत्र विनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः
प्रोच्यते ज्ञानसन्न्यासी आत्मन्येव व्यवस्थितः ॥ ६ ॥

वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः
प्रोच्यते वेदसन्न्यासी मुमुक्षुर्विजितेन्द्रियः ॥ ७ ॥

यस्त्वग्निमात्मसाकृत्वा ब्रह्मार्पणपरो द्विजः
ज्ञेयः स कर्मसन्न्यासी महायज्ञपरायणः ॥ ८ ॥

त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ ९ ॥

निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ १० ॥

ब्रह्मचारी जिताहारो ग्रामादन्नं समाहरेत्
अध्यात्मरतिरासीत निरपेक्षो निराशिषः ॥ ११ ॥

आत्मनैव सहायेन सुखार्थं विचरेदिह
नाभिनन्देत मरणं नाभिनन्देत जीवनम् ॥ १२ ॥

कालमेव प्रतीक्षेत निर्देशं भृतको यथा
नाध्येतव्यं न वर्तव्यं श्रोतव्यं न कदाचन ॥ १३ ॥

एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते
एकवासाथ वा विद्वान्कौपीनाच्छादनोपि वा ॥ १४ ॥

मुण्डी शिखी वाथ भवेत्त्रिदण्डी निष्परिग्रहः
काषायवासाः सततं ध्यानयोगपरायणः ॥ १५ ॥

ग्रामान्ते वृक्षमूले वा वसेद्देवालयेपि वा
समः शत्रौ तथा मित्रे तथा मानापमानयोः ॥ १६ ॥

भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वच्चित्
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः ॥ १७ ॥

न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते
रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः ॥ १८ ॥

प्राणिहिंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ॥ १९ ॥

सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्
नैकत्र निवसेद्देशे वर्षाभ्योन्यत्र भिक्षुकः ॥ २० ॥

स्नात्वा शौचयुतो नित्यं कमण्डलुकरः शुचिः
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ॥ २१ ॥

मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः
दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः ॥ २२ ॥

आत्मज्ञानगुणोपेतो यदि मोक्षमवाप्नुयात्
अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् ॥ २३ ॥

स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ॥ २४ ॥

धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः
अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च ॥ २५ ॥

मूलम्

धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः
अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च ॥ २५ ॥

विश्वास-प्रस्तुतिः

आध्यात्मिकं च सततं वेदान्ताभिहितं च यत्
पुत्रेषु चाथ निवसन्ब्रह्मचारी यतिर्मुनिः ॥ २६ ॥

वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम्
अहिंसासत्यमस्तेयं ब्रह्मचर्यं तपः परम् ॥ २७ ॥

क्षमादया च सन्तोषो व्रतान्यस्य विशेषतः
वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान्समाहितः ॥ २८ ॥

कुर्य्यादहरहः स्नात्वा भिक्षार्थे नैव तेन हि
होममन्त्रान्जपेन्नित्यं कालेकाले समाहितः ॥ २९ ॥

स्वाध्यायं चान्वहं कुर्य्यात्सावित्रीं सन्ध्ययोर्जपेत्
ध्यायीत सततं देवमेकान्तं परमेश्वरम् ॥ ३० ॥

एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम्
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान्
कमण्डलुकरो विद्वांस्त्रिदण्डो याति तत्परम् ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे यतिधर्मनिरूपणं
नामैकोनषष्टितमोऽध्यायः ५९