व्यास उवाच-
विश्वास-प्रस्तुतिः
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः
वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च ॥ १ ॥
मूलम्

निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा
दृष्ट्वापत्यस्य वापत्यं जर्जरीकृतविग्रहः ॥ २ ॥

शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे
गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः ॥ ३ ॥

फलमूलानि पूतानि नित्यमाहारमाहरेत्
यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ ४ ॥

पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान्
गृहादादाय चाश्नीयादष्टौ ग्रासान्समाहितः ॥ ५ ॥

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत्
स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः ॥ ६ ॥

अग्निहोत्रं च जुहुयात्पञ्चयज्ञान्समाचरेत्
उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ ७ ॥

चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः
सर्वभूतानुकम्पश्च प्रतिग्रहविवर्जितः ॥ ८ ॥

दर्शेन पौर्णमासेन यजेत नियतं द्विजः
ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ॥ ९ ॥

उत्तरायणं च क्रमशो दक्षिणायनमेव च
वासन्तशारदैर्मेद्ध्यैरुत्पन्नैः स्वयमाहृतैः ॥ १० ॥

पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक्
देवताभ्यः पितृभ्यश्च दत्त्वा मेध्यतरं हविः ॥ ११ ॥

शेषं समुपभुञ्जीत लवणं च स्वयङ्कृतम्
वर्ज्जयेन्मद्यमांसानि भौमानि कवकानि च ॥ १२ ॥

भूस्तृणं शष्पकं चैव श्लेष्मातक फलानि च
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ १३ ॥

न ग्रामजातान्यार्तोपि पुष्पाणि च फलानि च
श्रावणेनैव विधिना वह्निं परिचरेत्सदा ॥ १४ ॥

न द्रुह्येत्सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत्
न नक्तं किञ्चिदश्नीयाद्रात्रौ ध्यानपरो भवेत् ॥ १५ ॥

जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ १६ ॥

यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत्
तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ १७ ॥

तत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः
न हि वेदेधिकारोस्य तद्वंशेप्येवमेव हि ॥ १८ ॥

भूमौ शयीत सततं सावित्रीजप्यतत्परः
शरण्यः सर्वभूतानां सद्विभागपरः सदा ॥ १९ ॥

परिवादं मृषावादं निद्रालस्ये च वर्जयेत्
एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् ॥ २० ॥

मृगैः सह चरेद्दान्तस्तैः सहैव च संवसेत्
शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २१ ॥

सद्यः प्रक्षालको वा स्यान्माससञ्चयिकोपि वा
षण्मासनिचयो वापि समानिचय एव वा ॥ २२ ॥

नक्तं चान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः
चतुर्थकालको वा स्यात्किं वाप्यष्टमकालिकः ॥ २३ ॥

चान्द्रायणविधानैर्वा शुक्लेकृष्णे च वर्जयेत्
पक्षेपक्षे समश्नीयाद्यवागूं क्वथितां सकृत् ॥ २४ ॥

पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा
स्वाभाविकैः स्वयंशीर्णैर्वैखानसमते स्थितः ॥ २५ ॥

भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्
स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्य्यमुत्सृजेत् ॥ २६ ॥

ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशिकः
आर्द्रवासाश्च हेमन्ते क्रमशो वर्द्धयेत्तपः ॥ २७ ॥

उपस्पृशेत्त्रिषवणं पितृदेवांश्च तर्पयेत्
एकपादेन तिष्ठेत मरीचिं वा पिबेत्सदा ॥ २८ ॥

पञ्चाग्निधूमगो वा स्यादूष्मगः सोमपोपि वा
पयः पिबेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् ॥ २९ ॥

शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा
योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा ॥ ३० ॥

अथर्वशिरसोध्येता वेदान्ताभ्यासतत्परः
यमान्सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ ३१ ॥

अथ चाग्नीन्समारोप्य स्वात्मनि ध्यानतत्परः ॥ ३२ ॥

अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत्
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ ३३ ॥

गृहमेधिषु चान्येषु द्विजेषु वनचारिषु
ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान्वने वसन् ॥ ३४ ॥

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा
विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ ३५ ॥

विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च
महाप्रस्थानिकं वासौ कुर्य्यादनशनं तथा
अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ॥ ३६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वानप्रस्थाश्रमाचारधर्मो
नामाष्टपञ्चाशत्तमोऽध्यायः ५८