०५७

व्यास उवाच-

विश्वास-प्रस्तुतिः

अथातः सम्प्रवक्ष्यामि दानधर्ममनुत्तमम्
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् ॥ १ ॥

मूलम्

अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनम्
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २ ॥

यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः
तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ॥ ३ ॥

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ ४ ॥

अहन्यहनि यत्किञ्चिद्दीयते नुपकारिणे
अनुद्दिश्यफलं तस्माद्ब्राह्मणाय तु नित्यकम् ॥ ५ ॥

यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ॥ ६ ॥

अपत्यविजयैश्वर्य सुखार्थं यत्प्रदीयते
दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ ७ ॥

यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते
चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ॥ ८ ॥

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः
उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ॥ ९ ॥

कुटुम्बभुक्तिवसनाद्देयं यदतिरिच्यते
अन्यथा दीयते यद्वै न तद्दानं फलप्रदम् ॥ १० ॥

श्रोत्रियाय कुलीनाय विनीताय तपस्विने
व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ ११ ॥

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ १२ ॥

इक्षुभिः संयुतां भूमिं यवगोधूमशालिनीम्
ददाति वेदविदुषे यः स भूयो न जायते ॥ १३ ॥

गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ १४ ॥

भूमिदानात्परं दानं विद्यते नेह किञ्चन
अन्नदानं तेन तुल्यं विद्यादानं ततोधिकम् ॥ १५ ॥

यो ब्राह्मणाय शान्ताय शुचये धर्मशीलिने
ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ १६ ॥

दद्यादहरहः स्वर्णं श्रद्धया ब्रह्मचारिणे
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ १७ ॥

गृहस्थायान्नदानेन फलमाप्नोति मानवः
अन्नमेवास्य दातव्यं दत्वाप्नोति परां गतिम् ॥ १८ ॥

वैशाख्यां पूर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ १९ ॥

पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः
प्रीयतां धर्मराजेति यदा मनसि वर्त्तते ॥ २० ॥

यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ॥ २१ ॥

ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम्
घृतान्नमुदकुम्भं च वैशाख्यां तु विशेषतः ॥ २२ ॥

निर्द्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात्
सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पञ्च वा ॥ २३ ॥

तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
माघमासे तमिस्रे तु द्वादश्यां समुपोषितः ॥ २४ ॥

शुक्लाम्बरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम्
प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः ॥ २५ ॥

जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः
अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने ॥ २६ ॥

यत्किञ्चिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम्
प्रीयतामीश्वरो विष्णुर्हृषीकेशः सनातनः ॥ २७ ॥

सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ॥ २८ ॥

आराधयेद्द्विजमुखेन तस्यास्ति पुनर्भवः
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ॥ २९ ॥

स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ॥ ३० ॥

सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम्
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ॥ ३१ ॥

अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ॥ ३२ ॥

अर्चयेद्ब्राह्मणमुखे स गच्छेत्परमं पदम्
एषा तिथिर्वैष्णवी स्याद्द्वादशी शुक्लपक्षतः ॥ ३३ ॥

तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम्
यत्किञ्चिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ॥ ३४ ॥

दीयते विष्णुमेवापि तदनन्तफलं स्मृतम्
यो हि यां देवतामिच्छेत्समाराधयितुं नरः ॥ ३५ ॥

ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः
द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ॥ ३६ ॥

पूज्यन्ते ब्राह्मणा लाभे प्रतिमादिषु तैः क्वचित्
प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सता ॥ ३७ ॥

द्विजेषु देवता नित्यं पूजनीया विशेषतः
विभूतिकामः सततं पूजयेद्धि पुरन्दरम् ॥ ३८ ॥

ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः
आरोग्यकामोथ रविं धनकामो हुताशनम् ॥ ३९ ॥

कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम्
भोगकामस्तु शशिनं बलकामः समीरणम् ॥ ४० ॥

मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम्
यस्तु योगं तथा मोक्षमन्विच्छेऽज्ज्ञानमैश्वरम् ॥ ४१ ॥

अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम्
ये वाञ्च्छन्ति महाभोगान्ज्ञानानि च महेश्वरम् ॥ ४२ ॥

ते पूजयन्ति भूतेशं केशवं चापि भोगिनः
वारिदस्तृप्तिमाप्नोति जलदानं ततोधिकम् ॥ ४३ ॥

तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ॥ ४४ ॥

गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमम्
वासोदश्चन्द्रसालोक्यमश्वदो यानमुत्तमम् ॥ ४५ ॥

अन्नदाता श्रियं स्वेष्टां गोदो ब्राह्मणविष्टपम्
यानशय्याप्रदो भार्य्यामैश्वर्यमभयप्रदः ॥ ४६ ॥

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम्
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ॥ ४७ ॥

वेदविद्याविशिष्टेषु प्रेत्य स्वर्गं समश्नुते
गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते ॥ ४८ ॥

इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः
फलमूलानि पानानि शाकानि विविधानि च ॥ ४९ ॥

प्रदद्याद्ब्राह्मणेभ्यस्तु मुदायुक्तः सदा भवेत्
औषधं स्नेहमाहारं रोगिणो रोगशान्तये ॥ ५० ॥

ददानो रोगरहितः सुखी दीर्घायुरेव च
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ॥ ५१ ॥

तीक्ष्णतापं च तरति छत्रोपानत्प्रदो नरः
यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे ॥ ५२ ॥

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ ५३ ॥

सङ्क्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम्
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ॥ ५४ ॥

दत्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च
दानधर्मात्परो धर्मो भूतानां नेह विद्यते ॥ ५५ ॥

तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः
स्वर्गाय भूतिकामेन तथा पापोपशान्तये ॥ ५६ ॥

मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथान्वहम्
दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ॥ ५७ ॥

निवारयत्यधर्मात्मा तिर्यग्योनिं व्रजेत सः
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान्सुरान् ॥ ५८ ॥

सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत्
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ॥ ५९ ॥

म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः
न तस्मात्प्रतिगृह्णीयुः न वसेयुश्च तेन हि ॥ ६० ॥

आज्ञायित्वा स्वकाद्राष्ट्राद्राजा तं विप्रवासयेत्
पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् ॥ ६१ ॥

सपूर्वाभ्यधिकः पापी नरके पच्यते नरः
स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ॥ ६२ ॥

सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः
प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् ॥ ६३ ॥

न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम्
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ॥ ६४ ॥

स तेन कर्मणा पापी दहत्यासप्तमं कुलम्
यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ॥ ६५ ॥

तस्मै यत्नेन दातव्यमतिक्रम्य च सन्निधिम्
योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च ॥ ६६ ॥

तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये
न वार्यपि प्रयच्छेत नास्तिके हैतुकेपि च ॥ ६७ ॥

न पाखण्डेषु सर्वेषु नावेदविदिधर्मवित्
रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् ॥ ६८ ॥

अविद्वान्प्रतिगृह्णीयाद्भस्मी भवति काष्ठवत्
द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोतमः ॥ ६९ ॥

अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथञ्चन
वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ॥ ७० ॥

धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते
वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः ॥ ७१ ॥

न तां गतिमवाप्नोति सन्तोषाद्यामवाप्नुयात्
प्रतिग्रहरुचिर्न स्याच्छूद्रान्न तु समाहरेत् ॥ ७२ ॥

स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम्
यस्तु याति न सन्तोषं न स स्वर्गस्य भाजनम् ॥ ७३ ॥

उद्वेजयति भूतानि यथा चौरस्तथैव सः
गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन्देवतातिथीन् ॥ ७४ ॥

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः
एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः ॥ ७५ ॥

वर्तमानः संयतात्मा याति तत्परमं पदम्
पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्ववित् ॥ ७६ ॥

एकाकी विचरेन्नित्यमुदासीनः समाहितः
एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः
ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान् ॥ ७७ ॥

इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम्
समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ॥ ७८ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे गृहस्थधर्मनिर्णयो
नाम सप्तपञ्चाशत्तमोऽध्यायः ५७