व्यास उवाच-
विश्वास-प्रस्तुतिः
नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते त्वनापदि ॥ १ ॥
मूलम्

षण्मासान्यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम्
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ २ ॥

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ ३ ॥

राजान्नं वर्तकान्नं च षण्ढान्नं चर्मकारिणाम्
गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत् ॥ ४ ॥

चक्रोपजीवि रजक तस्करध्वजिनां तथा
गान्धर्वलोहकारान्नं मृतकान्नं विवर्जयेत् ॥ ५ ॥

कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च
पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ॥ ६ ॥

सुवर्णकार शैलूष व्याध वन्ध्यातुरस्य च
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डकस्य च ॥ ७ ॥

स्तेन नास्तिकयोरन्नं देवतानिन्दकस्य च
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ ८ ॥

भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥ ९ ॥

पापीयोन्नं च सङ्घान्नं शस्त्राजीवस्य चैव हि
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् ॥ १० ॥

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च
वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च ॥ ११ ॥

अप्रजानां तु नारीणां कृतघ्नस्य तथैव च
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १२ ॥

शौण्डान्नं घाण्टिकान्नं च भिषजामन्नमेव च
विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १३ ॥

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ॥ १४ ॥

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम्
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १५ ॥

यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्
अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ ॥ १६ ॥

एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्
कुशीलवः कुम्भकश्च क्षेत्रकर्मक एव च ॥ १७ ॥

एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः
पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः ॥ १८ ॥

पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः
वृन्ताकं नालिकाशाकं कुसुम्भं भस्मकं तथा ॥ १९ ॥

पलाण्डुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत्
छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च ॥ २० ॥

विलयं विमुखं चैव कोरकाणि विवर्जयेत्
गृञ्जनं किंशुकं चैव कूष्माण्डं च तथैव च ॥ २१ ॥

उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः
तथा कृसरसंयावौ पायसापूपमेव च ॥ २२ ॥
मूलम्
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः
तथा कृसरसंयावौ पायसापूपमेव च ॥ २२ ॥
विश्वास-प्रस्तुतिः
अनुपाकृत मांसं च देवान्नानि हवींषि च
यवागूं मातुलिगं च मत्स्यानप्यनुपाकृतान् ॥ २३ ॥

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत्
पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च ॥ २४ ॥

रात्रौ च तिलसम्बन्धं प्रयत्नेन दधि त्यजेत्
नाश्नीयात्पयसा तक्रं नाभक्ष्यानुपयोजयेत् ॥ २५ ॥

कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेत्
कृमिकीटावपन्नं च सुहृत्क्लेदं च नित्यशः ॥ २६ ॥

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा
उदक्यया च पतितैर्गवा सङ्घ्रातमेव च ॥ २७ ॥

असङ्गतं पर्य्युषितं पर्यस्तान्नं च नित्यशः
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव सङ्गतम् ॥ २८ ॥

मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च
न रजस्वलया दत्तं न पुंश्चल्या सरोगया ॥ २९ ॥

मलवद्वाससा वापि परवासोथ वर्जयेत्
विवत्सायाश्च गोक्षीरं मेषस्यानिर्दशस्य च ॥ ३० ॥

आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत्
बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा ॥ ३१ ॥

कुरुरं च चकोरं च जालपादं च कोकिलम्
वायसान्खञ्जरीटांश्च श्येनं गृध्रं तथैव च ॥ ३२ ॥

उलूकं चक्रवाकं च भासं पारावतं तथा
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ ३३ ॥

सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च
शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत् ॥ ३४ ॥

न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान्
जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा ॥ ३५ ॥

गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः
भक्ष्यान्पञ्चनखान्नित्यं मनुराह प्रजापतिः ॥ ३६ ॥

मत्स्यान्सशल्कान्भुञ्जीत मांसं रौरवमेव च
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ॥ ३७ ॥

मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम्
वार्ध्रीणसं बकं भक्ष्यं मीनं हंसं पराजितम् ॥ ३८ ॥

शफरी सिंहतुण्डं च तथा पाठीनरोहितौ
मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः ॥ ३९ ॥

प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया
यथाविधि प्रयुक्तं च प्राणानामपि चात्यये ॥ ४० ॥

भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते
औषधार्थमशक्तो वा नियोगाद्यज्ञकारणात् ॥ ४१ ॥

आमन्त्रितश्च यः श्राद्धे दैवे वा मांसमुत्सृजेत्
यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥ ४२ ॥

अदेयं वाप्यपेयं वा तथैवास्पृश्यमेव वा
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ ४३ ॥

तस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत्
पीत्वा पतति कर्मभ्यस्त्वसम्भाष्यो भवेद्द्विजः ॥ ४४ ॥

भक्षयित्वाप्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः
नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ॥ ४५ ॥

तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः
अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ॥ ४६ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे भक्ष्याभक्ष्यनियमो
नाम षट्पञ्चाशत्तमोऽध्यायः ५६