०५५

व्यास उवाच-

विश्वास-प्रस्तुतिः

न हिंस्यात्सर्वभूतानि नानृतं वावदेत्क्वचित्
नाहितं नाप्रिंयं वाच्यं न स्तेनः स्यात्कदाचन ॥ १ ॥

मूलम्

तृणं वा यदि वा शाकं मृदं वा जलमेव च
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ २ ॥

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि
न चान्यस्मादशक्तश्चेन्निन्दितान्वर्जयेद्बुधः ॥ ३ ॥

नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत्
प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः ॥ ४ ॥

न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः
ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ॥ ५ ॥

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
देवस्वं चापि यत्नेन सदा परिहरेत्ततः ॥ ६ ॥

पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम्
अदत्तानि च न स्तेयं मनुः प्राह प्रजापतिः ॥ ७ ॥

गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ ८ ॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः
धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेत् ॥ ९ ॥

तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथिस्थितैः
क्षुधितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः ॥ १० ॥

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं व्यागुह्य कुर्वन्स्त्रीशूद्र दम्भनम् ॥ ११ ॥

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ ॥

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपतिष्ठति
सलिगिन्नो हरेदेनस्तिर्यग्योनौ च जायते ॥ १३ ॥

याचनं योनिसम्बन्धं सहवासं च भाषणम्
कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेत् ॥ १४ ॥

देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च
देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः ॥ १५ ॥

जनापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम्
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ॥ १६ ॥

कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः
कुविचारैः क्रियालोपैर्वेदानध्ययनेन च ॥ १७ ॥

कुलान्यकुलतां यान्ति ब्राह्मणाऽतिक्रमेण च
अनृतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ॥ १८ ॥

अगोत्रधर्माचरणात्क्षिप्रं नश्यति वै कुलम्
अश्रोत्रियेषु दानाच्चा वृषलेषु तथैव च ॥ १९ ॥

विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्
अधार्मिकैर्वृते ग्रामे न व्याधिबहुले वसेत् ॥ २० ॥

शूद्रराज्ये च न वसेन्न पाखण्डजनैर्वृते
हिमवद्विन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम् ॥ २१ ॥

मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ॥ २२ ॥

पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्द्विजः
अर्द्धकोशं नदीकूलं वर्जयित्वा द्विजोत्तमः ॥ २३ ॥

नान्यत्र निवसेत्पुण्यं नान्त्यजग्रामसन्निधौ
न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः ॥ २४ ॥

न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः
एकशय्यासने पङ्क्तिर्भाण्डे पक्वान्नमिश्रणम् ॥ २५ ॥

यजनाध्यापने योनिस्तथैव सहभोजनम्
सहाध्यायस्तु दशमः सहयाजनमेव च ॥ २६ ॥

मूलम्

यजनाध्यापने योनिस्तथैव सहभोजनम्
सहाध्यायस्तु दशमः सहयाजनमेव च ॥ २६ ॥

विश्वास-प्रस्तुतिः

एकादश समुद्दिष्टा दोषाः साङ्कर्यसंस्थिताः
समीपे चाप्यवस्थानात्पापं सङ्क्रमते नृणाम् ॥ २७ ॥

तस्मात्सर्वप्रयत्नेन साङ्कर्य्यं परिवर्जयेत्
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ॥ २८ ॥

भस्मना कृतमर्य्यादा न तेषां सङ्करो भवेत्
अग्निना भस्मना चैव सलिलेन विलेखतः ॥ २९ ॥

द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते
न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् ॥ ३० ॥

परक्षेत्रे गां चरन्तीं न चाचक्षीत कर्हिचित्
न संवसेत्सूचकेन न कं वै मर्मणि स्पृशेत् ॥ ३१ ॥

न सूर्यपरिवेषं वा नेन्द्रचापं पराह्निकम्
परस्मै कथयेद्विद्वान्शशिनं वाथ काञ्चनम् ॥ ३२ ॥

न कुर्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ३३ ॥

तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत्
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥ ३४ ॥

न देवगुरुविप्राणां दीयमानं तु वारयेत्
न चात्मानं प्रशंसेद्वा परनिन्दां च वर्जयेत् ॥ ३५ ॥

वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत्
यस्तु देवानृषींश्चैव वेदान्वा निन्दते द्विजः ॥ ३६ ॥

न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः
निन्दयेद्वा गुरुं देवं वेदं वासोपबृंहणम् ॥ ३७ ॥

कल्पकोटिशतं साग्रं रौरवे पच्यते नरः
तूष्णीमासीत निन्दायां न ब्रूयात्किञ्चिदुत्तरम् ॥ ३८ ॥

कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेत्
वर्ज्जयेद्वै रहस्यानि परेषां गर्हणं बुधः ॥ ३९ ॥

विवादं स्वजनैः सार्द्धं नकुर्य्याद्वै कदाचन
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमः ॥ ४० ॥

सत्येन तुल्यो दोषः स्यादसत्याद्दोषवान्भवेत्
नृणां मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ॥ ४१ ॥

तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनाम्
ब्रह्महत्या सुरापाने स्तेये गुर्वङ्गनागमे ॥ ४२ ॥

दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने
नेक्षेतोद्यन्तमादित्यं शशिनं वाऽनिमित्ततः ॥ ४३ ॥

नास्तं यान्तं न वारिस्थं नोपस्पृष्टं न मध्यगम्
तिरोहितं समीक्षेत नादर्शाद्यनुगामिनम् ॥ ४४ ॥

न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन
न च मूत्रं पुरीषं वा न च संसृष्टमैथुनम् ॥ ४५ ॥

नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः
नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः ॥ ४६ ॥

न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम्
न तैलोदकयोश्छायां न पङ्क्तिं भोजने सति ॥ ४७ ॥

न मुक्तबन्धनं पश्येन्नोन्मत्तं गजमेव वा
नाश्नीयाद्भार्यया सार्द्धं नैनामीक्षेत चाश्नतीम् ॥ ४८ ॥

क्षुवतीं जृम्भमाणां वा नासनस्थां यथासुखम्
नोदके चात्मनो रूपं शुभं वाशुभमेव वा ॥ ४९ ॥

न लङ्घयेच्च मतिमान्नाधितिष्ठेत्कदाचन
न शूद्राय मतिं दद्यात्कृसरं पायसं दधि ॥ ५० ॥

नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः
न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः ॥ ५१ ॥

न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत्
लोभं दम्भं तथा शाठ्यं ह्यसूयां ज्ञानकुत्सनम् ॥ ५२ ॥

ईर्ष्यां मदं तथाशोकं मोहं च परिवर्जयेत्
न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् ॥ ५३ ॥

न हीनानुपसेवेत न च तृष्णामतिः क्वचित्
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ॥ ५४ ॥

न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः
न नखेन लिखेद्भूमिं गां च संवेशयन्नहि ॥ ५५ ॥

न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान्
आवासे भोजने वापि न त्यजेत्सहयायिनम् ॥ ५६ ॥

नावगाहेदपो नग्नो वह्निं नातिव्रजेत्तथा
शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ॥ ५७ ॥

न सर्प शस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत्
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ॥ ५८ ॥

न पाणि पाद वाङ्नेत्र चापल्यं समुपाश्रयेत्
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥ ५९ ॥

न चाङ्गनखवाद्यं वै कुर्यान्नाञ्जलिना पिबेत्
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥ ६० ॥

न शातयेदिष्टिकाभिर्मूलानि च फलानि च
न म्लेच्छभाषणं शिक्षेन्नाकर्षेच्च पदासनम् ॥ ६१ ॥

नखभेदनमास्फोटं छेदनं वा विलेखनम्
कुर्य्याद्विमर्द्दनं धीमान्नाकस्मादेव निष्फलम् ॥ ६२ ॥

नोत्सङ्गे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेत्
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥ ६३ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः
न लौकिकैस्तवैर्देवांस्तोषयेद्वाक्पतेरपि ॥ ६४ ॥

नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत्
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥ ६५ ॥

न गच्छंस्तु पठेद्वापि न चैव स्वशिरः स्पृशेत्
न दन्तैर्नखरोमाणि च्छिन्द्यात्सुप्तं न बोधयेत् ॥ ६६ ॥

नाबालातपमासेवेत्प्रेतधूमं विवर्जयेत्
नैव स्वप्याच्छून्यगेहे स्वयं नोपानहौ हरेत् ॥ ६७ ॥

नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत्
न पादक्षालनं कुर्यात्पादेनैव कदाचन ॥ ६८ ॥

नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः
नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा ॥ ६९ ॥

वाय्वग्निनृपविप्रान्वा सूर्यं वा शशिनं प्रति
अशुद्धः शयनं पानं स्वाध्यायं स्नान भोजनम् ॥ ७० ॥

बहिर्निष्क्रमणं चैव न कुर्वीत कदाचन
स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् ॥ ७१ ॥

उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत्
न स्पृशेत्पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान् ॥ ७२ ॥

न चालनं पदा वापि न देवप्रतिमां स्पृशेत्
नाशुद्धोग्निं परिचरेन्न देवान्कीर्तयेदृषीन् ॥ ७३ ॥

नावगाहेदगाधाम्बु धावयेन्नाऽनिमित्ततः
न वामहस्तेनोद्धृत्य पिबेद्वक्त्रेण वा जलम् ॥ ७४ ॥

नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत्
अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा ॥ ७५ ॥

व्यतिक्रामेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत्
चैत्यवृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ॥ ७६ ॥

नास्थिभस्मकपालानि न केशान्न च कण्टकान्
तुषाङ्गारकरीषं वा नाधितिष्ठेत्कदाचन ॥ ७७ ॥

न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित्
न चैनं पादतः कुर्य्याच्छूर्पेण न धमेद्बुधः ॥ ७८ ॥

न वृक्षमवरोहेत नावेक्षेताशुचिः क्वचित्
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥ ७९ ॥

सुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान्
अपण्यं कूटपण्यं वा विक्रयेन प्रयोजयेत् ॥ ८० ॥

न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः
पुण्यस्थानोदकस्थाने सीमान्तं वाहयेन्न तु ॥ ८१ ॥

न भिन्द्यात्पूर्वसमयमभ्युपेतं कदाचन
परस्परं पशून्व्याघ्रान्पक्षिणो न च योधयेत् ॥ ८२ ॥

परबाधां न कुर्वीत जलवातातपादिभिः
कारयित्वा सुकर्माणि गुरून्पश्चान्न वञ्चयेत् ॥ ८३ ॥

सायम्प्रातर्गृहद्वारान्रक्षार्थं परिघट्टयेत्
बहिर्माल्यं सुगन्धिं वा भार्यया सह भोजनम् ॥ ८४ ॥

विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत्
नखादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसेद्बुधः ॥ ८५ ॥

स्वमग्निं चैव हस्तेन स्पृशेन्नाप्सुचिरं वसेत्
न पक्षकेणोपधमेन्न शूर्पेण च पाणिना ॥ ८६ ॥

मुखेनाग्निं समिन्धीत मुखादग्निरजायत
परस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः ॥ ८७ ॥

नैकश्चरेत्सदा विप्रः समुदायं च वर्जयेत्
न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् ॥ ८८ ॥

न पीडयेद्वा वस्त्राणि न देवायतने स्वपेत्
नैकोध्वानं प्रपद्येत नाधार्मिकजनै सह ॥ ८९ ॥

न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा
नोपानद्वर्जितो वाथ जलादिरहितस्तथा ॥ ९० ॥

न वर्त्मनि चितिं वाममतिक्रामेत्क्वचिद्द्विजः
न निन्देद्योगिनः सिद्धान्व्रतिनो वा यतींस्तथा ॥ ९१ ॥

देवतायतनं प्राज्ञा देवानां चैव सत्रिणाम्
नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि ॥ ९२ ॥

स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः
नाङ्गारभस्मकेशादिष्वधितिष्ठेत्कदाचन ॥ ९३ ॥

वर्जयेन्मार्जनी रेणुं स्नानवस्त्र घटोदकम्
न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः ॥ ९४ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे पञ्चपञ्चाशत्तमोऽध्यायः ५५