व्यास उवाच-
विश्वास-प्रस्तुतिः
वेदं वेदौ तथा वेदान्वेदाङ्गानि तथा द्विजाः
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥ १ ॥
मूलम्
वेदं वेदौ तथा वेदान्वेदाङ्गानि तथा द्विजाः
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥ १ ॥
विश्वास-प्रस्तुतिः
गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति ॥ २ ॥
मूलम्
गुरवे तु धनं दत्वा स्नायीत तदनुज्ञया
तीर्णव्रतोथ युक्तात्मा शक्तो वा स्नातुमर्हति ॥ २ ॥
विश्वास-प्रस्तुतिः
वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥
मूलम्
वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम्
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ
रौक्मे च कुण्डले धार्ये कृत्तकेशनखः शुचिः ॥ ४ ॥
मूलम्
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ
रौक्मे च कुण्डले धार्ये कृत्तकेशनखः शुचिः ॥ ४ ॥
विश्वास-प्रस्तुतिः
अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात्स्रजम्
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ॥ ५ ॥
मूलम्
अन्यत्र काञ्चनाद्विप्रो न रक्तां बिभृयात्स्रजम्
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ॥ ५ ॥
विश्वास-प्रस्तुतिः
न जीर्ण मलवद्वासा भवेद्वै विभवे सति
न रक्तमुल्बणं चान्य धृतं वासो न कुण्डलम् ॥ ६ ॥
मूलम्
न जीर्ण मलवद्वासा भवेद्वै विभवे सति
न रक्तमुल्बणं चान्य धृतं वासो न कुण्डलम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत्
उपवीतमलङ्कारं दर्शयन्कृष्णमाजिनम् ॥ ७ ॥
मूलम्
नोपानहौ स्रजं चाथ पादुके च प्रयोजयेत्
उपवीतमलङ्कारं दर्शयन्कृष्णमाजिनम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
नापसव्यं परीदध्याद्वासो न विकृतं वसेत्
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ॥ ८ ॥
मूलम्
नापसव्यं परीदध्याद्वासो न विकृतं वसेत्
आहरेद्विधिवद्दारान्सदृशानात्मनः शुभान् ॥ ८ ॥
विश्वास-प्रस्तुतिः
रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान्
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ॥ ९ ॥
मूलम्
रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान्
अपितृगोत्रजभवामन्यमानुषगोत्रजाम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते ॥ १० ॥
मूलम्
आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम्
ऋतुकालाभिगामी स्याद्यावत्पुत्रोभिजायते ॥ १० ॥
विश्वास-प्रस्तुतिः
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ॥ ११ ॥
मूलम्
वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु
षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् ॥ १२ ॥
मूलम्
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि
आदधीत विवाहाग्निं जुहुयाज्जातवेदसम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
एतानि स्नातको नित्यं पावनानि च पावयेत्
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ॥ १३ ॥
मूलम्
एतानि स्नातको नित्यं पावनानि च पावयेत्
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अकुर्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ॥ १४ ॥
मूलम्
अकुर्वाणः पतत्याशु नरकानतिभीषणान्
अभ्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् ॥ १४ ॥
विश्वास-प्रस्तुतिः
कुर्याद्गृह्याणि कार्याणि सन्ध्योपासनमेव च
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ॥ १५ ॥
मूलम्
कुर्याद्गृह्याणि कार्याणि सन्ध्योपासनमेव च
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ॥ १५ ॥
विश्वास-प्रस्तुतिः
दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम्
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि ॥ १६ ॥
मूलम्
दैवतान्यभिगच्छेत कुर्य्याद्भार्य्याभिपोषणम्
न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि ॥ १६ ॥
विश्वास-प्रस्तुतिः
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥ १७ ॥
मूलम्
कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पकः
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥ १७ ॥
विश्वास-प्रस्तुतिः
देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः ॥ १८ ॥
मूलम्
देशवाग्बुद्धिसारूप्यमाचरन्विचरेत्सदा
श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सेवितः ॥ १८ ॥
विश्वास-प्रस्तुतिः
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ॥ १९ ॥
मूलम्
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित्
येनास्य पितरो याता येन याताः पितामहाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ॥ २० ॥
मूलम्
तेन यायात्सतां मार्गं तेन गच्छन्न दुष्यति
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ॥ २० ॥
विश्वास-प्रस्तुतिः
सत्यवादी जितक्रोधो लोभमोहविवर्जितः
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही ॥ २१ ॥
मूलम्
सत्यवादी जितक्रोधो लोभमोहविवर्जितः
सावित्रीजाप निरतः श्राद्धकृन्मुच्यते गृही ॥ २१ ॥
विश्वास-प्रस्तुतिः
मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २२ ॥
मूलम्
मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः
दाता यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २२ ॥
विश्वास-प्रस्तुतिः
त्रिवर्गसेवी सततं देवानां च समर्चनम्
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥ २३ ॥
मूलम्
त्रिवर्गसेवी सततं देवानां च समर्चनम्
कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥ २३ ॥
विश्वास-प्रस्तुतिः
विभागशीलः सततं क्षमायुक्तो दयालुकः
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २४ ॥
मूलम्
विभागशीलः सततं क्षमायुक्तो दयालुकः
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ २५ ॥
मूलम्
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः
यथाशक्ति चरन्धर्मं निन्दितानि विवर्जयेत् ॥ २६ ॥
मूलम्
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः
यथाशक्ति चरन्धर्मं निन्दितानि विवर्जयेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्
गृहस्थो मुच्यते बन्धान्नात्र कार्याविचारणा ॥ २७ ॥
मूलम्
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम्
गृहस्थो मुच्यते बन्धान्नात्र कार्याविचारणा ॥ २७ ॥
विश्वास-प्रस्तुतिः
विगर्हित जय क्षेप हिंसा बन्धवधात्मनाम्
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा ॥ २८ ॥
मूलम्
विगर्हित जय क्षेप हिंसा बन्धवधात्मनाम्
अन्यमन्यु समुत्थानां दोषाणां मर्षणं क्षमा ॥ २८ ॥
विश्वास-प्रस्तुतिः
स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम्
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ २९ ॥
मूलम्
स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदम्
दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
चतुर्दशानां विद्यानां धारणा हि परार्थतः
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥ ३० ॥
मूलम्
चतुर्दशानां विद्यानां धारणा हि परार्थतः
विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥ ३० ॥
विश्वास-प्रस्तुतिः
अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ॥ ३१ ॥
मूलम्
अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते
धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सत्येन लोकं जयति सत्यं तत्परमं पदम्
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३२ ॥
मूलम्
सत्येन लोकं जयति सत्यं तत्परमं पदम्
यथा भूता प्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ॥ ३३ ॥
मूलम्
दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः
अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति ॥ ३३ ॥
विश्वास-प्रस्तुतिः
यया स देवोभगवान्विद्यया विद्यते परः
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३४ ॥
मूलम्
यया स देवोभगवान्विद्यया विद्यते परः
साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३५ ॥
मूलम्
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ॥ ३६ ॥
मूलम्
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत्
नहि देहं विना विष्णुः पुरुषैर्विद्यतेपरः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३७ ॥
मूलम्
नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत्
धर्मो हि भगवान्देवो गतिः सर्वेषु जन्तुषु ॥ ३८ ॥
मूलम्
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत्
धर्मो हि भगवान्देवो गतिः सर्वेषु जन्तुषु ॥ ३८ ॥
विश्वास-प्रस्तुतिः
भूतानाम्प्रियकारीस्यान्नपरद्रो हकर्मधीः
न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवसेत् ॥ ३९ ॥
मूलम्
भूतानाम्प्रियकारीस्यान्नपरद्रो हकर्मधीः
न वेददेवतानिन्दां कुर्य्यात्तैश्च न संवसेत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४० ॥
मूलम्
यस्त्विमं नियतो मर्त्यो धर्माध्यायं पठेच्छुचिः
अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४० ॥
इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुःपञ्चाशत्तमोऽध्यायः ५४