०५३

व्यास उवाच-

विश्वास-प्रस्तुतिः

एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः
आहूतोध्यापनं कुर्याद्वीक्ष्यमाणो गुरोर्मुखम् ॥ १ ॥

मूलम्

नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ २ ॥

प्रतिश्रवणसम्भाषे शयानो न समाचरेत्
आसीनो न च भुञ्जानो न तिष्ठेन्न पराङ्मुखः ॥ ३ ॥

नीचैः शय्यासनं चास्य सर्वदा गुरुसन्निधौ
गुरोस्तु चक्षुर्विषयेन यथेष्टासनो भवेत् ॥ ४ ॥

नोदाहरेदस्य नाम परोक्षमपि केवलम्
न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥ ५ ॥

गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ६ ॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियः
न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ ॥ ७ ॥

उदकुम्भं कुशान्पुष्पं समिधोऽस्याहरेत्सदा
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ ८ ॥

नास्य निर्माल्यशयनं पादुकोपानहावपि
आक्रामेदासनं चास्य च्छायादीन्वा कदाचन ॥ ९ ॥

साधयेद्दन्तकाष्ठादींल्लब्धं चास्मै निवेदयेत्
अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रतः ॥ १० ॥

न पादौ सारयेदस्य सन्निधाने कदाचन
जृम्भितं हसितं चैव कण्ठप्रावरणं तथा ॥ ११ ॥

वर्जयेत्सन्निधौ नित्यमङ्गस्फोटनमेव च
यथाकालमधीयीत यावन्न विमना गुरुः ॥ १२ ॥

मूलम्

वर्जयेत्सन्निधौ नित्यमङ्गस्फोटनमेव च
यथाकालमधीयीत यावन्न विमना गुरुः ॥ १२ ॥

विश्वास-प्रस्तुतिः

आसीनोऽधो गुरोः पार्श्वे सेवां च सुसमाहितः
आसने शयने याने नैव तिष्ठेत्कदाचन ॥ १३ ॥

धावन्तमनुधावेत गच्छन्तमनुगच्छति
गोश्वोष्ट्रयानप्रासादे तथाधोविष्टरेषु च ॥ १४ ॥

आसीत गुरुणा सार्द्धं शिलाफलक नौषु च
जितेन्द्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः ॥ १५ ॥

प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम्
गन्धमाल्यं रसं कल्पं शुक्तिं प्राणिविहिंसनम् ॥ १६ ॥

अभ्यञ्जनाञ्जनोन्मर्द्दच्छत्रधारणमेव च
कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् ॥ १७ ॥

आतर्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १८ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिका कुशान्
आहरेद्यावदन्नानि भैक्ष्यं चाहरहश्चरेत् ॥ १९ ॥

घृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्
अनृत्यदर्शी सततं भवेद्गीतादि निस्पृहः ॥ २० ॥

नादित्यं वै समीहेत नाचरेद्दन्तधावनम्
एकान्तमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् ॥ २१ ॥

गुरूच्छिष्टं भेषजान्नं प्रयुञ्जीत न कामतः
मलापकर्षणं स्नानं नाचरेद्धि कदाचन ॥ २२ ॥

न कुर्यान्मानसं विप्रो गुरोस्त्यागे कथञ्चन
मोहाद्वा यदि वा लोभात्त्यक्त्वा तु पतितो भवेत् ॥ २३ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा
आददीत यतो ज्ञानं तं न द्रुह्येत्कदाचन ॥ २४ ॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य न मनुस्त्यागमब्रवीत् ॥ २५ ॥

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्
नत्वाभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ॥ २६ ॥

विद्यागुरुष्वेतदेवं नित्यावृत्तिषु योगिषु
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च ॥ २७ ॥

श्रेयः स्वगुरुवद्वृत्तिं नित्यमेव समाचरेत्
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ २८ ॥

बालः सम्मानयेन्मान्याञ्छिष्टो वा यदि कर्मणि
अध्यापयन्गुरोः सूनुं गुरुवन्मानमर्हति ॥ २९ ॥

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजनः
न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ ३० ॥

गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः
असवर्णाश्च सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ ३१ ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ ३२ ॥

गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः
कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ ३३ ॥

विप्रोष्य पादग्रहणपूर्वकं चाभिवादनम्
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ ३४ ॥

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा
सम्पूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ ३५ ॥

भ्रातृभार्याश्च सङ्ग्राह्या सवर्णा हन्यहन्यपि
विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ ३६ ॥

पितुर्भगिन्या मातुश्च जायस्यां च स्वसर्यपि
मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ ३७ ॥

एवमाचारसम्पन्नमात्मवन्तमदाम्भिकम्
वेदमध्यापयेद्धर्मं पुराणाङ्गानि नित्यशः ॥ ३८ ॥

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन्
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ ३९ ॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः
शक्तोन्नदोम्बुदः साधुरध्याप्यादश धर्मतः ॥ ४० ॥

कृतकण्ठस्तथाऽद्रोहः मेधावी गुरुकृन्नरः
आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः ॥ ४१ ॥

एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम्
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥ ४२ ॥

मूलम्

एतेषु ब्राह्मणे दानमन्यत्र तु यथोचितम्
आचम्य संयतो नित्यमधीयीत उदङ्मुखः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

उपसङ्गृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम्
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाऽरमेत् ॥ ४३ ॥

प्राक्कूलान्पर्युपासीत पवित्रैश्चैव पावकः
प्राणायामैस्त्रिभिः पूतस्ततोङ्कारमर्हति ॥ ४४ ॥

ब्राह्मणः प्रणवं कुर्यादन्तेऽपि विधिवद्द्विजाः
कुर्यादध्यापनं नित्यं सब्रह्माञ्जलिपूर्वतः ॥ ४५ ॥

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः
अधीयीताप्ययं नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ॥ ४६ ॥

अधीयीत ऋचो नित्यं क्षीराहुत्या सदेवताः
प्रीणाति तर्पयन्कालं कामैर्हूताः सदैवताः ॥ ४७ ॥

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ ४८ ॥

अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः
धर्माङ्गानि पुराणानि मांसैस्तर्पयतेसुरान् ॥ ४९ ॥

प्रातश्च सायं प्रयतो नैत्यकं विधिमाश्रितः
गायत्रीं समधीयीत गत्वारण्यं समाहितः ॥ ५० ॥

सहस्रपरमां देवीं शतमध्यां दशावराम्
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥ ५१ ॥

गायत्रीं चैव वेदांश्च तुलया तोलयत्प्रभुः
एकतश्चतुरोवेदा गायत्रीं च तथैकतः ॥ ५२ ॥

ॐकारमादितः कृत्वा व्याहृतीस्तदनन्तरम्
ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ ५३ ॥

पुराकल्पे समुत्पन्ना भूर्भुवः स्वः सनातनाः
महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ॥ ५४ ॥

प्रधानं पुरुषः कालो विष्णुब्रह्ममहेश्वराः
सत्वंरजस्तमस्तिस्रः क्रमाद्व्याहृतयः स्मृताः ॥ ५५ ॥

ॐकारस्तत्परं ब्रह्म सावित्री स्यात्तदुत्तरम्
एष मन्त्रो महायोगः सारात्सार उदाहृतः ॥ ५६ ॥

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम्
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ ५७ ॥

गायत्री वेदजननी गायत्री लोकपावनी
गायत्र्या न परं जप्यमेतद्विज्ञायमुच्यते ॥ ५८ ॥

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ ५९ ॥

यत्सूर्ययाम्यगमनं मासान्विप्रोर्द्धपञ्चमान्
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ ६० ॥

पुष्ये तुच्छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः
मासि शुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ ६१ ॥

छदांसि च द्विजोऽभ्यस्येच्छुक्लपक्षे तु वै द्विजः
वेदाङ्गानि पुराणानि कृष्णपक्षेषु मानवः ॥ ६२ ॥

इमान्नित्यमनध्यायानधीयानो विवर्जयेत्
अध्यापनं च कुर्वाणोऽभ्यस्यन्नपि प्रयत्नतः ॥ ६३ ॥

कर्णश्रवेऽनिले रात्रौ दिवापांसुसमूहने
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ॥ ६४ ॥

अकालिकमनध्यायमेतेष्वाह प्रजापतिः
एतानभ्युदिनान्विद्याद्यदा प्रादुष्कृताग्निषु ॥ ६५ ॥

तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ॥ ६६ ॥

एतानकालिकान्विद्यादनध्यायानृतावपि
प्रादुष्कृतेष्वग्निषु च विद्युत्स्तनितनिस्वने ॥ ६७ ॥

सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ॥ ६८ ॥

धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः
अन्तः शवगतेग्रामे वृषलस्य च सन्निधौ ॥ ६९ ॥

अनध्यायोरुद्यमाने समये जलदस्य च
उदके चार्धरात्रे च विण्मूत्रं च विसर्जयन् ॥ ७० ॥

उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत्
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य वेतनम् ॥ ७१ ॥

त्र्यहं न कारयेद्ब्रह्म राज्ञो राहोश्च सूतके
यावदेकान्ननिष्ठा स्यात्स्नेहालोपश्च तिष्ठति ॥ ७२ ॥

विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत्
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ ७३ ॥

नाधीयीतामिषं जग्ध्वा शूद्रश्राद्धान्नमेव च
नीहारे बाणशब्दे च सन्ध्ययोरुभयोरपि ॥ ७४ ॥

अमावास्या चतुर्दश्योः पौर्णमास्यष्टमीषु च
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ॥ ७५ ॥

अष्टकासु अहोरात्रमृत्वन्तासु च रात्रिषु
मार्गशीर्षे तथा पौषे माघमासे तथैव च ॥ ७६ ॥

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेषु सूरिभिः
श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ॥ ७७ ॥

कदाचिदपि नाध्येयं कोविदारकपित्थयोः
समानविद्ये च मृते तथा सब्रह्मचारिणि ॥ ७८ ॥

आचार्ये संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम्
छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः ॥ ७९ ॥

हिंसन्ति राक्षसास्तेषु तस्मादेतान्विवर्जयेत्
नैत्यकेनास्त्यनध्यायः सन्ध्योपासनमेव च ॥ ८० ॥

उपाकर्मणि होमान्ते होममध्ये तथैव च
एकामृचमथैकं वा यजुः सामानि वा पुनः ॥ ८१ ॥

नाष्टकाद्यास्वधीयीत मारुते चाभिधावति
अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ॥ ८२ ॥

न धर्मशास्त्रेष्वन्येषु सर्वाण्येतानि वर्जयेत्
एष धर्मः समासेन कीर्तितो ब्रह्मचारिणः ॥ ८३ ॥

ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम्
योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ॥ ८४ ॥

स सम्मूढो न सम्भाष्यो वेदबाह्यो द्विजातिभिः
न वेदपाठमात्रेण सन्तुष्टो वै भवेद्द्विजः ॥ ८५ ॥

पाठमात्रावसानस्तु पङ्के गौरिव सीदति
योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् ॥ ८६ ॥

स सम्मूढः शूद्रकल्पः पात्रतां न प्रपद्यते
यदित्वात्यन्तिकं वासं कर्तुमिच्छति वै गुरौ ॥ ८७ ॥

युक्तः परिचरेदेनमाशरीरविमोक्षणम्
गत्वा वनं च विधिवज्जुहुयाज्जातवेदसम् ॥ ८८ ॥

अधीयीत तथा नित्यं ब्रह्मनिष्ठः समाहितः
सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः
अभ्यसेत्सततं युक्तो भिक्षाशनपरायणः ॥ ८९ ॥

एतद्विधानं परमं पुराणं वेदागमे सम्यगिहोदितं वः
पुरा महर्षिप्रवराभिपृष्टः स्वायम्भुवो यन्मनुराह देवः ॥ ९० ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथनं
नाम त्रिपञ्चाशत्तमोऽध्यायः ५३