०५२

व्यास उवाच-

विश्वास-प्रस्तुतिः

भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे
ओष्ठावलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १ ॥

मूलम्

रेतोमूत्रपुरीषाणामुत्सर्गेऽनृतभाषणे
ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ २ ॥

चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः
सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्पुनः ॥ ३ ॥

चण्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे
उच्छिष्टं पुरुषं दृष्ट्वा भोज्यं चापि तथाविधम् ॥ ४ ॥

आचामेदश्रुपाते वा लोहितस्य तथैव च
भोजने सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥ ५ ॥

आगतो वाचमेत्सुप्त्वा सकृत्सकृदथान्यतः
अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ॥ ६ ॥

स्त्रीणामथात्मनः स्पर्शे नीलद्यं वा परिधाय च
उपस्पर्शेज्जलं वार्तं तृणं वा भूमिमेव च ॥ ७ ॥

केशानां चात्मनः स्पर्शे वाससः स्खलितस्य च
अनुष्णाभिरकेशाभिरदुष्टाभिश्च धर्मतः ॥ ८ ॥

शौचेऽप्सु सर्वदा चामेदासीनः प्रागुदङ्मुखः
शिरः प्रावृत्य कण्ठं वा मुक्तकेशशिखोऽपि वा ॥ ९ ॥

अकृत्वा पादयोः शौचं मार्गतो न शुचिर्भवेत्
सोपानत्कोपानस्थो वा नोष्णीषी चाचमेद्बुधः ॥ १० ॥

न चैव वर्षधाराभिर्न तिष्ठन्नुद्धृतोदकैः
नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ॥ ११ ॥

न पादुकासनस्थो वा बहिर्जानुरथापि वा
न जल्पन्न हसन्प्रेक्षन्शयानस्तल्प एव च ॥ १२ ॥

नाविक्षिताभिः फेनाद्यैरुपेताभिरथापि वा
शूद्राशुचिकरोन्मुक्तैर्नक्षाराभिस्तथैव च ॥ १३ ॥

न चैवाङ्गुलिभिः शब्दं न कुर्यान्नान्यमानसः
न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ॥ १४ ॥

न पाणिक्षुभिताभिर्वा न बहिर्गन्ध एव वा
हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ॥ १५ ॥

प्राशिताभिस्तथा वैश्यः स्त्रीशूद्रौ स्पर्शतोंऽततः
अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ॥ १६ ॥

अन्तराङ्गुष्ठदेशिन्यैः पितॄणां तीर्थमुच्यते
कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते ॥ १७ ॥

अङ्गुल्यग्रं स्मृतं दैवं तदेवार्षं प्रकीर्तितम्
मूलेन दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतम् ॥ १८ ॥

तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति
ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १९ ॥

होमयेद्वाथ दैवेन न तु पित्र्येण वै द्विजाः
त्रिःप्राश्नीयादपः पूर्वं ब्राह्मेण प्रयतस्ततः ॥ २० ॥

सम्मृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत्
अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ॥ २१ ॥

तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम्
कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुस्पृशेत् ॥ २२ ॥

सर्वासामथयोगेन हृदयं तु तनवा
स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनांसकद्वयम् ॥ २३ ॥

त्रिःप्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः
ब्रह्माविष्णुर्महेशश्च भवन्तीत्यनुशुश्रुम ॥ २४ ॥

गङ्गा च यमुना चैव प्रीयेते परिमार्जनात्
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ २५ ॥

नासत्यदस्रौ प्रीयेते स्पृशेन्नासापुटद्वयम्
कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ ॥ २६ ॥

संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् ॥ २७ ॥

नोच्छिष्टं कुर्वते वक्त्रे विप्रुषोङ्गे लगन्ति याः
दन्तवद्दन्तलग्नेषु जिह्वास्पर्शे शुचिर्भवेत् ॥ २८ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्
भूमिपांशुसमा ज्ञेया न तैरस्पृश्यता भवेत् ॥ २९ ॥

मधुपर्के च सोमे च ताम्बूलस्य च भक्षणे
फलमूले चेक्षुदण्डेन दोषं प्राह वै मनुः ॥ ३० ॥

प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३१ ॥

तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः
भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३२ ॥

यद्यद्द्रव्यं समादाय भवेदुच्छेषणान्वितः
अनिधायैव तद्द्रव्यं भूमौ त्वशुचितामियात् ॥ ३३ ॥

वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याचमेदिह
अरण्ये निर्जने रात्रौ चौरव्याघ्राकुले पथि ॥ ३४ ॥

कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति
निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ ३५ ॥

अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः
अन्तर्धाय महीं काष्टैः पत्रैर्लोष्टतृणेन वा ॥ ३६ ॥

प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम्
छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ॥ ३७ ॥

अग्नौ चैव श्मशाने च विण्मूत्रं न समाचरेत्
न गोमयेन काष्ठे वा महावृक्षेऽथ शाद्वले ॥ ३८ ॥

न तिष्ठन्न च निर्वासा न च पर्वतमण्डले
न जीर्णदेवायतने वल्मीके न कदाचन ॥ ३९ ॥

मूलम्

न तिष्ठन्न च निर्वासा न च पर्वतमण्डले
न जीर्णदेवायतने वल्मीके न कदाचन ॥ ३९ ॥

विश्वास-प्रस्तुतिः

न ससत्वेषु गर्तेषु न गच्छन्न समाचरेत्
तुषाङ्गारकपालेषु राजमार्गे तथैव च ॥ ४० ॥

न क्षेत्रे न बिले वापि न तीर्थे न चतुष्पथे
नोद्यानेऽपासमीपे वा नोषरे नगराशये ॥ ४१ ॥

न सोपानत्पादुको वा छत्री वा नान्तरिक्षके
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ॥ ४२ ॥

न देवदेवालययोरपामपि कदाचन
न ज्योतींषि निरीक्षन्वानवाप्रतिमुखोथ वा ॥ ४३ ॥

प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च
आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणीम् ॥ ४४ ॥

कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः
नाहरेन्मृतिकां विप्रः पांशुलां न सकर्दमाम् ॥ ४५ ॥

न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च
न देवायतनात्कूपाद्धाम्नो न च जलात्तथा ॥ ४६ ॥

उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ॥ ४७ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथने
द्विपञ्चाशत्तमोऽध्यायः ५२