०५१

ऋषय ऊचु-

विश्वास-प्रस्तुतिः

कर्मयोगः कथं सूत येन चाराधितो हरिः
प्रसीदति महाभाग वद नो वदतां वर ॥ १ ॥

मूलम्

कर्मयोगः कथं सूत येन चाराधितो हरिः
प्रसीदति महाभाग वद नो वदतां वर ॥ १ ॥

विश्वास-प्रस्तुतिः

येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः
तद्वदाखिललोकानां रक्षणं धर्मसङ्ग्रहम् ॥ २ ॥

तं कर्मयोगं वद नः सूत मूर्तिमयस्तु यः
इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः ॥ ३ ॥

सूत उवाच-
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः
ऋषिभिरग्निसङ्काशैर्व्यासस्तानाह तच्छृणु ॥ ४ ॥

व्यास उवाच-
शृणुध्वम्मृषयः सर्वे वक्ष्यमाणं सनातनम्
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ ५ ॥

आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम्
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ ६ ॥

सर्वव्याधिहरं पुण्यमृषिसङ्घैर्निषेवितम्
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ ७ ॥

मूलम्

सर्वव्याधिहरं पुण्यमृषिसङ्घैर्निषेवितम्
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ ७ ॥

विश्वास-प्रस्तुतिः

कृतोपनयनो वेदानधीयीत द्विजोत्तमः
गर्भाष्टमेऽष्टमेवाब्दे स्वसूत्रोक्तविधानतः ॥ ८ ॥

दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः
भिक्षाहारो गुरुहितो वीक्ष्यमाणो गुरोर्मुखम् ॥ ९ ॥

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा
ब्राह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा ॥ १० ॥

सदोपवीती चैव स्यात्सदाबद्ध शिखो द्विजः
अन्यथा यत्कृतं कर्म तद्भवत्ययथाकृतम् ॥ ११ ॥

वसेदविकृतं वासः कार्पासं वा कषायकम्
तदेव परिधानीयं शुक्लं तान्तवमुत्तमम् ॥ १२ ॥

उत्तरं तु समाम्नातं वासः कृष्णाजिनं शुभम्
अभावे गावयमपि रौरवं वा विधीयते ॥ १३ ॥

उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम्
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १४ ॥

सव्यबाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः
प्राचीनावीतमित्युक्तं पित्र्येकर्मणि योजयेत् ॥ १५ ॥

अग्न्यागारे गवां गोष्ठे होमे तप्ये तथैव च
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १६ ॥

उपासने गुरूणां च सन्ध्ययोः साधुसङ्गमे
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १७ ॥

मौञ्जी त्रिवृत्समां श्लिष्टां कुर्याद्विप्रस्य मेखलाम्
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १८ ॥

धारयेद्वैणवपालाशौ दण्डौ केशान्तिकौ द्विजः
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥ १९ ॥

सायम्प्रातर्द्विजः सन्ध्यामुपासीत समाहितः
कामाल्लोभाद्भयान्मोहात्त्यक्त्वैनां पतितो भवेत् ॥ २० ॥

अग्निकार्यं ततः कुर्यात्सायम्प्रातः प्रसन्नधीः
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा ॥ २१ ॥

देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवाम्बुभिः
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ २२ ॥

असावहं भो नामेति सम्यक्प्रणतिपूर्वकम्
आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः ॥ २३ ॥

आयुष्मान्भव सौम्येति वचो विप्रोऽभिवादने
आकारश्चास्य नाम्नोंऽते वाच्यः पूर्वाक्षरप्लुतः ॥ २४ ॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २५ ॥

व्यत्यस्तपाणिना कार्यं पादसङ्ग्रहणं गुरोः
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ २६ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा
अवाप्य प्रयतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २७ ॥

नोदकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा
एवंविधानि चान्यानि न देवार्थेषु कर्मसु ॥ २८ ॥

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २९ ॥

उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीतितः
मातुलः श्वशुरश्चैव मातामह पितामहौ ॥ ३० ॥

वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥ ३१ ॥

श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः
ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ॥ ३२ ॥

अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः
गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलि ॥ ३३ ॥

नैतैरुपविशेत्सार्द्धं विवदेन्नात्मकारणात्
जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ॥ ३४ ॥

उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः
गुरूणामपि सर्वेषां पञ्च पूज्या विशेषतः ॥ ३५ ॥

तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता
यो भावयति या सूते येन विद्योपदिश्यते ॥ ३६ ॥

ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ॥ ३७ ॥

पूजनीया विशेषेण पञ्चैते भूतिमिच्छता
यावत्पिता च माता च द्वावेतौ निर्विकारिणौ ॥ ३८ ॥

तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥ ३९ ॥

स पुत्रः सकलं धर्मं प्राप्नुयात्तेन कर्मणा
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥ ४० ॥

तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते
तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा ॥ ४१ ॥

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत्
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥ ४२ ॥

धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ॥ ४३ ॥

शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ॥ ४४ ॥

तेन दोषेण सम्प्रेत्य निरयं घोरमृच्छति
पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा ॥ ४५ ॥

अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम्
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥ ४६ ॥

असावहमिति ब्रूयात्प्रत्युत्थायाभिवादयेत्
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥ ४७ ॥

भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्
अभिवाद्यश्च पूज्यश्च शिरसानम्य एव च ॥ ४८ ॥

ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा
नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथञ्चन ॥ ४९ ॥

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ॥ ५० ॥

सवर्णेन सवर्णानां कार्यमेवाभिवादनम्
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥ ५१ ॥

पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः
विद्याकर्मवयोबन्धुर्वित्तं भवति पञ्चमम् ॥ ५२ ॥

मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात्
पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ॥ ५३ ॥

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः
पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे ॥ ५४ ॥

वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ॥ ५५ ॥

निवेद्य गुरुवेऽश्नीयाद्वाग्यतस्तदनुज्ञया
भवत्पूर्वं चरेद्भैक्ष्यमुपवीती द्विजोत्तमः ॥ ५६ ॥

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ॥ ५७ ॥

भिक्षेत भिक्षाम्प्रथमं याचैनं न विमानयेत्
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ॥ ५८ ॥

भैक्ष्यस्याचरणं प्रोक्तं पतिता दिवि वर्जितम्
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ॥ ५९ ॥

ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम्
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥ ६० ॥

अलाभेत्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्
सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसम्भवे ॥ ६१ ॥

नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन्
समाहृत्य तु भैक्ष्यान्नं यावदर्थममायया ॥ ६२ ॥

भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः
भैक्ष्येण वर्तयेन्नित्यं नैवेकान्नो भवेद्व्रती ॥ ६३ ॥

भैक्ष्यैण वर्त्तिनो वृत्तिरुपवाससमा स्मृता
पूजयेदशनं नित्यमद्याच्चैनमकुत्सयन् ॥ ६४ ॥

दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ॥ ६५ ॥

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुखमेव वा ॥ ६६ ॥

नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः
प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ॥ ६७ ॥

शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ ६८ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथनं
नाम एकपञ्चाशत्तमोऽध्यायः ५१