ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
भवता कथितं सर्वं यत्किञ्चित्पृष्टमेव च
इदानीमपि पृच्छाम एकं वद महामते ॥ १ ॥
मूलम्
भवता कथितं सर्वं यत्किञ्चित्पृष्टमेव च
इदानीमपि पृच्छाम एकं वद महामते ॥ १ ॥
विश्वास-प्रस्तुतिः
एतेषां खलु तीर्थानां सेवनाद्यत्फलं लभेत्
सर्वेषां किल कृत्वैकं कर्म केन च लभ्यते ॥ २ ॥

एतन्नो ब्रूहि सर्वज्ञ कर्मैवं यदि वर्तते
सूत उवाच-
कर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः ॥ ३ ॥

नानाविधो महाभागास्तत्र चैकं विशिष्यते
हरिभक्तिः कृता येन मनसा वचसा गिरा ॥ ४ ॥
मूलम्
नानाविधो महाभागास्तत्र चैकं विशिष्यते
हरिभक्तिः कृता येन मनसा वचसा गिरा ॥ ४ ॥
विश्वास-प्रस्तुतिः
जितं तेन जितं तेन जितमेव न संशयः
हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः ॥ ५ ॥

हरिनाममहामन्त्रैर्नश्येत्पापपिशाचकम्
हरेः प्रदक्षिणं कृत्वा सकृदप्यमलाशयाः ॥ ६ ॥

सर्वतीर्थसमाप्लावं लभन्ते यन्न संशयः
प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् ॥ ७ ॥

विष्णुनामपरं जप्त्वा सर्वमन्त्रफलं लभेत्
विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः ॥ ८ ॥

प्रचण्डं विकरालं तद्यमस्यास्यं न पश्यति
सकृत्प्रणामी कृष्णस्य मातुः स्तन्यं पिबेन्नहि ॥ ९ ॥

हरिपादे मनो येषां तेभ्यो नित्यं नमोनमः
पुल्कसः श्वपचो वापि ये चान्ये म्लेच्छजातयः ॥ १० ॥

तेऽपि वन्द्या महाभागा हरिपादैकसेवकाः
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥ ११ ॥

हरौ भक्तिं विधायैव गर्भवासं न पश्यति
हरेरग्रे स्वनैरुच्चैर्नृत्यंस्तन्नामकृन्नरः ॥ १२ ॥

पुनाति भुवनं विप्रा गङ्गादि सलिलं यथा
दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः ॥ १३ ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
हरेः प्रदक्षिणं कुर्वन्नुच्चैस्तन्नामकृन्नरः ॥ १४ ॥

करतालादिसन्धानं सुस्वरं कलशब्दितम्
ब्रह्महत्यादिकं पापं तेनैव करतालितम् ॥ १५ ॥

हरिभक्तिकथामुक्त्वा ख्यायिकां शृणुयाच्च यः
तस्य सन्दर्शनादेव पूतो भवति मानवः ॥ १६ ॥

किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः
तीर्थानां च परं तीर्थं कृष्णनाम महर्षयः ॥ १७ ॥

तीर्थीकुर्वन्ति जगतीं गृहीतं कृष्णनाम यैः
तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः ॥ १८ ॥

विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके
विष्णुरेव भवेन्मर्त्यो यमशोकविनाशनः ॥ १९ ॥

अर्चनीयो नमस्कार्यो हरिरेव न संशयः
ये महाविष्णुमव्यक्तं देवं वापि महेश्वरम् ॥ २० ॥

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ॥ २१ ॥

हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि
ये समानं प्रपश्यन्ति हरिं वै देवतान्तरम् ॥ २२ ॥

ते यान्ति नरकान्घोरान्न्न तांस्तु गणयेद्धीरः
मूर्खं वा पण्डितं वापि ब्राह्मणं केशवप्रियम् ॥ २३ ॥

श्वपाकं वा मोचयति नारायणः स्वयं प्रभुः
नारायणात्परो नास्ति पापराशि दवानलः ॥ २४ ॥

कृत्वापि पातकं घोरं कृष्णनाम्ना विमुच्यते
स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः ॥ २५ ॥

आत्मनोऽभ्यधिकां शक्तिं स्थापयामास सुव्रताः
अत्र ये विवदन्ते वै आयासलघुदर्शनात् ॥ २६ ॥

फलानां गौरवाच्चापि ते यान्ति नरकं बहु
तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः ॥ २७ ॥

पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः
हरिनाममहावज्रं पापपर्वतदारणे ॥ २८ ॥

तस्य पादौ तु सफलौ तदर्थं गतिशालिनौ
तावेव धन्यावाख्यातौ यौ तु पूजाकरौ करौ ॥ २९ ॥

उत्तमाङ्गमुत्तमाङ्गं तद्धरौ नम्रमेव यत्
सा जिह्वा या हरिं स्तौति तन्मनस्तत्पदानुगम् ॥ ३० ॥

तानि लोमानि चोच्यन्ते यानि तन्नाम्नि चोत्थितम्
कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गतः ॥ ३१ ॥

अहो लोका अतितरां दैवदोषेण वञ्चिताः
नामोच्चारणमात्रेण मुक्तिदं न भजन्ति वै ॥ ३२ ॥

वञ्चितास्ते च कलुषाः स्त्रीणां सङ्गप्रसङ्गतः
प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने ॥ ३३ ॥

ते मूर्खा ह्यकृतात्मानः पुत्रशोकादि विह्वलाः
रुदन्ति बहुलालापैर्न कृष्णाक्षरकीर्तने ॥ ३४ ॥

जिह्वां लब्ध्वापि लोकेऽस्मिन्कृष्णनामजपेन्नहि
लब्ध्वापि मुक्तिसोपानं हेलयैव च्यवन्ति ते ॥ ३५ ॥

तस्माद्यत्नेन वै विष्णुं कर्मयोगेन मानवः
कर्मयोगार्च्चितो विष्णुः प्रसीदत्येव नान्यथा ॥ ३६ ॥

तीर्थादप्यधिकं तीर्थं विष्णोर्भजनमुच्यते
सर्वेषां खलु तीर्थानां स्नानपानावगाहनैः ॥ ३७ ॥

यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात्
यजन्ते कर्मयोगेन धन्या एव नरा हरिम् ॥ ३८ ॥

तस्माद्भजध्वं मुनयः कृष्णं परममङ्गलम् ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे स्वर्गखण्डे विष्णुभक्तिप्रशंसनं नाम पञ्चाशत्तमोऽध्यायः ५०